चिरस् दृष्ट्वा राजेन्द्र तेऽन्योन्यस्य प्रियंवदे। कथयामासतुश्चित्राः कथाः कुरुयदूचिताः
अथाब्रवीत्सत्यभामा कृष्णस् महिषी प्रिया। सात्राजिती याज्ञसेनीं रहसीदं सुमध्यमा
केन द्रौपदि वृत्तेन पाण्डवानधितिष्ठसि। लोकपालोपमान्वीरान्नूनं परमसंमतान्
कथं च वशगस्तुभ्यं न कुप्यन्ति च ते शुभे। तव वश्या हि सतत पाण्डवाः प्रियदर्शने
न चान्योन्यमसूयन्ते कथं वा ते सुमध्यमे'। मुखप्रेक्षाश्च ते सर्वे तत्त्वमेतद्ब्रवीहि मे
व्रतचर्या तपो वाऽपि स्नानमन्त्रौषधानि वा। विद्यावीर्यं मूलवीर्यंजपहोमागदास्तथा
ममाद्याचक्ष्वपाञ्चालि यशस्यं भगवेतनम्। येन कृष्णे भवेन्नित्यं मम कृष्णो वशानुगः
एवमुक्त्वासत्यभामा विरराम यशस्विनी। पतिव्रता महाभागा द्रौपदी प्रत्युवाच ताम्
असत्स्त्रीणां समाचरं सत्ये मामनुपृच्छसि। असदाचरिते मार्गे कथं स्यादनुकीर्तनम्
अनुप्रश्नः संशयो वा नैष त्वय्युपपद्यते। कथं ह्युपेता बुद्ध्या त्वंकृष्णस् महिषी प्रिया
यदैव भर्ता जानीयानमन्त्रमूलपरां स्त्रियम्। उद्विजेत तदैवास्याः सर्पाद्वेश्मगतादिव
उद्विग्नस्य कुतः शान्तिरशान्तस्य कुतः सुखम्। न जातु वशगो भर्ता स्त्रियाः स्यान्मन्त्रकारणात्
किमत्रप्रहिताश्चापि गदाः परमदारुणाः। मूलप्रवादैर्हि विषं प्रयच्छन्ति जिघांसवः बब
जिह्वया यानि पुरुषस्त्वचा वाप्युपसेवते। तत्र चूर्णानि दत्तानि हन्युः क्षिप्रमसंशयम्
जलोदरसमायुक्ताः श्वित्रिणः पलितास्तथा। अपुमांसः कृताः स्त्रीभिर्जडान्धवधिरास्तथा
पापानुगास्तु पापास्ताः पतीनुपसृजन्त्युत। न जातु विप्रियं भर्तुः स्त्रिया कार्यं कथंचन
वर्ताम्यहं तु यां वृत्तिं पाण्डवेषु महात्मसु। तां सर्वां शृणु मे सत्यां सत्यभामे यशस्विनि
अहंकारं विहायाहं कामक्रोधौ च सर्वदा। सदारान्पाण्डवान्नित्यं प्रयतोपचराम्यहम्
प्रणयं प्रतिसंहृत्य निधायात्मानमात्मनि। शुश्रूषुर्निरभीमाना पतीनां चित्तरक्षिणी
दुर्व्याहृताच्छङ्कमाना दुस्थिताद्दुरवेक्षितात्। दुरासिताद्दुर्व्रजितादिङ्गिताध्यासितादपि
सूर्यवैश्वानरसमान्सोमकल्पान्महारथान्। सेवे चक्षुर्हणः पार्थानुग्रवीर्यप्रतापिनः
देवो मनुष्यो गन्धर्वो युवा चापि स्वलंकृतः। द्रव्यवानभिरूपो वा न मेऽन्यः पुरुषो मतः
न भुक्तवति न स्नाते नासंविष्टे च भर्तरि। न संविशामि नाश्नामि न स्नाये कर्म कुर्वती
क्षेत्राद्वनाद्वा ग्रामाद्वा भर्तारं गुहमागतम्। अभ्युत्थायाभिनन्दामि आसनेनोदकेन च
प्रसन्नभाण्डा मृष्टान्ना काले भोजनदायिनी। संयता गुप्तधान्या च सुसंमृष्टनिवेशना
अतिरस्कृतसंभाषा दुःस्त्रियो नानुसेवती। अनुकूलवती नित्यं भवाम्यनलसा सदा
अनर्म चापि हसितं द्वारि स्थानमभीक्ष्णशः। अवस्करे चिरस्थानं निष्कुटेषु च वर्जये
अत्यालापमसन्तोषं परव्यापारसंकथाः'। अतिहासातिरोषौ च क्रोधस्थानं च वर्जये
निरताऽहं सदा सत्ये पापानां च विवर्जने। सर्वथा भर्तुरहितं न ममेष्टं कथंचन
यदा प्रवसते भर्ता कुटुम्बार्थेन केनचित्। सुमनोवर्णकापेता भवामि व्रतचारिणी