कामजित्कामदः कान्तः सत्यवाग्भुवनेश्वरः। शिशुः शीघ्रः शुचिश्चण्डो दीप्तवर्णः शुभाननः
अमोघस्त्वनघो रौद्रः प्रियश्चन्द्राननस्तथा। दीप्तशक्तिः प्रशान्तात्मा नद्रकुक्कुटमोहनः
षष्ठीप्रियश्च धर्मात्मा पवित्रो मातृवत्सलः। कन्याभर्ता विभक्तश्च स्वाहेयो रेवतीसुतः
प्रभुर्नेता विशाखश्च नैगमेयः सुदुश्चरः। सुव्रतो ललितश्चैवबालक्रीडनकप्रियः
खचारी ब्रह्मचारी च शूरः शरवणोद्भवः। विश्वामित्रप्रियश्चैव देवसेनाप्रियस्तथा। वासुदेवप्रियश्चैव प्रियः प्रियकृदेव तु
नामान्येतानि दिव्यानि कार्तिकेयस्य यः पठेत्। स्वर्गं कीर्तिं धनं चैव स लभेन्नात्र संशयः
स्तोष्यामि देवैर्ऋषिभिश्च जुष्टं शक्त्या गुहंनामभिरप्रमेयम्। षडाननं शक्तिधरं सुवीरं निबोध चैतानि कुरुप्रवीर
ब्रह्मण्यो वै ब्रहमजो ब्रह्मविच्च ब्रह्मेशयो ब्रह्मवतांवरिष्ठः। ब्रह्मप्रियो ब्राह्मणसर्वमन्त्री त्वं ब्रह्मणां ब्राह्मणानांच नेता
स्वाहा स्वधा त्वंपरमं पवित्रं मन्त्रस्तुतस्त्वंप्रथितः षडर्चिः। संवत्सरस्त्वमृतवश्च षड्वै मासार्धमासाश्चदिनं दिशश्च
त्वंपुष्कराक्षस्त्वरविन्दवक्रः सहस्रचक्षोसि सहस्रबाहुः। त्वं लोकपालः परमं हविश्च त्वं भावनः सर्वसुरासुराणाम्
त्वमेव सेनाधिपतिः प्रचण्डः प्रभुर्विभुश्चाप्यथ शक्रजेता। सहस्रपात्त्वं धरणी त्वमेव सहस्रतुष्टिश्च सहस्रभुक्व
सहस्रशीर्षस्त्वमनन्तरूपः। सहस्रपात्त्वंदशशक्तिधारी। गङ्गासुतस्त्वं स्वमतेन देव स्वाहामहीकृत्तिकानां तथैव
त्वं क्रीडसे षण्मुख कुक्कुटेन यथेष्टनानाविधकामरूपी। दीक्षाऽसि सोमो मरुतः सदैव धर्मोऽसि वायुरचलेन्द्र इन्द्रः
सनातनानामपि शाश्वतस्त्वं प्रभुः प्रभूणामपि चोग्रधन्वा। ऋतस्य कर्ता दितिजान्तकस्त्वं जता रिपूणां प्रवरः सुराणाम्
सूक्ष्मं तपस्तत्परमं त्वमेव परावरज्ञोसि परावरस्त्वम्। धर्मस्य कामस्य परस्य चैव त्वत्तेजसा कत्स्नमिदं महात्मन्
व्याप्तं जगत्सर्वसुरप्रवीर शक्त्या मया संस्तुत लोकनाथ। नमोस्तु ते द्वादशनेत्रबाहो अतः परं वेद्मि गतिं न तेऽहम्
स्कन्दस्य य इदं विप्रः पठेज्जन्म समाहितः। श्रावयेद्ब्राह्मणेभ्यो यः शृणुयाद्वा द्विजेरितम्
धनमायुर्यशो दीप्तं पुत्राञ्शत्रुजयं तथा। स पुष्टितुष्टी संप्राप्य स्कन्दसालोक्यमाप्नुयात्
उपासीनेषु विप्रेषु पाण्डवेषु च भारत। द्रौपदी सत्यभामा च विविशाते तदा समम्
प्रविश्य चाश्रमं पुण्यमुभे ते परमस्त्रियौ'। जाहस्यमाने सुप्रीते सुखं तत्र निषीदतुः
चिरस् दृष्ट्वा राजेन्द्र तेऽन्योन्यस्य प्रियंवदे। कथयामासतुश्चित्राः कथाः कुरुयदूचिताः
अथाब्रवीत्सत्यभामा कृष्णस् महिषी प्रिया। सात्राजिती याज्ञसेनीं रहसीदं सुमध्यमा
केन द्रौपदि वृत्तेन पाण्डवानधितिष्ठसि। लोकपालोपमान्वीरान्नूनं परमसंमतान्
कथं च वशगस्तुभ्यं न कुप्यन्ति च ते शुभे। तव वश्या हि सतत पाण्डवाः प्रियदर्शने
न चान्योन्यमसूयन्ते कथं वा ते सुमध्यमे'। मुखप्रेक्षाश्च ते सर्वे तत्त्वमेतद्ब्रवीहि मे
व्रतचर्या तपो वाऽपि स्नानमन्त्रौषधानि वा। विद्यावीर्यं मूलवीर्यंजपहोमागदास्तथा
ममाद्याचक्ष्वपाञ्चालि यशस्यं भगवेतनम्। येन कृष्णे भवेन्नित्यं मम कृष्णो वशानुगः
एवमुक्त्वासत्यभामा विरराम यशस्विनी। पतिव्रता महाभागा द्रौपदी प्रत्युवाच ताम्
असत्स्त्रीणां समाचरं सत्ये मामनुपृच्छसि। असदाचरिते मार्गे कथं स्यादनुकीर्तनम्
अनुप्रश्नः संशयो वा नैष त्वय्युपपद्यते। कथं ह्युपेता बुद्ध्या त्वंकृष्णस् महिषी प्रिया