यदा रुद्ररथं क्रुद्धो महिषः सहसा गतः। रेसतू रोदसी गाढं मुमुहुश् महर्षयः
अनदंश्चमहाकाया दैत्या जलधरोपमाः। आसीच्चनिश्चितं तेषां जितमस्माभिरित्युत
तथाभूते तु भगवानाहूय गुहमात्मजम्। `दौरात्म्यं पश्य पुतर् त्वं दानवस्य दुरात्मनः। जहि शीघ्रं दुराचारं द्रष्टुमिच्छामि ते बलम्
इत्युक्ताव भगवान्स्कन्दं परिपूज्य महेश्वरः। अयोजयन्निग्रहार्थं महिषस् गतायुषः'। सस्मार च तदा स्कन्दं मृत्युं तस्य दुरात्मनः
महिषोऽपि रथं दृष्ट्वा रौद्रं रुद्रस् चानदत्। देवान्संत्रासयंश्चापि दैत्यांस्चापिप्रहर्षयत्
ततस्तस्मिनभये घोरे देवानां समुपस्थिते। आजगाम महासेनः क्रोधात्सूर्य इव ज्वलन्
लोहिताम्बरसंवीतो लोहितस्रग्विभूषणः। लोहिताश्वो महाबाहुर्हिरण्यकवचः प्रभुः
रथमादित्यसंकाशमास्थितः कनकप्रभम्। तं दृष्ट्वा दैत्यसेना सा व्यद्रवत्सहसा रणे
स चापि तां प्रज्वलितां महिषस् विदारिणीम्। मुमोच शक्तिं राजेनद्र महासेनो महाबलः
सा मुक्ताऽभ्यहरत्तस्य महिषस्य शिरो महत्। पपात भिन्ने शिरसि महिषस्त्यक्तजीवितः
पतता शिरसा तेन द्वारं षोडशयोजनम्। पर्वताभेन पिहितं तदाऽगम्यं ततोऽभवत्। उत्तराः कुरवस्तेन गच्छन्त्यद्य यथासुम्
क्षिप्ताक्षिप्ता तु सा शक्तिर्हत्वा शत्रून्सहस्रशः। स्कन्दहस्तमनुप्राप्ता दृश्यते देवदानवैः
प्रायः शरैर्विनिहता महासेनेन धीमता। शेषा दैत्यगणा घोरा भीतास्त्रस्ता दुरासदैः। स्कन्दपारिषदैर्हत्वा भक्षिताश्च सहस्रशः
दनवान्भक्षयन्तस्ते प्रपिबन्तश्च शोणितम्। क्षणान्निर्दानवं सर्वमकार्षुर्भृशहर्षिताः
तमांसीवयथा सूर्यो वृक्षानग्निर्घनान्खगः। तथास्कन्दोऽजयच्छत्रून्स्वेन वीर्येण कीर्तिमान्
संपूज्यमानस्त्रिदशैरभिवाद्य महेश्वरम्। शुशुभे कृतिकापुत्रः प्रकीरणांशुरिवांशुमान्
नष्टशत्रुर्यदा स्कन्दः प्रयातस्तु महेश्वरम्। तदाऽब्रवीन्महासेनं परिष्वज्य पुरंदरः
ब्रह्मदत्तवरः स्कन्द त्वयाऽयं महिषो हतः। `हजय्यो युधि देवानां दानवः स महाबलः
देवास्तृणसमा यस्य वबूवुर्जयतांवर। सोऽयं त्वया महाबाहो शमितो देवकण्टकः
शतं महिषतुल्यानां दानवानां त्वय रणे। निहतंदेवशत्रूणां यैर्वयं पूर्वतापिताः
तावकैर्भक्षिताश्चान्ये दानवाः शतसङ्घशः। अजेयस्त्वं रणेऽरीणामुमापतिरिव प्रभुः
एतत्ते प्रथमं देव ख्यातं कर्म भविष्यति। त्रिषु लोकेषु कीर्तिश्च तवाक्षय्या भविष्यति। वशगाश्च भविष्यनति सुरास्तव महाभुज
महासेनमेवमुक्त्वा निवृत्तः सह दैवतैः। अनुज्ञातो भगवता त्र्यम्बकेण शचीपतिः
गतो भद्रवटंरुद्रो निवृत्ताश्च दिवौकसः। उक्ताश्च देवा रुद्रेण स्कन्दं पश्यत मामिव
स हत्वा दानवगणान्पूज्यमानो महर्षिभिः। एकाह्नैवाजयत्सर्वं त्रैलोक्यं वह्निनन्दनः
स्कन्दस् य इदं विप्रः पठेज्जन्म समाहितः। `शृणुयाद्ब्राह्मणेभ्यो यः श्रावयेद्वाविचेतनम्
धनमायुर्यशो दीप्तिं पुत्राञ्शत्रुजयंतथा'। सपुष्टिमिहसंप्राप्य स्कन्दसालोक्यमाप्नुयात्
भगवञ्श्रोतुमिच्छामि नामानि च महात्मनः। तरिषु लोकेषु यान्यस्य विख्यातानि द्विजोत्तम
इत्युक्तः पाण्डवेयेन महात्मा ऋषिसन्निधौ। उवाच भगवांस्तत्र मार्कण्डेयो महातपाः
आगेयश्चैव स्कनदश्च दीप्तकीर्तिरनामयः। मयूरकेतुर्धर्मात्मा भूतेशो महिषार्दनः