विसर्जिते ततः स्कन्दे बभूवौत्पातिकं महत्। सहसैव महाराजदेवान्सर्वान्प्रमोहयत्
जज्वाल स्वं सनक्षत्रं प्रमूढं भुवनं भृशम्। चचाल व्यनदच्चोर्वी तमोभूतं जगत्प्रभो
ततस्तद्दारुणं दृष्ट्वा क्षुभितः शंकरस्तदा। उमा चैवमहाभाग देवाश्च समहर्षयः
ततस्तेषु प्रमूढेषु पर्वताम्बुदसन्निभम्। नानाप्रहरणं घोरमदृश्यत महद्बलम्
तद्वै घोरमसङ्ख्येयं गर्जच्च विविधा गिरः। अभ्यद्रवद्रणए देवान्भगवन्तं च शंकरम्
तैर्विसृष्टान्यनीकेषु बाणजालान्यनेकशः। पर्वताश्च शतघ्न्यश्च प्रासासिपरिघा गदाः
निपतद्भिश्च तैर्घोरैर्देवानीकं महायुधैः। क्षणेन व्यद्रवत्सर्वं विमुखं चाप्यदृश्यत
निकृत्तयोधनागाश्वं कृत्तायुधमहारथम्। दानवैरर्दितं सैन्यं देवानां विमुखं बभौ
असुरैर्वध्यमानं तत्पावकैरिव काननम्। अपतद्दग्धभूयिष्ठं महाद्रुमवनं तथा
ते विभिन्नशिरोदेहाः प्राद्रवन्तो दिवौकसः। न नाथमधिगच्छन्ति वध्यमाना महारणे
अथ तद्विद्रुतं सैन्यं दृष्ट्वा देवः पुरंदरः। आश्वासयन्नुवाचेदं बलभिद्दानवार्दितम्
भयं त्यजत भद्रं व शूराः शस्त्राणि गृह्णत। कुरुध्वंविक्रमे बुद्धिं मा वः काचिद्व्यथा भवेत्
जयतैनाम्सुदुर्वृत्तान्दानवान्घोरदर्शनान्। अभिद्रवत भद्रं वो मया सह महासुरान्
शक्रस् वचनं श्रुत्वा समाश्वस्ता दिवौकसः। दानवान्प्रत्ययुध्यन्त शक्रं कृत्वा व्यपाश्रयम्
ततस्ते त्रिदशाः सर्वेमरुतश्च महाबलाः। प्रत्युद्ययुर्महाभागाः साध्याश्च वसुभिः सह
तैर्विसृष्टान्यनीकेषु क्रुद्धैः शस्त्राणि संयुगे। शराश्च दैत्यकायेषु पिबन्ति रुधिरं बहु
तेषां देहान्विनिर्भिद्य शरास्ते निशितास्तदा। निपतन्तोऽभ्यदृश्यन्त नगेभ्य इव पन्नगाः
तानि दैत्यशरीराणि निर्भिन्नानिस्म सायकैः। अपतन्भूतलेराजंश्छिन्नाभ्राणीव सर्वशः
ततस्तद्दानवं सैन्यं सर्वैर्देवगणैर्युधि। त्रासितं विविधैर्बाणैः कृतंचैव पराङ्युखम्
अथोत्क्रुष्टं तदा हृष्टैः सर्वैर्देवैरुदायुधैः। संहतानि च तूर्याणि प्रावाद्यन्त ह्यनेकशः
एवमन्योन्रसंयुक्तं युद्धमासीत्सुदारुणम्। देवानां दानवानां च मांसशोणितकर्दमम्
अनयो देवलोकस्य सहसैवाभ्यदृश्यत। तथहि दानवा घोरा विनिघ्नन्ति दिवौकसः
ततस्तूर्यप्रणादाश्च भेरीणां च महास्वनाः। बभूवुर्दानवेन्द्राणां सिंहनादाश्च दारुणाः
अथ दैत्यबलाद्घोरान्निष्पपात महाबलः। दानवो महिषो नाम प्रगृह्य विपुलं गिरिम्
ते तं धनैरिवादित्यं दृष्ट्वासंपरिवारितम्। तमुद्यतगिरिं राजन्व्यद्रवन्त दिवौकसः
अथाभिद्रुत्य महिषो देवांश्चिक्षेप तं गिरिम्। `महाकायं महाराज सतोयमिव तोयदम्
पतता तेन गिरिणा देवसैन्यस् पार्थिव। भीमरूपेण निहतमयुतं प्रापतद्भुवि
अथ तैर्दानवैः सार्धं महिषस्त्रासयन्सुरान्। अभ्यद्रवद्रणे तूर्णं सिंहः क्षुद्रमृगानिव
तमापतन्तं महिषं दृष्ट्वा सेन्द्रा दिवौकसः। व्यद्रवन्तरणे बीता विकीर्णायुधकेतनाः
ततःस महिषः क्रुद्धस्तूर्णं रुद्ररथं ययौ। अभिद्रुत्य च जग्राह रुद्रस् रथकूवरम्