पृष्ठतोविजयस्यापि याति रुद्रस्य पट्टसः। गदामुसलशक्त्याद्यैर्वृतः प्रहरणोत्तमैः
पट्टसं त्वन्वगाद्राजंश्छत्रं रौद्रं महाप्रभम्। कमण्डलुश्चाप्यनु तं महर्षिगणसेवितः
तस्य दक्षिणतो भाति दण्डो गच्छञ्श्रिया वृतः। भृग्वङ्गिरोभिः सहितो दैधतैश्चानुपूजितः
एषां तु पृष्ठतो रुद्रो विमले स्यन्दने स्थितः। याति संहर्षयन्सर्वांस्तेजसा त्रिदिवौकसः
ऋषयश्चापि देवाश्च गन्धर्वा भुजगास्तथा। नद्यो ह्रदाःसमुद्राश्चतथैवाप्सरसां गणाः
नक्षत्राणि ग्रहाश्चैवदेवानां शिशवश्च ये। स्त्रियश्च विविधाकारा यान्ति रुद्रस्य पृष्ठतः
सृजन्त्यः पुष्पवर्षाणि चारुरूपा वराङ्गनाः। पर्जन्यश्चाप्यनुययौ नमस्कृत्य पिनाकिनम्
छत्रं च पाण्डुरं सोमस्तस्य मूर्धन्यधारयत्। चामरे चापि वायुश्च गृहीत्वाऽग्निश्च धिष्ठितौ
शक्रश्च पृष्ठतस्तस्य याति राजञ्छ्रिया वृतः। सहराजर्षिभिः सर्वैः स्तुवानो वृषकेतनम्
गौरी विद्याऽथ गान्धारी केशिनी मित्रसाह्वया। सावित्र्या सह सर्वास्ताः पार्वत्या यान्ति पृष्ठतः
तत्र विद्यागणाः सर्वेये केचित्कविभिः स्मृताः। तस्य कुर्वन्ति वचनं सेन्द्रा देवाश्चमूमुखे
गृहीत्वा तु पताकां वै यात्यग्रे राक्षसो ग्रहः। व्यापृतस्तु श्मशाने यो नित्यं रुद्रस् वै सखा। पिङ्गलो नाम यक्षेन्द्रो लोकस्यानन्ददायकः
एबिश्च सहितो देवस्तत्रयाति यथासुखम्। अग्रतः पृष्ठतस्चैवं न हि तस्य गतिर्ध्रुवा
रुद्रं सत्कर्मभिर्मर्त्याः पूजयन्तीह दैवतम्। शिवमित्येव यं प्राहुरीशं रुद्रं पिनाकिनम्
एवं सर्वे सुरगणास्तदा वै प्रीतमानसाः'। भावैस्तु विविधाकारैः पूजयन्ति महेश्वरम्
कदेवसेनापतिस्त्वं देवसेनाभिरावृतः। अनुदच्छति देवेशं ब्रह्मण्यः कृत्तिकासुतः
अथाब्रवीन्महासेनं महादेवो बृहद्वचः। सप्तमं मारुतस्कन्धं रक्ष नित्यमतन्द्रितः
सप्तमं मारुतस्कन्धं पालयिष्याम्यहं प्रभो। यदन्यदपि मे कार्यं देव तद्वद माचिरम्
कार्येष्वहं त्वया पुत्र संद्रष्टव्यः सदैव हि। दर्शनान्मम भक्त्या च श्रेयः परमवाप्स्यसि
इत्युक्त्वा विससर्जैनं परिष्यज्य महेश्वरः। `स्कन्दं सहोमया प्रीतो ज्वलन्तमिव तेजसा
विसर्जिते ततः स्कन्दे बभूवौत्पातिकं महत्। सहसैव महाराजदेवान्सर्वान्प्रमोहयत्
जज्वाल स्वं सनक्षत्रं प्रमूढं भुवनं भृशम्। चचाल व्यनदच्चोर्वी तमोभूतं जगत्प्रभो
ततस्तद्दारुणं दृष्ट्वा क्षुभितः शंकरस्तदा। उमा चैवमहाभाग देवाश्च समहर्षयः
ततस्तेषु प्रमूढेषु पर्वताम्बुदसन्निभम्। नानाप्रहरणं घोरमदृश्यत महद्बलम्
तद्वै घोरमसङ्ख्येयं गर्जच्च विविधा गिरः। अभ्यद्रवद्रणए देवान्भगवन्तं च शंकरम्
तैर्विसृष्टान्यनीकेषु बाणजालान्यनेकशः। पर्वताश्च शतघ्न्यश्च प्रासासिपरिघा गदाः
निपतद्भिश्च तैर्घोरैर्देवानीकं महायुधैः। क्षणेन व्यद्रवत्सर्वं विमुखं चाप्यदृश्यत
निकृत्तयोधनागाश्वं कृत्तायुधमहारथम्। दानवैरर्दितं सैन्यं देवानां विमुखं बभौ
असुरैर्वध्यमानं तत्पावकैरिव काननम्। अपतद्दग्धभूयिष्ठं महाद्रुमवनं तथा
ते विभिन्नशिरोदेहाः प्राद्रवन्तो दिवौकसः। न नाथमधिगच्छन्ति वध्यमाना महारणे