मिथुनं वै महाभाग तत्र तद्रुद्रसंभवम्'। संभूतं लोहितोदे तु शुक्रशेषमवापतत्
सूर्यरश्मिषु चाप्यनयदन्यच्चैवापतद्भुवि। आसक्तमन्यद्वृक्षेषु तदेवं प्चधाऽपतत्
तत्र ते विविधाकारा गणा ज्ञेया मनीषिभिः। तव पारिषदा घोरा य एते पिशिताशिनः
एवमस्त्विति चाप्युक्त्वा महासेनो महेश्वरम्। अपूजयदमेयात्मा पितरं पितृवत्सलः
अर्कपुष्पैस्तु ते पञ् गणाः पूज्या धनार्थिभिः। व्यादिप्रशमनार्थं चतेषां पूजां समाचरेत्
मिञ्जिकामिञ्जिकं चैव मिथुनं रुद्रसंभवम्। नमस्कार्यं सदैवेह बालानां हितमिच्छता
स्त्रियो मानुषमांसादा वृक्षका नाम नामतः। वृक्षेषु जातास्ता देव्यो नमस्कार्याः प्रजार्थिभिः
एषामेव पिशाचानामसङ्ख्येयगणाः स्मृताः। घण्टायाः सपताकायाः शृणु मे संभवं नृप
ऐरावतस्य घण्टे द्वे वैजयन्त्याविति श्रुते। गुहस्य ते स्वयं दत्ते क्रमेणानाय्य धीमता
एका तत्रविशाखस्य घण्टा स्कन्दस्य चापरा। पताका कार्तिकेयस् विशाखस्य च लोहिता
यानि क्रीडनकान्यस्य देवैर्दत्तानि वै तदा। तैरेव रमते देवो महासेनो महाबलः
स संवृतः पिशाचानां गणैर्देवगणैस्तथा। शुशुभे काञ्चने शैले दीप्यमानः श्रिया वृत्तः
तेन वीरेण शुशुभे स शैलः शुभकाननः। आदित्येनेवांशुमता मन्दरश्चारुकन्दरः
संतानकवनैः फुल्लैः करवीरवनैरपि। पारिजातवनैश्चैव जपाशोकवनैस्तथा
कदम्बतरुषण्डैश्च दिव्यैर्मृगगणैरपि। दिव्यैः पक्षिगणैश्चैव शुशुभे श्वेतपर्वतः
तत्रदेवगणाः सर्वेसर्वे देवर्षयस्तथा। मेघतूर्यरवाश्चैव क्षुब्धोदधिसमस्वनाः
तत्रदेवाश्च गन्धर्वा नृत्यन्तेऽप्सरसस्तथा। हृष्टानां तत्रभूतानां श्रूयते निनदो महान्
एवं सेन्द्रं जगत्सर्वं श्वेतपर्वतसंस्थितम्। प्रहृष्टं प्रेक्षते स्कन्दं न च ग्लायति दर्शनात्
यदाऽभिषिक्तो भगवान्सैनापत्ये तु पावकिः। तदा संप्रस्थितः श्रीमान्हृष्टो भद्रवटं हरः
रथेनादित्यवर्णेन पार्वत्या सहितः प्रभुः। `अनुयातः सुरैः सर्वैः सहस्राक्षपुरोगमैः
सहस्रं तस्य सिंहानां तस्मिन्युक्तं रथोत्तमे। उत्पपात दिवं शुभ्रं कालेनाभिप्रचोदितम्
तेपिबन्त इवाकाशं त्रासयन्तक्षराचरान्। सिंहा नभस्यगच्छन्त नदन्तश्चारुकेसराः
तस्मिन्रथे पशुपतिः स्थितो भात्युमया सह। विद्युता सहितः सूर्यः सेन्द्रचापे घने यथा
अग्रतस्तस्य भगवान्धनेशो गुह्यकैः सह। आस्थाय रुचिरं याति पुष्पकं नरवाहनः
ऐरावतं समास्थाय शक्रश्चापि सुरैः सह। पृष्ठतोऽनुययौ यान्तं वरदं वृषभध्वजम्
जृम्भकैर्यक्षरक्षोभिः स्रग्विभिः समलंकृतः। यात्यमोघो महायक्षो दक्षिणं पक्षमास्थितः
तस्य दक्षिणतो देवा बहवश्चित्रयोधिनः। गच्छन्ति वसुभिः सार्धं रुद्रैश्च सह संगताः
यमश्च मृत्युना सार्धं सर्वतः परिवारितः। घोरैर्व्याधिशतैर्याति घोररूपवपुस्तथा
यमस्य पृष्ठतश्चैव रघोरस्त्रिशिखरः शितः। विजयो नाम रुद्रस्य याति शूलः स्वलंकृतः
तमुग्रपाशो वरुणो भगवान्सलिलेश्वरः। परिवार्य शनैर्याति यादोभिर्विविधैर्वृतः