उपाघ्राति च यो गन्धान्रसांश्चापि पृथग्विधान्। उन्माद्यति स तु क्षिप्रं स ज्ञेयो राक्षसो ग्रहः
गन्धर्वाश्चापि यं दिव्याः संविशन्ति नरं भुवि। उन्माद्यति स तु क्षिप्रं ग्रहो गान्धर्व एव सः
अधिरोहन्ति यं नित्यं पिशाचाः पुरुषं प्रति। उन्माद्यति स तु क्षिप्रं ग्रहः पैशाच एव सः
आविशन्ति च यं यक्षाः पुरुषं कालपर्यये। उनमाद्यति स तु क्षिप्रं ज्ञेयो यक्षग्रहस्तु सः
यस् दोषैः प्रकुपितं चित्तं मुह्यति देहिनः। उनमाद्यति स तु क्षिप्रं साधनं तस्य शास्त्रतः
वैक्लव्याच्च भयाच्चैव घोराणां चापि दर्शनात्। उन्माद्यति स तु क्षिप्रं सान्त्वं तस्य तु साधनम्
कश्चित्क्रीडितुकामो वै भोक्तुकामस्तथाऽपरः। अभिकामस्तथैवान्य इत्येष त्रिविधो ग्रहः
यावत्सप्ततिवर्षाणि भवन्त्येते ग्रहा नृणाम्। अतः परं देहिनां तु ग्रहतुल्या भवेञ्जरा
अप्रकीर्णेन्द्रियं दान्तं शुचिं नित्यमतन्द्रितम्। आस्तिकं श्रद्दधानं च वर्जयन्ति तदा ग्रहाः
इत्येष ते ग्रहोद्देशो मानुषाणां प्रकीर्तितः। न स्पृशन्ति ग्रहा भक्तान्नरान्देवं महेश्वरम्
यदा स्कन्देन मातृणामेवमेतत्प्रियं कृतम्। अथनैमब्रवीत्स्वाहा मम पुत्रस्त्वमौरसः
इच्छाम्यहं त्वया दत्तां प्रीतिं परमदुर्लभाम्। तामब्रवीत्ततः स्कन्दः प्रीतिमिच्छसि कीदृशीम्
दक्षस्याहं प्रिया कन्या स्वाहा नाम महाभुज। बाल्यात्प्रभृति नित्यं च जातकामा हुताशने
न स मां कामिनीं पुत्र सम्यग्जनाति पावकः। इच्छामि शाश्वतं वासं वस्तु पुत्र सहाग्निना
हव्यं कव्यंच यत्किंचिद्द्विजा मन्त्रसुसंस्तुतम्। होष्यन्त्यग्नौ सदा देवि स्वाहेत्युक्त्वासमुद्धृतम्
अद्यप्रभृति दास्यन्ति सुवृत्ताः सत्पथे स्थिताः। एवमग्निसत्वया सार्धं सदा वत्स्यति शोभने
एवमुक्ता ततः स्वाहा तुष्टास्कन्देन पूजिता। पावकेन समायुक्ता भर्त्रा स्कन्दमपूजयत्
ततो ब्रह्मा महासेनं प्रजापतिरथाब्रवीत्। अभिगच्छ महादेवं पितरं त्रिपुरार्दनम्
रुद्रेणाग्निं समाविश्य स्वाहामाविश्य चोमया। हितर्थं सर्वलोकानां जातस्त्वमपराजितः
उमायोन्यां च रुद्रेण शुक्रं सिक्तं महात्मना। अस्मिन्गिरौ निपतितं मिञ्जिकमिञ्जिकं यतः
मिथुनं वै महाभाग तत्र तद्रुद्रसंभवम्'। संभूतं लोहितोदे तु शुक्रशेषमवापतत्
सूर्यरश्मिषु चाप्यनयदन्यच्चैवापतद्भुवि। आसक्तमन्यद्वृक्षेषु तदेवं प्चधाऽपतत्
तत्र ते विविधाकारा गणा ज्ञेया मनीषिभिः। तव पारिषदा घोरा य एते पिशिताशिनः
एवमस्त्विति चाप्युक्त्वा महासेनो महेश्वरम्। अपूजयदमेयात्मा पितरं पितृवत्सलः
अर्कपुष्पैस्तु ते पञ् गणाः पूज्या धनार्थिभिः। व्यादिप्रशमनार्थं चतेषां पूजां समाचरेत्
मिञ्जिकामिञ्जिकं चैव मिथुनं रुद्रसंभवम्। नमस्कार्यं सदैवेह बालानां हितमिच्छता
स्त्रियो मानुषमांसादा वृक्षका नाम नामतः। वृक्षेषु जातास्ता देव्यो नमस्कार्याः प्रजार्थिभिः
एषामेव पिशाचानामसङ्ख्येयगणाः स्मृताः। घण्टायाः सपताकायाः शृणु मे संभवं नृप
ऐरावतस्य घण्टे द्वे वैजयन्त्याविति श्रुते। गुहस्य ते स्वयं दत्ते क्रमेणानाय्य धीमता
एका तत्रविशाखस्य घण्टा स्कन्दस्य चापरा। पताका कार्तिकेयस् विशाखस्य च लोहिता