दैत्यानां या दितिर्माता तामाहुर्मुखमण्डिकाम्। अत्यर्थं शिशुमांसेन संप्रहृष्टा दुरासदा
कुमाराश्च कुमार्यश् ये प्रोक्ताः स्कन्दसंभवाः। तेऽपि गर्भभुजः सर्वे कौरव्यसुमहाग्रहाः
तासामेव तु पत्नीनां पतयस्ते प्रकीर्तिताः। आजायमानान्गृह्णन्ति बालकान्रौद्रकर्मणः
गवां माता तु या प्राज्ञैः कथ्यते सुरभिर्नृप। शकुनिस्तामथारुह्यसह भुङ्क्ते शिशून्भुवि
सरमा नाम या माता शुनां देवी जनाधिप। साऽपिगर्भान्समादत्ते मानुषीणां सदैव हि
पादपानां च या माता करञ्जनिलया हि सा। वरदा सा हि सौम्या च नित्यं भूतानुकम्पिनी
करञ्जे तां नमस्यन्ति तस्मात्पुत्रार्थिनो नराः। इमे त्वष्टादशान्ये वै ग्रहा मांसमधुप्रियाः
द्विपञ्चरात्रं तिष्ठन्ति सततं सूतिकागृहे। कद्रूः सूक्ष्मवपुर्भूत्वा गर्भिणीं प्रविशत्यथ
भुङ्क्ते सा तत्र तं गर्भं सा तु नागं प्रसूयते। गन्धर्वाणां तु या माता सा गर्भं गृह्य गच्छति
ततो विलीनगर्भा सा मानुषी भुवि दृश्यते। या जनित्री त्वप्सरसां गर्भमास्ते प्रगृह्य सा
उपविष्टं ततो गर्भं कथयनति मनीषिणः। लोहितस्योदधेः कन्या धात्री स्कन्दस्य सा स्मृता
लोहितायनिरित्येवं कदम्बे सा हि पूज्यते। पुरुषे तु यथा रुद्रस्तथाऽऽर्या प्रमदास्वपि
आर्या माता कुमारस्य पृथक्कामार्थमिज्यते। एवमेते कुमाराणां मया प्रोक्ता महाग्रहाः
यावत्षोडश वर्षाणि शिशूनां ह्यशिवास्ततः। ये च मातृगणाः प्रोक्ताः पुरुषाश्चैवये ग्रहाः
सर्वे स्कन्दग्रहा नाम ज्ञेया नित्यं शरीरिभिः। तेषां प्रशमनं कार्यं स्नानं धूपमथाञ्जनम्। बलिकार्गेपहाराश् स्कन्दस्येज्या विशेषतः
एवमभ्यर्चिताः सर्वे प्रयच्छन्ति शुभं नृणाम्। आयुर्दीर्घं च राजेनद्रसम्यक्पूजानमस्कृताः
ऊर्ध्वं तु षोडशाद्वर्षाद्ये भवन्ति ग्रहा नृणाम्। तानहं संप्रवक्ष्यामि नमस्कृत्य महेश्वरम्
यः पश्यति नरो देवाञ्जाग्रद्वा शयितोपि वा। उन्माद्यति स तु क्षिप्रं तं तु देवग्रहं विदुः
आसीनश्च शयानश्च यः पश्यति नरः पितॄन्। उन्माद्यतिस तु क्षिप्रं स ज्ञेयस्तु पितृग्रहः
अवमन्यति यः सिद्धान्क्रुद्धाश्चापि शपन्ति यम्। उन्माद्यति स तु क्षिप्रं ज्ञेयः सिद्धग्रहस्तु सः
उपाघ्राति च यो गन्धान्रसांश्चापि पृथग्विधान्। उन्माद्यति स तु क्षिप्रं स ज्ञेयो राक्षसो ग्रहः
गन्धर्वाश्चापि यं दिव्याः संविशन्ति नरं भुवि। उन्माद्यति स तु क्षिप्रं ग्रहो गान्धर्व एव सः
अधिरोहन्ति यं नित्यं पिशाचाः पुरुषं प्रति। उन्माद्यति स तु क्षिप्रं ग्रहः पैशाच एव सः
आविशन्ति च यं यक्षाः पुरुषं कालपर्यये। उनमाद्यति स तु क्षिप्रं ज्ञेयो यक्षग्रहस्तु सः
यस् दोषैः प्रकुपितं चित्तं मुह्यति देहिनः। उनमाद्यति स तु क्षिप्रं साधनं तस्य शास्त्रतः
वैक्लव्याच्च भयाच्चैव घोराणां चापि दर्शनात्। उन्माद्यति स तु क्षिप्रं सान्त्वं तस्य तु साधनम्
कश्चित्क्रीडितुकामो वै भोक्तुकामस्तथाऽपरः। अभिकामस्तथैवान्य इत्येष त्रिविधो ग्रहः
यावत्सप्ततिवर्षाणि भवन्त्येते ग्रहा नृणाम्। अतः परं देहिनां तु ग्रहतुल्या भवेञ्जरा
अप्रकीर्णेन्द्रियं दान्तं शुचिं नित्यमतन्द्रितम्। आस्तिकं श्रद्दधानं च वर्जयन्ति तदा ग्रहाः
इत्येष ते ग्रहोद्देशो मानुषाणां प्रकीर्तितः। न स्पृशन्ति ग्रहा भक्तान्नरान्देवं महेश्वरम्