धनिष्ठादिस्तदा कालो ब्रह्मणा परिकल्पितः। पूर्वकाले रोहिण्यारम्भे एव चन्द्र, सूर्य एवं गुरोः योगं भवति स्म। - टिप्पणी रोहिणी ह्यभवत्पूर्वमेवं सङ्ख्या समाभवत्
एवमुक्ते तु शक्रेण त्रिदिवं कृत्तिका गताः। नक्षत्रं सप्तशीर्षाभंं इति पाठभेदः नक्षत्रं शकटाकारं भाति तद्वह्निदैवतम्
विनता चाब्रवीत्स्कन्दं मम त्वं पिण्डदः सुतः। इच्छामि नित्यमेवाहं त्वया पुत्र सहासितुम्
एवमस्तु नमस्तेऽस्तु पुत्रस्नेहात्प्रशाधि माम्। स्नुषया पूज्यमाना वै देवि वत्स्यसि नित्यदा
अथ मातृगणः सर्वः स्कन्दं वचनमब्रवीत्। वयं सर्वस्य लोकस्य मातरः कविभिः स्तुताः। इच्छामो मातरस्तुभ्यं भवितुं पूजयस्व नः
तासां तु वचनं श्रुत्वास्कन्दो वचनमब्रवीत्'। मातरो हि भवत्यो मे भवतीनामहं सुतः। उच्यतां यन्मया कार्यं भवतीनामथेप्सितम्
यास्तु ता मातरः पूर्वं लोकस्यास्य प्रकल्पिताः। अस्माकं तु भवेत्स्थानं तासां चैव न तद्भवेत्
भवेम पूज्या लोकस्य न ताः पूज्याः सुरर्षभ। प्रजाऽस्माकं हृतास्ताभिस्त्वत्कृते ताः प्रयच्छ नः
वृत्ताः प्रजा न ताः प्रक्या भवतीभिर्निषेवितुम्। अन्प्रां वः कां प्रयच्छामि प्रजां यां मनसेच्छथा
इच्चाम तासां मातॄणां प्रजा भोक्तुं प्रयच्छ नः। त्वया सह पृथग्भूता ये च तासामथेश्वराः
प्रजा वो दद्मि कष्टं तु भवतीभिरुदाहृतम्। परिरक्षत भद्रं वः प्रजा साधुनमस्कृताः
परिरक्षाम भद्रं ते प्रजाः स्कन्द यथेच्छसि। त्वया नो रोचते स्कन्द सहवासश्चिरंप्रभो
यावत्षोडश वर्षाणि भवन्ति तरुणाः प्रजाः। प्रबाधत मनुष्याणां तावद्रूपैः पृथग्विधैः
अहं च वः प्रदास्यामि रौद्रमात्मानमव्ययम्। परमं तेन सहिताः सुखं वत्स्यथ पूजिताः
ततः शरीरात्स्कन्दस्य परुषः पावकप्रभः। भोक्तुं प्रजाः स मर्त्यानां निष्पपात महाबलः
अपतत्सहसा भूमौ विसंज्ञोऽथ क्षुधार्दितः। स्कन्देन सोऽभ्यनुज्ञातो रौद्ररूपोऽभवद्ग्रहः
स्कन्दापस्मार इत्याहुर्गृहं तं द्विजसत्तमाः। विनता तु महारौद्रा कथ्यते शकुनिग्रहः
मातॄणां राक्षसंप्राहुस्तं विद्यात्पूतनाग्रहम्। कष्टा दारुणरूपेण घोररूपा निशाचरी
पशाची रदारुणाकारा कथ्यते शीतपूतना। गर्भान्सा मानुषीणां तु हरते घोरदर्शना
अदितिं रेवतीं प्राहुर्ग्रहस्तस्यास्तु रैवतः। सोऽपि बालान्महागोरो बाधते वै महाग्रहः
दैत्यानां या दितिर्माता तामाहुर्मुखमण्डिकाम्। अत्यर्थं शिशुमांसेन संप्रहृष्टा दुरासदा
कुमाराश्च कुमार्यश् ये प्रोक्ताः स्कन्दसंभवाः। तेऽपि गर्भभुजः सर्वे कौरव्यसुमहाग्रहाः
तासामेव तु पत्नीनां पतयस्ते प्रकीर्तिताः। आजायमानान्गृह्णन्ति बालकान्रौद्रकर्मणः
गवां माता तु या प्राज्ञैः कथ्यते सुरभिर्नृप। शकुनिस्तामथारुह्यसह भुङ्क्ते शिशून्भुवि
सरमा नाम या माता शुनां देवी जनाधिप। साऽपिगर्भान्समादत्ते मानुषीणां सदैव हि
पादपानां च या माता करञ्जनिलया हि सा। वरदा सा हि सौम्या च नित्यं भूतानुकम्पिनी
करञ्जे तां नमस्यन्ति तस्मात्पुत्रार्थिनो नराः। इमे त्वष्टादशान्ये वै ग्रहा मांसमधुप्रियाः
द्विपञ्चरात्रं तिष्ठन्ति सततं सूतिकागृहे। कद्रूः सूक्ष्मवपुर्भूत्वा गर्भिणीं प्रविशत्यथ
भुङ्क्ते सा तत्र तं गर्भं सा तु नागं प्रसूयते। गन्धर्वाणां तु या माता सा गर्भं गृह्य गच्छति
ततो विलीनगर्भा सा मानुषी भुवि दृश्यते। या जनित्री त्वप्सरसां गर्भमास्ते प्रगृह्य सा