अथैनमभ्ययुः सर्वा देवसेनाः सहस्रशः। अस्माकं त्वं पतिरिति ब्रुवाणाः सर्वतो दिशः
ताः समासाद्य भगवान्सर्वभूतगणैर्वृतः। अर्चितस्तु स्तुतश्चैव सान्त्वयामास ता अपि
शतक्रतुश्चाभिषिच्य स्कन्दं सेनापतिं तदा। सस्मार तां देवसेनां या सा तेन विमोक्षिता
अयं तस्याः पतिर्नूनं विहितो ब्रह्मणा स्वयम्। संचिन्त्य त्वानयामास देवसेनां ह्यलंकृताम्
स्कन्दं प्रोवाच बलभिदियं कन्या सुरोत्तम। अजाते त्वयि निर्दिष्टा तव पत्नी स्वयंभुवा
तस्मात्त्वमस्या विधिवत्पाणिं मन्त्रपुरस्कृतम्। गृहाण दक्षिणं देव्याः पाणिना पद्मवर्चसा
एवमुक्तः स जग्राह तस्याः पाणिं यथाविधि। बृहस्पतिर्मन्त्रविद्धि जजाप च जुहाव च
एवं स्कन्दस्य महिषीं देवसेनां विदुर्जनाः। षष्ठीं यां ब्राह्मणाः प्राहुर्लक्ष्मीमासां सुखप्रदाम्
सिनीबालीं कुहूं चैव सद्वृत्तिमपराजिताम्। `इत्येवमादिभिर्देवी नामभिः परिकीर्त्यते
यदा स्कन्दः पतिर्लब्धः शाश्वतो देवसेनया। तदा तमाश्रयल्लक्ष्मीः स्वयं देवी शरीरिणी
श्रीजुष्टः पञ्चमीस्कन्दस्तस्माच्छ्रीः पञ्चमी स्मृता। षष्ठ्यां कृतार्थोऽभूद्यस्थात्तस्मात्षष्ठी महातिधिः
श्रिया जुष्टं महासेनं देवसेनापतीकृतम्। सप्तर्षिपत्नयः षड् देव्यस्तत्सकाशमथागमन्
ऋषिभिः संपरित्यक्ता धर्मयुक्ता महाव्रताः। द्रुतमागम्य चोचुस्ता देवसेनापतिं प्रभुम्
वयं पुत्र परित्यक्तां भर्तृभिर्देवसंमितैः। अकारणाद्रुषा तैस्तु पुण्यस्थानात्परिच्युताः
अस्माभिः किल जातस्त्वमिति केनाप्युदाहृतम्। तत्सत्यमेतत्संश्रुत्य तस्मान्नस्त्रातुमर्हसि
अक्षयश्च भवेत्स्वर्गस्त्वत्प्रसादाद्धि नः प्रभो। त्वां पुत्रं चाप्यभीप्सामः कृत्वैतदनृणो भव
मातरो हि भवत्यो मे सुतो वोऽहमनिन्दिताः। यद्वापीच्छत तत्सर्वं संभविष्यति वस्तथा
विवक्षन्तं ततः शक्रं किं कार्यमिति सोऽब्रवीत्। उक्तः स्कन्देन ब्रूहिति सोऽब्रवीद्वासवस्ततः
अभिजित्स्पर्धमाना तु रोहिण्या कन्यसी स्वसा। इच्छन्ती ज्येष्ठतां देवी तपस्तप्तुं वनं गता
तत्र मूढोस्मि भद्रं ते नक्षत्रं गगनाच्च्युतम्। कालं त्विमं परं स्कन्द ब्रह्मणा सह चिन्तय
धनिष्ठादिस्तदा कालो ब्रह्मणा परिकल्पितः। पूर्वकाले रोहिण्यारम्भे एव चन्द्र, सूर्य एवं गुरोः योगं भवति स्म। - टिप्पणी रोहिणी ह्यभवत्पूर्वमेवं सङ्ख्या समाभवत्
एवमुक्ते तु शक्रेण त्रिदिवं कृत्तिका गताः। नक्षत्रं सप्तशीर्षाभंं इति पाठभेदः नक्षत्रं शकटाकारं भाति तद्वह्निदैवतम्
विनता चाब्रवीत्स्कन्दं मम त्वं पिण्डदः सुतः। इच्छामि नित्यमेवाहं त्वया पुत्र सहासितुम्
एवमस्तु नमस्तेऽस्तु पुत्रस्नेहात्प्रशाधि माम्। स्नुषया पूज्यमाना वै देवि वत्स्यसि नित्यदा
अथ मातृगणः सर्वः स्कन्दं वचनमब्रवीत्। वयं सर्वस्य लोकस्य मातरः कविभिः स्तुताः। इच्छामो मातरस्तुभ्यं भवितुं पूजयस्व नः
तासां तु वचनं श्रुत्वास्कन्दो वचनमब्रवीत्'। मातरो हि भवत्यो मे भवतीनामहं सुतः। उच्यतां यन्मया कार्यं भवतीनामथेप्सितम्
यास्तु ता मातरः पूर्वं लोकस्यास्य प्रकल्पिताः। अस्माकं तु भवेत्स्थानं तासां चैव न तद्भवेत्
भवेम पूज्या लोकस्य न ताः पूज्याः सुरर्षभ। प्रजाऽस्माकं हृतास्ताभिस्त्वत्कृते ताः प्रयच्छ नः
वृत्ताः प्रजा न ताः प्रक्या भवतीभिर्निषेवितुम्। अन्प्रां वः कां प्रयच्छामि प्रजां यां मनसेच्छथा
इच्चाम तासां मातॄणां प्रजा भोक्तुं प्रयच्छ नः। त्वया सह पृथग्भूता ये च तासामथेश्वराः