अरजे वाससी रक्ते वसानः पावकात्मजः। भाति दीप्तवपुः श्रमान्रक्ताभ्राभ्यामिवांशुमान्
कुक्कुटश्चाग्निना दत्तस्तस् केतुरलंकृतः। रथे समुच्छितो भाति कालाग्निरव लोहितः
या चेष्टा सर्वभूतानां प्रभा शक्तिर्बलं तथा। अग्रतस्तस्य सा शक्तिर्देवानां जयवर्धनी
विवेश कवचं चास्य शरीरं सहजं तथा। युध्यमानस्य देवस्य प्रादुर्भवति तत्सदा
शक्तिर्धर्मो बलं तेजः कान्तत्वं सत्यमुन्नतिः। ब्रह्मण्यत्वमसंमोहो भक्तानां परिरक्षणम्
निकृन्तनं च शत्रूणां लोकानां चाभिरक्षणम्। स्कन्देन सह जातानि सर्वाण्येव जनाधिप
एवं देवगणैः सर्वैः सोऽभिषिक्तः स्वलंकृतः। बभौ प्रतीतः सुमनाः परिपूर्णेन्दुदर्शनः
इष्टैः स्वाध्यायघोषैश्च देवतूर्यवरैरपि। देवगन्धर्वगीतैश्च सर्वैरप्सरसां गणैः
एतैश्चान्यैश्च बहुभिस्तुष्टैर्हृष्टैः स्वलंकृतः। [सुसंवृतः पिशाचानां गणैर्देवगणैस्तथा।] क्रीडन्भाति तदा देवैरभिषिक्तश्च पावकिः
अभिषिक्तं महासेनमपश्यन्त दिवौकसः। विनिहत्य तमः सूर्यं यथैवाभ्युदितं तथा
अथैनमभ्ययुः सर्वा देवसेनाः सहस्रशः। अस्माकं त्वं पतिरिति ब्रुवाणाः सर्वतो दिशः
ताः समासाद्य भगवान्सर्वभूतगणैर्वृतः। अर्चितस्तु स्तुतश्चैव सान्त्वयामास ता अपि
शतक्रतुश्चाभिषिच्य स्कन्दं सेनापतिं तदा। सस्मार तां देवसेनां या सा तेन विमोक्षिता
अयं तस्याः पतिर्नूनं विहितो ब्रह्मणा स्वयम्। संचिन्त्य त्वानयामास देवसेनां ह्यलंकृताम्
स्कन्दं प्रोवाच बलभिदियं कन्या सुरोत्तम। अजाते त्वयि निर्दिष्टा तव पत्नी स्वयंभुवा
तस्मात्त्वमस्या विधिवत्पाणिं मन्त्रपुरस्कृतम्। गृहाण दक्षिणं देव्याः पाणिना पद्मवर्चसा
एवमुक्तः स जग्राह तस्याः पाणिं यथाविधि। बृहस्पतिर्मन्त्रविद्धि जजाप च जुहाव च
एवं स्कन्दस्य महिषीं देवसेनां विदुर्जनाः। षष्ठीं यां ब्राह्मणाः प्राहुर्लक्ष्मीमासां सुखप्रदाम्
सिनीबालीं कुहूं चैव सद्वृत्तिमपराजिताम्। `इत्येवमादिभिर्देवी नामभिः परिकीर्त्यते
यदा स्कन्दः पतिर्लब्धः शाश्वतो देवसेनया। तदा तमाश्रयल्लक्ष्मीः स्वयं देवी शरीरिणी
श्रीजुष्टः पञ्चमीस्कन्दस्तस्माच्छ्रीः पञ्चमी स्मृता। षष्ठ्यां कृतार्थोऽभूद्यस्थात्तस्मात्षष्ठी महातिधिः
श्रिया जुष्टं महासेनं देवसेनापतीकृतम्। सप्तर्षिपत्नयः षड् देव्यस्तत्सकाशमथागमन्
ऋषिभिः संपरित्यक्ता धर्मयुक्ता महाव्रताः। द्रुतमागम्य चोचुस्ता देवसेनापतिं प्रभुम्
वयं पुत्र परित्यक्तां भर्तृभिर्देवसंमितैः। अकारणाद्रुषा तैस्तु पुण्यस्थानात्परिच्युताः
अस्माभिः किल जातस्त्वमिति केनाप्युदाहृतम्। तत्सत्यमेतत्संश्रुत्य तस्मान्नस्त्रातुमर्हसि
अक्षयश्च भवेत्स्वर्गस्त्वत्प्रसादाद्धि नः प्रभो। त्वां पुत्रं चाप्यभीप्सामः कृत्वैतदनृणो भव
मातरो हि भवत्यो मे सुतो वोऽहमनिन्दिताः। यद्वापीच्छत तत्सर्वं संभविष्यति वस्तथा
विवक्षन्तं ततः शक्रं किं कार्यमिति सोऽब्रवीत्। उक्तः स्कन्देन ब्रूहिति सोऽब्रवीद्वासवस्ततः
अभिजित्स्पर्धमाना तु रोहिण्या कन्यसी स्वसा। इच्छन्ती ज्येष्ठतां देवी तपस्तप्तुं वनं गता
तत्र मूढोस्मि भद्रं ते नक्षत्रं गगनाच्च्युतम्। कालं त्विमं परं स्कन्द ब्रह्मणा सह चिन्तय