भवस्वेन्द्रो महाबाहो सर्वेषां नः सुखावहः। अभिषिच्यस्व चैवाद्य प्राप्तरूपोऽसि सत्तम
शाधि त्वमेव त्रैलोक्यमव्याग्रे निजये रतः। अहं ते किंकरः शक्र न ममेन्द्रत्वमीप्सितम्
बलंतवाद्भुतं वीर त्वं देवानामरीञ्जहि। अवज्ञास्यन्ति मां लोका वीर्यण तव विस्मिताः
इन्द्रत्वे तु स्थितं वीर बलहीनं पराजितम्। `त्वत्तेजसाऽवमंस्यन्ति लोका मां सुरसत्तम
आवयोश्च मिथो भेदे प्रयतिष्यन्त्यतन्द्रिताः। भेदिते च त्वयि विभो लोको द्वैधमुपेष्यति
द्विधाभूतेषु लोकेषु निश्चितेष्वावयोस्तथा। विग्रहः संप्रवर्तेत भूतभेदान्महाबल
तत्र त्वं मां रणे तात यथाश्रद्धं विजेष्यसि। तस्मादिन्द्रो भवानेव भविता मा विचारय
त्वमेव राजा भद्रं ते त्रैलोक्यस्य ममैव च। करोमि किं च तेशक्र शासनात्तद्ब्रवीहि मे
अहमिन्द्रो भविष्यामि तव वाक्यान्महाबल। यदि सत्यमिदं वाक्यं निश्चयाद्भाषितं त्वया
यदि वा शासनं स्कन्द कर्तुमिच्छसि मे शृणु। अभिषिच्यस्व देवानां सैनापत्ये महाबल
दानवानां विनाशाय देवानामर्थसिद्धये। गोब्राह्मणहितार्थाय सैनापत्येऽभिषिञ्च माम्
सोऽभिषिक्तो मघवता सर्वैर्देवगणैः सह। अतीव शुशुभे तत्र पूज्यमानो महर्षिभिः
तत्र तत्काञ्चनं छत्रं ध्रियमाणं व्यरोचत। तथैव सुसमिद्धस्य पावकस्यात्ममण्डलम्
विश्वकर्मकृता चास्य दिव्या माला हिरण्मयी। आबद्धा त्रिपुरघ्नेन स्वयमेव यशस्विना
आगम्य मनुजव्याघ्र सह देव्या परंतप। अर्चयामास सुप्रीतो भगवान्गोवृषध्वजः
रुद्रमग्निं द्विजाः प्राहू रुद्रसूनुस्ततस्तु सः। `कीर्त्यते सुमहातेजाः कुमारोऽद्भुतदर्शनः
रुद्रेण शुक्रमुत्सृष्टं तच्छ्वेतः पर्वतोऽभवत्। पावकस्येनद्रियं श्वेते कृत्तिकाभिः कृतं नगे
पूज्यमानं तु रुद्रेण दृष्ट्वा सर्वेदिवौकसः। रुद्रसूनुं ततः प्राहुर्गुहं गुणवतांवरम्
अनुप्रविश्य रुद्रेण वह्निं जातो ह्ययं शिशुः। तत्र जातस्ततः स्कन्दो रुद्रसूनुस्ततोऽभवत्
रुद्रस्य वह्नेः स्वाहायाः षण्णां स्त्रीणां च तेजसा। जातः स्कन्दः सुरश्रेष्ठो रुद्रसूनुस्ततोऽभवत्
अरजे वाससी रक्ते वसानः पावकात्मजः। भाति दीप्तवपुः श्रमान्रक्ताभ्राभ्यामिवांशुमान्
कुक्कुटश्चाग्निना दत्तस्तस् केतुरलंकृतः। रथे समुच्छितो भाति कालाग्निरव लोहितः
या चेष्टा सर्वभूतानां प्रभा शक्तिर्बलं तथा। अग्रतस्तस्य सा शक्तिर्देवानां जयवर्धनी
विवेश कवचं चास्य शरीरं सहजं तथा। युध्यमानस्य देवस्य प्रादुर्भवति तत्सदा
शक्तिर्धर्मो बलं तेजः कान्तत्वं सत्यमुन्नतिः। ब्रह्मण्यत्वमसंमोहो भक्तानां परिरक्षणम्
निकृन्तनं च शत्रूणां लोकानां चाभिरक्षणम्। स्कन्देन सह जातानि सर्वाण्येव जनाधिप
एवं देवगणैः सर्वैः सोऽभिषिक्तः स्वलंकृतः। बभौ प्रतीतः सुमनाः परिपूर्णेन्दुदर्शनः
इष्टैः स्वाध्यायघोषैश्च देवतूर्यवरैरपि। देवगन्धर्वगीतैश्च सर्वैरप्सरसां गणैः
एतैश्चान्यैश्च बहुभिस्तुष्टैर्हृष्टैः स्वलंकृतः। [सुसंवृतः पिशाचानां गणैर्देवगणैस्तथा।] क्रीडन्भाति तदा देवैरभिषिक्तश्च पावकिः
अभिषिक्तं महासेनमपश्यन्त दिवौकसः। विनिहत्य तमः सूर्यं यथैवाभ्युदितं तथा