तस्याभयंददौ स्कन्दः सहसैन्यस् सत्तम। ततः प्रहृष्टास्त्रिदशा वादित्राण्यभ्यवादयन्
स्कन्दपारिषदान्धोराञ्छृणुष्वाद्भुतदर्शनान्। वज्रप्हहारात्स्कन्दस्य जज्ञुस्तत्र कुमारकाः। ये हरन्ति शिशूञ्जातान्गर्भस्थाश्चैव दारुणाः
वज्रप्रहारात्कन्याश्च जज्ञिरेऽस् महाबलाः
कुमारान्स विशखं च पुत्रत्वे समकल्पयत्। स भूत्वा भगवान्सङ्ख्ये रक्षंश्छागमुखस्तदा
वृतः कन्यागणैः सर्वैरात्मीयैः सह पुत्रकैः। मातृणां प्रेषितानां च भद्रशाखश्चकोमलैः
ततः कुमारं संजातं स्कन्दमाहुर्जना भुवि। रुद्रमग्निमुखां स्वाहां प्रदेशेषु महाबलाः
यजन्ति पुत्रकामाश्च पुत्रिणश्च सदा जनाः। यास्तास्त्वजनयत्कन्यास्तपो नाम हुताशनः
किं करोमीति ताः स्कन्दं संप्राप्ताः समभाषयन्
भवेम सर्वलोकस्य मातरो वयमुत्तमाः। प्रसादात्तव पूज्याश्च प्रियमेतत्कुरुष्व नः
सोऽब्रवीद्बाढमित्येवं भविष्यध्वं पृथिग्विधाः। शिवाश्चैवाशिवाश्चैव पुनःपुनःरुदारधीः
अग्निर्भूत्वा ततश्चैनं छागवक्रो बहुप्रजः। रमयामास शैलस्थं बलं क्रीडनकैरिव
ततः प्रकल्प्य पुत्रत्वे स्कन्दं मातृगणोऽगमत्। काकी च हलिमा चैव माता चाथ हली तथा। आर्या बाला च धात्री च सप्तैता शिशुमातरः
एतासां वीर्यसंपन्नः शिशुर्नामातिदारुणः। स्कन्दप्रसादजः पुत्रो लोहिताक्षो भयंकरः
एष वीरोऽष्टमः प्रोक्तः स्कन्दो मातृगणोद्भवः। छागवक्रेण सहितो नवमः परिकीर्त्यते
षष्ठं छागमयं वक्रं स्कन्दस्यैवेति विद्धि तम्। षट्शिरोभ्यन्तरं राजन्नित्यं मातृगणार्चितम्
षण्णां तु प्रवरं तस्य शीर्षाणामिह शब्द्यते। शक्तिं येनासृजद्दिव्यां भद्रशाख इति स्म ह
इत्येतद्द्विविधाकारं वृत्तं शुक्लस्य पञ्चमीम्। तत्र युद्धं महाघोरं वृत्तं षष्ठ्यां जनाधिप
उपविष्टं तु तं स्कन्दमामुक्तकवचस्रजम्। हिरण्यचूडमुकुटं हिरण्यांक्षं महाप्रभम्
लोहिताम्बरसंवीतं तीक्ष्णदंष्ट्रं मनोरमम्। सर्वलक्षणसंपन्नं त्रैलोक्यस्यापि सुप्रियम्
ततस्तं वरदं शूरं युवानं मृष्टकुण्डलम्। अभजत्पद्मरूपा श्रीः स्वयमेव शरीरिणी
श्रिया जुष्टः पृथुयशाः स कुमारो वरस्तदा। निषण्णो दृश्यते भूतैः पौर्णमास्यां यथा शशी
अपूजयन्महात्मानो ब्राह्मणास्तं महाबलम्
इदमाहुस्तदा चैव स्कन्दं तत्र महर्षयः
हिरण्यवर्ण भद्रं ते लोकानां शंकरो भव। त्वया षड्रात्रजातेन सर्वे लोका वशीकृताः
अभयंच पुनर्दत्तं त्वयैवैषां सुरोत्तम। तस्मादिन्द्रो भवानस्तु त्रैलोक्यस्याभयंकरः
किमिन्द्रः सर्वलोकानां करोतीह तपोधनाः। कथं देवगणांश्चैव पाति नित्यं सुरेश्वरः
इन्द्रो दधाति भूतानां बलं तेजः प्रजाः सुखम्। तुष्टः प्रयच्छति तथा सर्वान्कामान्सुरेश्वरः
दुर्वृत्तानां संहरति व्रतस्थानां प्रयच्छति। अनुशास्ति च भूतानि कार्येषु बलसूदनः
असूर्ये च भवेत्सूर्यस्तथाऽचनद्रे च चन्द्रमाः। भवत्यग्निश्च वायुश्च पृथिव्यापश्च स्वं तथा
एतदिन्द्रेण कर्तव्यमिन्द्रे हि विपुलं बलम्। त्वं च वीर बली श्रेष्ठस्तस्मादिन्द्रो भवस्व न