अयुतानायी तु खलु पृथुश्रवसो दुहितरमुपयेमे भासां नाम। तस्यामस्य जज्ञेऽक्रोधनः
अक्रोधनस्तु खलु कालिङ्गीं कण्डूं नामोपयेमे। तस्यामस्य जज्ञे देवातिथिः
देवातिथिस्तु खलु वैदर्भीमुपयेमे मर्यादां नाम तस्यामस्य जज्ञे ऋचः
ऋचस्तु खलु वामदेव्यामङ्गराजकन्यायामृक्षं पुत्रमजीजनत्
ऋक्षस्तु खलु तक्षकदुहितरं ज्वलन्तीं नामोपयेमे। तस्यामन्त्यनारमुत्पादयामास
अन्त्यनारस्तु खलु सरस्वत्यां द्वादशवार्षिकं सत्रमाजहार। तमुदवसाने सरस्वत्यभिगम्य भर्तारं वरयामास
तस्यां पुत्रं जनयामास त्रस्नुं नाम। अत्रानुवंशो भवति
त्रस्नुं सरस्वती पुत्रमन्त्यनारादजीजनत्। इलिलं जनयामास कालिन्द्यांत्रस्नुरात्मजम्
इलिलस्तु रथन्तर्यां दुष्यन्तादीन्पञ्च पुत्रानजीजनत्
दुष्यन्तस्तु लाक्षीं नाम भागीरथीमुपयेमे तस्यामस्य जज्ञे जनमेजयः
सएव दुष्यन्तो विश्वामित्रदुहितरं शकुन्तलां नामोपयेमे। तस्यामस्य जज्ञे भरतः
तत्रेमौ श्लोकौ भवतः। माता भस्त्रा पितुः पुत्रो यस्माज्जातः स एव सः। भरस्व पुत्रं दौष्यन्तिं सत्यमाह शकुन्तला
रेतोधाः पुत्र उन्नयति नरदेव यमक्षयात्। त्वं चास्य धाता गर्भस्य सत्यमाह शकुन्तला
ततोऽस्य भरतत्वम्। भरतस्तु खलु काशेयीं सार्वसेनीमुपयेमे सुनन्दां नाम। तस्यामस्य जज्ञे भुमन्युः
भुमन्युस्तु खलु दाशार्हीमुपयेमे सुवर्णां नाम। तस्यामस्य जज्ञे सुहोत्रः
सुहोत्रस्तु खल्वैक्ष्वाकीमुपयेमे जयन्तीं नाम। तस्यामस्य जज्ञे हस्ती। य इदं पुरं निर्मापयामास
तस्माद्धास्तिनपुरत्वम्। हस्ती खलु त्रैगर्तीमुपयेमे यशोदां नाम तस्यामस्य जज्ञे विकुञ्जतः
विकुञ्जनस्तु खलु दाशार्हीमुपयेमे सुन्दरां नाम। तस्यामस्य जज्ञेऽजमीढः
अजमीढस्य तु चतुर्विंशतिपुत्रशतं बभूव। कैकय्यां नागायां गान्धार्यां विमलायामृक्षायामिति
पृथग्वंशकर्तारो नृपतयः। तत्र अजमीढादृक्षायां संवरणो जज्ञे स वंशकरः
सवरणस्तु वैवस्वतीं तपतीं नामोपयेमे। तस्यामस्य जज्ञे कुरुः
कुरुस्तु खलु दाशार्हीमुपयेमे शुभाङ्गीं नाम। तस्यामस्य जज्ञे विदूरथः
विदूरथस्तु खलु मागधीमुपयेमे संप्रियां नाम। तस्यामस्य जज्ञेऽनश्वान्
अनश्वांस्तु खलु मागधीमुपयेमेऽमृतां नाम। तस्यामस्य जज्ञे परिक्षित्
परिक्षित्खलु बाहुकामुपयेमे सुवेषां नाम। तस्यामस्य जज्ञे भीमसेनः
भीमसेनस्तु खलु कैकयीमुपयेमे सुकुमारीं नाम। तस्यामस्य जज्ञे परिश्रवाः
यमाहुः प्रतीप इति। प्रतीपस्तु खलु शैब्यामुपयेमे सुनन्दीं नाम। तस्यां त्रीन्पुत्रानुत्पादयामास देवापिं शन्तनुं बाह्लीकं चेति
देवापिस्तु खलु बाल एवारण्यं प्रविवेश। शन्तनुस्तु महीपालोऽभवत्
तत्र श्लोको भवति। यं यं कराभ्यां स्पृशति जीर्णं स सुखमश्नुते। पुनर्युवा च भवति तस्मात्तं शन्तनुं विदुः
तदस्य शन्तनुत्वं। शन्तनुस्तु खलु गङ्गां भागीरथीमुपयेमे तस्यामस्य जज्ञे देवव्रतः। यमाहुर्भीष्म इति