स तानुवाच व्यथितो वालोऽयं सुमहाबलः। स्रष्टारमपि लोकानां युधि विक्रम्य नाशयेत्। [न बालमुत्सहे हन्तुमिति शक्रः प्रभाषते
तेऽब्रुवन्नास्ति ते वीर्यं यत एवं प्रभासे।] सर्वास्त्वद्याभिगच्छन्तु स्कन्दं लोकस्य मातरः
कामवीर्या घ्नन्तु चैनं तथेत्युक्त्वा च ता ययुः। तमप्रतिबलं दृष्ट्वा विषण्णवदनास्तु ताः
अशक्योऽयंविचिन्त्यैवं तमेव शरणं ययुः। ऊचुश्चैनं त्वमस्माकं पुत्रोऽस्माभिर्धृतंजगत्
अभिनन्द्य ततः सर्वाः प्रस्नुताः स्नेहविक्लबाः। [तासां तद्वचनं श्रुत्वा पातुकामः स्तनान्प्रभुः]
ताः संपूज्य महासेनःकामांश्चासां प्रदाय सः। अपश्यदग्निमायान्तं पितरं बलिनां बली
स तु संपूजितस्तेन सह मातृगणेन ह। परिवार्य महासेनं रक्षमाणः स्थितः शिवः
सर्वासां या तु मातॄणां नारी क्रोधसमुद्भवा। धात्री स्वपुत्रवत्स्कन्दं शूलहस्ताऽभ्यरक्षत
लोहितस्योदधेः कन्या क्रूरा लोहितभोजना। परिष्वज्य महासेनं पुत्रवत्पर्यरक्षत
अग्निर्भूत्वा नैगमेयश्छागवक्रो बहुप्रजः। रमयामास शैलस्तं बालं क्रीडनकैरिव
ब्रहाः सोपग्रहाश्चैव ऋषयो मातरस्तथा। हुताशनमुखाश्चैव दृप्ताः पारिषदां गणाः
एते चान्ये च बहवो घोरास्त्रिदिववासिनः। परिवार्य महासेनं स्थिता मातृगणैः सह
संदिग्धं विजयं दृष्ट्वा विजयेप्सुः सुरेश्वरः। आरुह्यैरावतस्कन्धं प्रययौ दैवतैः सह
आदाय वज्रं बवान्सर्वैर्देवगणैर्वृतः। विजिघांसुर्महासेनमिन्द्रस्तूर्णतरं ययौ
इन्द्रस्तस्य महावेगं दृष्ट्वाऽद्भुतपराक्रमम्। विस्मितश्चाभवद्राजन्देवानीकमचोदयत्
उग्रं तं च महानादं देवानीकं महाप्रभम्। विचित्रध्वजसन्नाहं नानावाहनकार्मुकम्
प्रवराम्बरसंवीतं श्रिया जुष्टमलंकृतम्। विजिघांसुं तमायान्तं कुमारः शक्रमन्वयात्
वियत्पतिः स शक्रस्तु द्रुतमायान्महाबलः। संहर्पयन्देवसेनां जिघांसुः पावकात्मजम्
संपूज्यमानस्त्रिदशैस्तथैव परमर्षिभिः। समीपमथ संप्राप्तो वह्निपुत्रस्य वासवः
सिंहनादं ततश्चक्रे देवेशः सहितैः सुरैः। गुहोऽपिशब्दं तं श्रुत्वा व्यनदात्सागरो यथा
तस्य शब्देन महता समुद्धूतोदधिप्रभम्। वभ्राम तत्रतत्रैव दैवसैन्यमचेतनम्
जिधांसूनुपसंप्राप्तान्देवान्दृष्ट्वा सपावकिः। विससर्ज मुखात्क्रुद्धः प्रवृद्धाः पावकार्चिषः
अदहद्देवसैन्यानि वेपमानानि भूतले
ते प्रदीप्तशिरोदेहाः प्रदीप्तायुधवाहनाः। प्रच्युताः सहसा भान्ति चित्रास्तारागणा इव
दह्यमानाः प्रपन्नास्ते शरणं पावकात्मजम्। देवा वज्रधरं त्यक्त्वाततः शानतिमुपागताः
त्यक्तो देवैस्ततः स्कन्दे वज्रं शक्रो न्यपातयत्
तद्विसृष्टं जघानाशु पर्श्वं स्कन्दस्य दक्षिणम्। विभेद च महाराज पार्श्वं तस्य महात्मनः
वज्रप्रहारात्स्कन्दस्य संजातः पुरुषोऽपरः। युवा काञ्चनसन्नाहः शक्तिधृग्दिव्यकुण्डलः
यद्वज्रविशनाज्जातो विशाखस्तेन सोऽभवत्
तं जातमपरं दृष्ट्वा कालानलसमद्युतिम्। भयादिनद्रस्तुत तं स्कन्दं प्राञ्जलिः शरणं गतः