क्रीडन्भाति महासेनस्त्रींल्लोकान्वदनैः पिवन्। पर्वताग्रेऽप्रमेयात्मा रश्मिमानुदये यथा
स तस् पर्वतस्याग्रे निषण्णोऽद्भुतविक्रमः। व्यलोकयदमेयात्मा मुखैर्नानाविधैर्दिशः
स पश्यन्विविधान्भावांश्चकार निनदं पुनः। तस्य तं निनदं श्रुत्वा न्यपतन्बहुधा जनाः। भीताश्चोद्विग्रमनसस्तमेव शरणं ययुः
ये तुं संश्रिता देवं नानावर्णास्तदा जनाः। तानप्याहुः पारिषदान्ब्राह्मणाः सुमहाबलान्
स तूत्थाय महाबाहुरुपसान्त्व्य च ताञ्जनान्। धनुर्विकृष्य व्यसृजद्बाणाञ्श्वेते महागिरौ
विभेद स शरैः शैलं क्रौञ्चं हिमवतः सुतम्। तेन हंसाश्च गृध्राश्च मेरुं गच्छन्ति पर्वतम्
स विशीर्णोऽपतच्छैलो भृशमार्तस्वराव्रुवन्
तस्मिन्निपतिते त्वन्ये नेदुः शैला भृशं भयात्। `घोरमार्तस्वरं चक्रुर्दृष्ट्वा क्रौञ्चं विदारितम्
सतं नादं भृशार्तानां श्रुत्वाऽपि बलिनांवरः। न प्राव्यधदमेयात्मा शक्तिमुद्यम्य चानदत्
सा तदा विमला शक्तिः क्षिप्ता तेन महात्मना। बिभेद शिखरं घोरं श्वेतस् तरसा गिरेः
स तेनाभिहतो दीर्णो गिरिः श्वेतोऽचलैः सह। पलायत महीं त्यक्त्वा भीतस्तस्मान्महात्मनः
ततः प्रव्यथिता भूमिर्व्यशीर्यत समन्ततः। आर्ता स्कन्दं समासाद्य पुनर्बलवती बभौ
पर्वताश्च नमस्कृत्यतमेव पृथिवीं गताः। अथैनमभजल्लोकः स्कन्दं शुक्लस्य पञ्चमीम्
तस्मिञ्जाते महासत्त्वे महासेने महाबले। समुत्तस्थुर्महोत्पाता घोररूपाः पृथग्विधाः ।। 1
स्त्रीपुंसोर्विपरीतं च तथा द्वन्द्वानि यानि च। ग्रहा दीप्ता दिशः खं च ररास च मही भृशम्
ऋषयश्च महाघोरान्दृष्ट्वोत्पातान्समन्ततः। अकुर्वञ्शान्तिमुद्विग्ना लोकानां लोकभावनाः
निवसन्ति वने ये तु तस्मिंश्चैत्ररथे जनाः। तेऽब्रुवन्नेष नोऽनर्थः पावकेनाहृतो महान्। संगम्य षड्भिः पत्नीभिः सप्तर्षीणामिति स्म ह
अपरे गरुडीमाहुस्तयाऽनर्थोऽयमाहृतः। यैर्दृष्टा सा तदा देवी तस्या रूपेण गच्छती
न तु तत्स्वाहया कर्म कृतंजानाति वै जनः
सुपर्णी तु वचः श्रुत्वा ममायं तनयस्त्विति। उपगम्य शनैः स्कन्दमाहाहं जननी तव
अथ सप्तर्षयः श्रुत्वा जातं पुत्रं महौजसम्। तत्यजुः षट् तदा पत्नीर्विना देवीमरुन्धतीम्। षड्भिरेव तदा जातमाहुस्तद्वनवासिनः
सप्तर्षीनाह च स्वाहा मम पुत्रोऽयमित्युत। अहं हेतुर्नैतदेवमिति राजन्पुनः पुनः
विश्वामित्रस्तु कृत्वेष्टिं सप्तर्षीणां महामुनिः। पावकं कामसंतप्तमदृष्टः पृष्ठतोऽन्वगात्। तत्तेन निखिलं सर्वमवबुध्य यथातथम्
विश्वामित्रस्तु प्रथमं कुमारं शरणं गतः। स्तवं दिव्यं संप्रचक्रे महासेनस् चापि सः
मङ्गलानि च सर्वाणि कौमाराणि त्रयोदश। जातकर्मादिकास्तस् क्रियाश्चक्रे महामुनिः
पड्वक्रस्य तु मांहात्म्यं कुक्कुटस्य तु साधनम्। शक्त्या देव्याः साधनं च तथा पारिषदामषि
विश्वामित्रश्चकारैतत्कर्म लोकहिताय वै। तस्मादृषिः कुमारस् विश्वामित्रोऽभवत्प्रियः
अन्वजानाच्च स्वाहाया रूपान्यत्वं महामुनिः। अब्रवीच्च मुनीन्सर्वाननापराध्यन्ति वै स्त्रियः। श्रुत्वा तु तत्वतस्तस्मात्ते पत्नीः सर्वतोत्यजन्
स्कन्दं श्रुत्वा तदा देवा वासवं सहिताऽब्रुवन्। अविषह्यं वलं स्कन्दं जहि शक्राशु माचिर्
यदि वा न निहंस्येनमद्येन्द्रोऽयं भविष्यति। त्रैलोक्यं सन्निगृह्यास्मांस्त्वां च शक्र महाबला