स्वाहा तं दक्षदुहिता प्रथमाऽकामयत्तदा। सा तस्य च्छिद्रमन्वैच्छच्चिरात्प्रभृतिभामिनी
सा तं ज्ञात्वा यथावत्तु वर्हिं वनमुपागतम्। तत्त्वतः कामसंतप्तं चिन्तयामास भामिनी
अहं सप्तर्षिपत्नीनां कृत्वा रूपाणि पावकम्। कामयिष्यामि कामार्तं तासां रूपेण मोहितम्। एवं कृते प्रीतिरस् कामावाप्तिश्च मे भवेत्
शिवा भार्या त्वङ्गिरसः शीलरूपगुणान्विता। तस्याः सा प्रथमं रूपं कृत्वादेवी जनाधिप
जगाम पावकाभ्याशं तं चोवाच वराङ्गना। मामग्ने कामसंतप्तां त्वं कामयितुमर्हसि
करिष्यसि न चेदेवं मृतां मामुपधारय। `तवाप्यधर्मः सुमहान्भविता वै हुताशन
अहमङ्गिरसो भार्या शिवा नाम हुताशन। सखीभिः सहिता प्राप्ता मन्त्रयित्वा विनिश्चयम्
कथं मां त्वं विजानीषे कामार्तमितराः कथम्। यास्त्वया कीर्तिताः सर्वाः सप्तर्षीणां प्रियाः स्त्रियः
अस्माकं त्वं प्रियो नित्यं बिभीमस्तु वयं तव। त्वच्चित्तमिङ्गितैर्ज्ञात्वा प्रेषिताऽस्मि तवान्तिकम्
मैथुनायेह संप्राप्ता कामाच्चैव द्रुतं च माम्। `उपयन्तुं महावीर्य पूर्वमेव त्वमर्हसि'। [जामयो मां प्रतीक्षन्ते गमिष्यामि हुताशन]
ततोऽग्निरुपयेमे तां शिवां प्रीतिमुदायुतः। प्रीत्या देवी समायुक्ता शुक्रं जग्राह पाणिना
साऽचिन्तयन्ममेदं ये रूपं द्रक्ष्यन्ति कानने। ते ब्राह्मणीनामनृतं दोषं वक्ष्यन्ति पावके
तस्मादेतद्रक्षमाणा गरुडी संभवाम्यहम्। वनान्निर्गमनं चैव सुखं मम भविष्यति
सुपर्णी सा तदा भूत्वा निर्जगाम महावनात्। अपश्यत्पर्वतं श्वेतं शरस्तम्बैः सुसंवृतम्
दृष्टीविषैः सप्तशीर्षैर्गुप्तं भोगिभिरद्भुतैः। रक्षोभिश्च पिशाचैश्च रौद्रैर्भूतगणैस्तथा
राक्षसीभिश्च संपूर्णमनेकैश्च मृगद्विजैः। `नदीप्रस्रवणोपेतं नानातरुलताचितम्
सा तत्र सहसा गत्वा शैलपृष्ठं सुदुर्गमम्। प्राक्षिपत्काञ्चने कुण्डे शुक्रं सा त्वरिता शुभा
शिष्टानामपि सा देवी सप्तर्षीणां महात्मनाम्। पत्नीसरूपतां कृत्वा रमयामास पावकम्
दिव्यरूपमरुन्धत्याः कर्तुं न शकितं तया। तस्यास्तपःप्रभावेण भर्तृशुश्रूषणेन च
षट्कृत्वस्तत्तु निक्षिप्तमग्ने रेतः कुरुत्तम। तस्मन्कुण्डे प्रतिपदि कामिन्या स्वाहया तदा
तत्स्कन्नं तेजसा तत्रसंवृतंजनयत्सुतम्। ऋषिभिः पूजितं स्कन्नमनयन्स्कन्दतां ततः
षट्शिरा द्विगुणश्रोत्रो द्वादशाक्षिभूजक्रमः। एकग्रीवस्त्वेककायः कुमारः समपद्यत
द्वितीयायामभिव्यक्तस्तृतीयायां शिशुर्बभौ। अङ्गप्रत्यङ्गसंभूतश्चतुर्थ्यामभवद्गुहः
लोहिताभ्रेण महता संवृतः सह विद्युता। लोहिताभ्रे सुमहति भाति सूर्य इवोदितः
गृहीतं तु धनुस्तेन विपुलं रोमहर्षणम्। न्यस्तं यत्रिपुरघ्नेन सुरारिविनिकृन्तनम्
तद्गृहीत्वा धनुःश्रेष्ठं ननाद बलवांस्तदा। संमोहयन्निमाँल्लोकान्गुहस्त्रीन्सचराचरान्
तस् तं निनदं श्रुत्वा महामेघौघनिःस्वनम्। उत्पेततुर्महानागौ चित्रश्चैरावतश्च ह
तावापतन्तौ संप्रेक्ष्यस बालोऽर्कसमद्युतिः। द्वाभ्यां गृहीत्वा पाणिभ्यां शक्तिं चान्येन पाणिना
अपरेणाग्निदायादस्ताम्रचूडं भुजेन सः। महाकायमुपश्लिष्टं कुक्कुटं बलिनां वरम्। गृहीत्वा व्यनदद्भीमं चिक्रीड च महाभुजः
द्वाभ्यां भुजाभ्यां बलवान्गृहीत्वा शङ्खमुत्तमम्। प्राध्मापयत् भूतानां त्रासनं बलिनामपि। द्वाभ्यां भुजाभ्यामाकाशं बहुशो निजघान