विनिःसृत्य ययौ वह्निः पार्श्वतो विधिवत्प्रभुः। आगम्याहवनीयं वै तैर्द्विजैर्मन्त्रतो हुतम्
सतत्र विविधं हव्यं प्रतिगृह्यहुताशनः। ऋषिभ्यो भरतश्रेष्ठ प्रायच्छत दिवौकसाम्
निष्क्रामंश्चाप्यपश्यत्स पत्नीस्तेषां महात्मनाम्। स्वेष्वासतेषूपविष्टाः स्नायन्तीश्च यथासुस्वम्
रुक्मवेदिनिभास्तास्तु चन्द्रलेखा इवामलाः। हुताशनार्चिःप्रतिमाः सर्वास्तारा इवाद्भुताः
स तत्रतेन मनसा बभूव क्षुभितेन्द्रियः। पत्नीर्दृष्ट्वा द्विजेन्द्राणां वह्निः कामवशं ययौ
भूयः संचिन्तयामास न न्याय्यं क्षुभितो ह्यहम्। साध्व्यः पत्न्यो द्विजेन्द्राणामकामा कामयाम्यहम्
नैताः शक्या मया द्रष्टुं स्प्रष्टुं वाऽप्यनिमित्ततः। गार्हपत्यं समाविश्य तस्मात्पश्याम्यभीक्ष्णशः
संस्पृशन्निव सर्वास्ताः शिखाभिः काञ्चनप्रभाः। पश्यमानश्च मुमुदे गार्हपत्यं समाश्रितः
निरुध्य तत्रसुचिरमेवं वह्निर्वनं गतः। मनस्तासु विनिक्षिप्य कामयानो वराङ्गनाः
कामसंतप्तहृदयो देहत्यागे विनिश्चितः। अलाभे ब्राह्मणस्त्रीणामग्निर्वनमुपागमत्
स्वाहा तं दक्षदुहिता प्रथमाऽकामयत्तदा। सा तस्य च्छिद्रमन्वैच्छच्चिरात्प्रभृतिभामिनी
सा तं ज्ञात्वा यथावत्तु वर्हिं वनमुपागतम्। तत्त्वतः कामसंतप्तं चिन्तयामास भामिनी
अहं सप्तर्षिपत्नीनां कृत्वा रूपाणि पावकम्। कामयिष्यामि कामार्तं तासां रूपेण मोहितम्। एवं कृते प्रीतिरस् कामावाप्तिश्च मे भवेत्
शिवा भार्या त्वङ्गिरसः शीलरूपगुणान्विता। तस्याः सा प्रथमं रूपं कृत्वादेवी जनाधिप
जगाम पावकाभ्याशं तं चोवाच वराङ्गना। मामग्ने कामसंतप्तां त्वं कामयितुमर्हसि
करिष्यसि न चेदेवं मृतां मामुपधारय। `तवाप्यधर्मः सुमहान्भविता वै हुताशन
अहमङ्गिरसो भार्या शिवा नाम हुताशन। सखीभिः सहिता प्राप्ता मन्त्रयित्वा विनिश्चयम्
कथं मां त्वं विजानीषे कामार्तमितराः कथम्। यास्त्वया कीर्तिताः सर्वाः सप्तर्षीणां प्रियाः स्त्रियः
अस्माकं त्वं प्रियो नित्यं बिभीमस्तु वयं तव। त्वच्चित्तमिङ्गितैर्ज्ञात्वा प्रेषिताऽस्मि तवान्तिकम्
मैथुनायेह संप्राप्ता कामाच्चैव द्रुतं च माम्। `उपयन्तुं महावीर्य पूर्वमेव त्वमर्हसि'। [जामयो मां प्रतीक्षन्ते गमिष्यामि हुताशन]
ततोऽग्निरुपयेमे तां शिवां प्रीतिमुदायुतः। प्रीत्या देवी समायुक्ता शुक्रं जग्राह पाणिना
साऽचिन्तयन्ममेदं ये रूपं द्रक्ष्यन्ति कानने। ते ब्राह्मणीनामनृतं दोषं वक्ष्यन्ति पावके
तस्मादेतद्रक्षमाणा गरुडी संभवाम्यहम्। वनान्निर्गमनं चैव सुखं मम भविष्यति
सुपर्णी सा तदा भूत्वा निर्जगाम महावनात्। अपश्यत्पर्वतं श्वेतं शरस्तम्बैः सुसंवृतम्
दृष्टीविषैः सप्तशीर्षैर्गुप्तं भोगिभिरद्भुतैः। रक्षोभिश्च पिशाचैश्च रौद्रैर्भूतगणैस्तथा
राक्षसीभिश्च संपूर्णमनेकैश्च मृगद्विजैः। `नदीप्रस्रवणोपेतं नानातरुलताचितम्
सा तत्र सहसा गत्वा शैलपृष्ठं सुदुर्गमम्। प्राक्षिपत्काञ्चने कुण्डे शुक्रं सा त्वरिता शुभा
शिष्टानामपि सा देवी सप्तर्षीणां महात्मनाम्। पत्नीसरूपतां कृत्वा रमयामास पावकम्
दिव्यरूपमरुन्धत्याः कर्तुं न शकितं तया। तस्यास्तपःप्रभावेण भर्तृशुश्रूषणेन च
षट्कृत्वस्तत्तु निक्षिप्तमग्ने रेतः कुरुत्तम। तस्मन्कुण्डे प्रतिपदि कामिन्या स्वाहया तदा