एष रौद्रश्चसंघातो महान्युक्तश्च तेजसा। सोमस्य वह्निसूर्याभ्यामद्भुतोऽयं समागमः
जनयेद्यं सुतं सोमः सोऽस्या देव्याः पतिर्भवेत्। अथानेकैर्गुणैश्चाग्निरग्निः सर्वाश्च देवताः
एष चेञ्जनयेद्गर्भं सोऽस्या देव्याः पतिर्भवेत्। एवं संचिन्त्य भगवान्ब्रह्मलोकं तदा गतः
गृहीत्वा देवसेनां तां ववन्दे स पितामहम्। उवाच चास्या देव्यास्त्वं साधु शूरं पतिं दिशा
यथैतच्चिन्तितंकार्यं त्वया दानवसूदन। तथा स भविता गर्भो बलवानुरुविक्रमः
स विष्यति सेनानीस्त्वया सह शतक्रतो। अस्या देव्याः पतिश्चैव स भविष्यति वीर्यवान्
एतच्छ्रुत्वा नमस्तस्मै कृत्वाऽसौ मह कन्यया। तत्राभ्यगच्छद्देवेन्द्रो यत्र सप्तर्षयोऽभवन्
वसिष्ठप्रमुखा मुख्या विप्रेन्द्राः सुमहाप्रभाः। भागार्थं तपसोपात्तं तेषां सोमं तथाऽध्वरे
पिपासवो ययुर्देवाः शतक्रतुपुरोगमाः। इष्टिं कृत्वयतान्यायं सुसमिद्धे हुताशने
जुहुवुस्ते महात्मानो हव्यं सर्वदिवौकसाम्। समाहूतो हुतवहःसोऽद्भुतः सूर्यमण्डलात्
विनिःसृत्य ययौ वह्निः पार्श्वतो विधिवत्प्रभुः। आगम्याहवनीयं वै तैर्द्विजैर्मन्त्रतो हुतम्
सतत्र विविधं हव्यं प्रतिगृह्यहुताशनः। ऋषिभ्यो भरतश्रेष्ठ प्रायच्छत दिवौकसाम्
निष्क्रामंश्चाप्यपश्यत्स पत्नीस्तेषां महात्मनाम्। स्वेष्वासतेषूपविष्टाः स्नायन्तीश्च यथासुस्वम्
रुक्मवेदिनिभास्तास्तु चन्द्रलेखा इवामलाः। हुताशनार्चिःप्रतिमाः सर्वास्तारा इवाद्भुताः
स तत्रतेन मनसा बभूव क्षुभितेन्द्रियः। पत्नीर्दृष्ट्वा द्विजेन्द्राणां वह्निः कामवशं ययौ
भूयः संचिन्तयामास न न्याय्यं क्षुभितो ह्यहम्। साध्व्यः पत्न्यो द्विजेन्द्राणामकामा कामयाम्यहम्
नैताः शक्या मया द्रष्टुं स्प्रष्टुं वाऽप्यनिमित्ततः। गार्हपत्यं समाविश्य तस्मात्पश्याम्यभीक्ष्णशः
संस्पृशन्निव सर्वास्ताः शिखाभिः काञ्चनप्रभाः। पश्यमानश्च मुमुदे गार्हपत्यं समाश्रितः
निरुध्य तत्रसुचिरमेवं वह्निर्वनं गतः। मनस्तासु विनिक्षिप्य कामयानो वराङ्गनाः
कामसंतप्तहृदयो देहत्यागे विनिश्चितः। अलाभे ब्राह्मणस्त्रीणामग्निर्वनमुपागमत्
स्वाहा तं दक्षदुहिता प्रथमाऽकामयत्तदा। सा तस्य च्छिद्रमन्वैच्छच्चिरात्प्रभृतिभामिनी
सा तं ज्ञात्वा यथावत्तु वर्हिं वनमुपागतम्। तत्त्वतः कामसंतप्तं चिन्तयामास भामिनी
अहं सप्तर्षिपत्नीनां कृत्वा रूपाणि पावकम्। कामयिष्यामि कामार्तं तासां रूपेण मोहितम्। एवं कृते प्रीतिरस् कामावाप्तिश्च मे भवेत्
शिवा भार्या त्वङ्गिरसः शीलरूपगुणान्विता। तस्याः सा प्रथमं रूपं कृत्वादेवी जनाधिप
जगाम पावकाभ्याशं तं चोवाच वराङ्गना। मामग्ने कामसंतप्तां त्वं कामयितुमर्हसि
करिष्यसि न चेदेवं मृतां मामुपधारय। `तवाप्यधर्मः सुमहान्भविता वै हुताशन
अहमङ्गिरसो भार्या शिवा नाम हुताशन। सखीभिः सहिता प्राप्ता मन्त्रयित्वा विनिश्चयम्
कथं मां त्वं विजानीषे कामार्तमितराः कथम्। यास्त्वया कीर्तिताः सर्वाः सप्तर्षीणां प्रियाः स्त्रियः
अस्माकं त्वं प्रियो नित्यं बिभीमस्तु वयं तव। त्वच्चित्तमिङ्गितैर्ज्ञात्वा प्रेषिताऽस्मि तवान्तिकम्
मैथुनायेह संप्राप्ता कामाच्चैव द्रुतं च माम्। `उपयन्तुं महावीर्य पूर्वमेव त्वमर्हसि'। [जामयो मां प्रतीक्षन्ते गमिष्यामि हुताशन]