देवसेनां दानवैर्हि भग्नां दृष्ट्वा महाबलः। पालयेद्वीर्यमाश्रित्य स ज्ञेयः पुरुषो मया
स शैलं मानसं गत्वा ध्यायन्नर्थमिमं भृशम्। शुश्रावार्तस्वरं घोरमथ मुक्तं स्त्रिया तदा
अभिधावतु मां कश्चित्पुरुषस्त्रातु चैव ह। पतिं च मे प्रदिशतु स्वयं वा पतिरस्तु मे
पुरंदरस्तु तामाह मा भैर्नास्ति भयं तव। एवमुक्त्वा ततोऽपश्यत्केशिनं स्थितमग्रतः
किरीटिनं गदापाणिं धातुमन्तमिवाचलम्। हस्ते गृहीत्वा कन्यां तामथैनं वासवोऽब्रवीत्
अनार्यकर्मन्कस्मात्त्वमिमां कन्यां जिहीर्षसि। वज्रिणं मांविजानीहि विरमास्याः प्रबाधनात्
विसृजस्व त्वमेवैनां शक्रैषा प्रार्थिता मया। क्षमं तेजीवतो गनतुं स्वपुरं पाकशासन
एवमुक्त्वा गदां केशी चिक्षेपेन्द्रवधाय वै। तामापतन्तीं चिच्छेद मध्ये वज्रेण वासवः
अथास्य शैलशिखरं केशी क्रुद्धो व्यवासृजत्। `महामेघप्रतीकाशं चलत्पावकसंकुलम्
तदापन्ततं संप्रेक्ष्य शैलशृङ्गं शतक्रतुः। बिभेद राजन्वज्रेण भुवि तन्निपपात ह
पतता तु तदा केशी तेन शृङ्गेण ताडितः। हित्वा कन्यां महाभागां प्राद्रवद्भृशपीडितः
अपयातेऽसुरे तस्मिंस्तां कन्यां वासवोऽब्रवीत्। कासि कस्यसि किंचेह कुरुषे त्वं शुभानने
अहं प्रजापतेः कन्या देवसेनेति वुश्रुता। भगिनी मे दैत्यसेना सा पूर्वं कोशिना हृता
सहैवावां भगिन्यौ तु सखीभिः सह मानसम्। आगच्छावो विहारार्थमनुज्ञाप्य प्रजापतिम्
नित्यं चावां प्रार्थयते हर्तुं केशी महासुरः। इच्छत्येनं दैत्यसेना न चाहं पाकशासन
सा हृताऽनेन भगवान्मुक्ताऽहं त्वद्बलेन तु। त्वया देवेन्द्र निर्दिष्टं पतिमिच्छामि दुर्जयम्
मम मातृष्वसेयी त्वं माता दाक्षायणी मम। आख्यातुं त्वहमिच्छामि स्वयमात्मबलं त्वया
अबलाऽहं महाबाहो पतिस्तु बलवान्मम। वरदानात्पितुर्भावी सुरासुरनमस्कृतः
कीदृशं तु बलंदेवि पत्युस्तव भविष्यति। एतदिच्छाम्यहं श्रोतुं तव वाक्यमनिन्दिते
देवदानवयक्षाणां किन्नरोरगरक्षसाम्। जेता यो दुष्टदैत्यानां महावीर्यो महाबलः
यस्तु सर्वाणि भूतानि त्वया सह विजेष्यति। स हि मे भविता भर्ता ब्रह्मण्यः कीर्तिवर्धनः
इन्द्रस्तस्या वचः श्रुत्वा दुःखितोऽचिन्तयद्भृशम्। अस्या देव्याः पतिर्नास्ति यादृशं संप्रभाषते
अथापश्यत्स उदये भास्करं भास्करद्युतिः। सोमं चैव महाभागं प्रविशन्तं दिवाकरम्
अमावास्यां प्रवृत्तायां मुहूर्ते रौद्र एव तु। देवासुरं च संग्रामं सोऽपश्यदुदये गिरौ
लोहितैश्च घनैर्युक्तां पूर्वां संध्यां शतक्रतुः। अपश्यल्लोहितोदं च मघवान्वरुणालयम्
भृगुभिश्चाङ्गिरोभ्यश्च हुतं मन्त्रैः पृथग्विधैः। हव्यं गृहीत्वा वह्निं च प्रविशन्तं दिवाकरम्
पर्व चैव चतुर्विंशं तदा सूर्यमुपस्थितम्। तथा सूर्यं वह्निगतं सोमं सूर्यगतं च तम्
समालोक्यैकतामेव शशिनो भास्करस्य च। समवायं तु तं रौद्रं दृष्ट्वा शक्रोऽन्वचिन्तयत्
सूर्याचन्द्रमसोर्घोरं दृश्यते परिवेषणम्। एतस्मिन्नेव रात्र्यन्ते महद्युद्धं तु शंसति
सरित्सिन्धुरपीयं तु प्रत्यसृग्वाहिनी भृशम्। शृगालिनयग्निवक्रा च प्रत्यादित्यं विराविणी