अद्भुतस्य प्रिया भार्या तस्याः पुत्रो विडूरथः। यावन्तः पावकाः प्रोक्ताः सोमास्तावन्त एव तु
अत्रेश्चाप्यन्वये जाता ब्रह्मणो मानसाः प्रजाः। अग्निः पुत्रान्स्रष्टुकामस्तानेवात्मन्यधारयत्
तस्य तद्ब्रह्मणः कायान्निर्हरन्ति हुताशनाः। एवमेते महात्मानः कीर्तितास्तेऽग्नयो यथा
अप्रमेया यथोत्पन्नाः श्रीमन्तस्तिमिरापहाः। अद्भुतस्त तु माहात्म्यं यथा वेदेषु कीर्तितम्
तादृशं विद्धि सर्वेषामेको ह्येषु हुताशनः। एक एवैष भगवान्विज्ञेयः प्रथमोऽङ्गिराः
बहुधा निःसृतः कायाज्ज्योतिष्टोमः क्रतुर्वथा। इत्येष वंशः सुमहानग्नीनां कीर्तितो मया। पावको विविधैर्मन्त्रैर्हव्यं वहति देहिनाम्
अग्नीनां विविधा वंशाः कीर्तितास्ते मयाऽनघ। शुणु जन्म तु कौरव्य कार्तिकेयस् धीमतः
अद्भुतस्याद्भुतं पुत्रं प्रवक्ष्याम्यमितौजसम्। जातं सप्तर्षिभार्याभिर्ब्रह्मण्यं कीर्तिवर्धनम्
देवासुराः पुरा यत्ता विनिघ्नन्तः परस्परम्। तत्राजयन्सदा देवान्दानवा घोररूपिणः
वध्यमानं बलं दृष्ट्वा बहुशस्तैः पुरंदरः। स सैन्यनायकार्थाय चिन्तयामास वासवः
देवसेनां दानवैर्हि भग्नां दृष्ट्वा महाबलः। पालयेद्वीर्यमाश्रित्य स ज्ञेयः पुरुषो मया
स शैलं मानसं गत्वा ध्यायन्नर्थमिमं भृशम्। शुश्रावार्तस्वरं घोरमथ मुक्तं स्त्रिया तदा
अभिधावतु मां कश्चित्पुरुषस्त्रातु चैव ह। पतिं च मे प्रदिशतु स्वयं वा पतिरस्तु मे
पुरंदरस्तु तामाह मा भैर्नास्ति भयं तव। एवमुक्त्वा ततोऽपश्यत्केशिनं स्थितमग्रतः
किरीटिनं गदापाणिं धातुमन्तमिवाचलम्। हस्ते गृहीत्वा कन्यां तामथैनं वासवोऽब्रवीत्
अनार्यकर्मन्कस्मात्त्वमिमां कन्यां जिहीर्षसि। वज्रिणं मांविजानीहि विरमास्याः प्रबाधनात्
विसृजस्व त्वमेवैनां शक्रैषा प्रार्थिता मया। क्षमं तेजीवतो गनतुं स्वपुरं पाकशासन
एवमुक्त्वा गदां केशी चिक्षेपेन्द्रवधाय वै। तामापतन्तीं चिच्छेद मध्ये वज्रेण वासवः
अथास्य शैलशिखरं केशी क्रुद्धो व्यवासृजत्। `महामेघप्रतीकाशं चलत्पावकसंकुलम्
तदापन्ततं संप्रेक्ष्य शैलशृङ्गं शतक्रतुः। बिभेद राजन्वज्रेण भुवि तन्निपपात ह
पतता तु तदा केशी तेन शृङ्गेण ताडितः। हित्वा कन्यां महाभागां प्राद्रवद्भृशपीडितः
अपयातेऽसुरे तस्मिंस्तां कन्यां वासवोऽब्रवीत्। कासि कस्यसि किंचेह कुरुषे त्वं शुभानने
अहं प्रजापतेः कन्या देवसेनेति वुश्रुता। भगिनी मे दैत्यसेना सा पूर्वं कोशिना हृता
सहैवावां भगिन्यौ तु सखीभिः सह मानसम्। आगच्छावो विहारार्थमनुज्ञाप्य प्रजापतिम्
नित्यं चावां प्रार्थयते हर्तुं केशी महासुरः। इच्छत्येनं दैत्यसेना न चाहं पाकशासन
सा हृताऽनेन भगवान्मुक्ताऽहं त्वद्बलेन तु। त्वया देवेन्द्र निर्दिष्टं पतिमिच्छामि दुर्जयम्
मम मातृष्वसेयी त्वं माता दाक्षायणी मम। आख्यातुं त्वहमिच्छामि स्वयमात्मबलं त्वया
अबलाऽहं महाबाहो पतिस्तु बलवान्मम। वरदानात्पितुर्भावी सुरासुरनमस्कृतः
कीदृशं तु बलंदेवि पत्युस्तव भविष्यति। एतदिच्छाम्यहं श्रोतुं तव वाक्यमनिन्दिते
देवदानवयक्षाणां किन्नरोरगरक्षसाम्। जेता यो दुष्टदैत्यानां महावीर्यो महाबलः