चितोऽग्निरुद्वहन्यज्ञं पक्षाभ्यां तान्प्रबाधते। मन्त्रै प्रशमिताह्येते नेष्टं मुष्णन्ति यज्ञियम्
तपस्ये बृदुक्थस्य पुत्रो भूमिमुपाश्रितः। अग्निहोत्रे हूयमाने पृथिव्यां सद्भिरीड्यते
रथन्तरश्चतपसः पुत्रोऽग्निः परिपठ्यते। मित्रविन्दा तथा भार्या हविरध्वर्यवो विदुः ।।*
एतैः सह महाभाग तपस्तेजस्विभिर्नृप'। मुमुदे परमप्रीतः सह पुत्रैर्महायशाः
आपस्य मुदिता भार्या सा चास्य परमाप्रिया। भूपतिं भूतकर्तारं जनयामास पावकम्
भूतानां साऽपि सर्वेषां यं प्राहुः पावकं पतिम्। आत्मा भुवनकर्ता च सोऽध्वरेषु द्विजातिभिः
महतां चैव भूतानां सर्वेषामिह यः पतिः। भगवान्स महातेजा नित्यं चरति पावकः
अग्निर्गृहपतिर्नाम नित्यं यज्ञेषु पूज्यते। आज्यं वहतियो हव्यं सर्वलोकस् पावकः
अपांगर्भो महाभागः सत्वभुग्यो महाद्भुतः। भूपतिर्भूतकर्ता च महतः पतिरुच्यते
मता वहन्तो हव्यानि तस्याग्नेरप्रजाऽभवन्। अग्निष्टोमस्तु नियतः क्रतुश्रेष्ठो भवत्युत
[स वह्निः प्रथमो नित्यं देवैरन्विष्यते प्रभुः]। आयान्तं नियतं दृष्ट्वाप्रविवेशार्णवं भयात्
देवास्तं नाधिगच्छन्ति मार्गमाणा यथातथम्। दृष्ट्वा त्वग्निरथर्वाणं ततो वचनमब्रवीत्
देवानां वह हव्यं त्वमहं वीर सुदुर्बलः। अथ त्वं गच्छ मध्वक्षं प्रियमेतत्कुरुष्व मे
प्रेष्य चाग्निरथर्वाणमन्यं देशं ततोऽगमत्। मत्स्यास्तस्य समाचख्युः क्रुद्धस्तानग्निरब्रवीत्। भक्ष्या वै विविधैर्भावैर्भविष्यथ शरीरिणाम्
अथर्वाणं तथा चापि हव्यवाहोऽब्रवीद्वचः
अनुनीयमानो हि भृशं देववाक्यान्वितेन सः। नैच्छद्वोढुं हवि सर्वं शरीरं चापि सोऽत्यजत्
स तच्छरीरं संत्यज्य प्रविवेश धरां तदा। भूमिं स्पृष्ट्वाऽसृजद्भ्रातून्पृथक्पृथगतीव हि
आस्यात्सुगन्धं तेजश्च अस्थिभ्यो देवदारु च। श्लेष्मणः स्फाटिकं तस् पित्तान्मारकतं तथा
वातात्कृष्णायसं तस्य त्रिभिरेतैर्बहु प्रजाः। त्वचस्तस्याभ्रपटलं स्नायुजं चापि विद्रुमम्
शरीरास्थिविधाश्चान्ये धातवोऽस्याभवन्नृप। एवं कृत्वा शरीरं च परमे तपसि स्थितः
भृग्वङ्गिरादिभिर्भूयस्तपसोत्थापितस्तदा। भृशं जज्वाल तेजस्वी तपसाऽऽप्याधितः शिखी
दृष्ट्वा ऋषीनभयाच्चापि प्रविवेश महार्णवम्। तस्मिन्नष्टे जगद्भीतमथर्वाणमथाश्रितम्। अर्चयामासुरेवैनमथर्वाणं सुरादयः
अथर्वाणं श्रिताँल्लोकानात्मन्यालोच्य पावकः। मिषतां सर्वभूतानामुन्ममज्ज महार्णवात्
एवमग्निर्भगवता नष्टः पूर्वमथर्वणा। आहूतः सर्वूतानां हव्यं वहति सर्वदा
एवं त्वजनयद्धिष्ण्यान्वेदोक्तान्विबुधान्बहून्। विचरन्विविधान्देशान्भ्रममाणस्तु तत्र वै
सिन्धुवर्ज्याः पञ्च नद्यो देविकाऽथ सरस्वती। गङ्गा च शतकुम्भा च सरयू गण्डसाह्वया
चर्मण्वती मही चैव मेध्या मेधासृतिस्तदा। इरावती वेत्रवती नद्यतिस्रोऽथ कौशिकी
तमसा नर्मदा चैव नदी गोदावरी तथा। वेण्णा प्रवेणी भीमा च मरुदा चैव भारत
भारती सुप्रयोगा च कावेरी मज्जुरा तथा। तुङ्गवेणा कृष्णवेणा कपिला शोण एव च
एता नद्यस्तु धिष्ण्यानां मातरो याः प्रकीर्तिताः