यस्तु न च्यवते नित्यं शयसा वर्चसा श्रिया। अग्निर्निश्च्यवनो नाम पृथिवीं स्तौति केवलम्
विपाप्मा कलुषैर्मुक्तो विशुद्धश्चार्चिषा ज्वलन्। विपापोऽग्निः सुतस्तस्य योज्यः समयकर्मसु
अक्रोशतां हि भूतानां यः करोति हि निष्कृतिम्। अग्निः स निष्कृतिर्नाम शोभयत्यभिसेवितः
अनुकूजन्ति येनेह वेदनार्ताः स्वयं जनाः। तस्य पुत्रः स्वनो नाम पावकः सरुजस्करः
यस्तु विश्वस् जगतो बुद्धिमाक्रम्य तिष्ठति। तं प्राहुरध्यात्मविदो विश्वजिन्नाम पावकम्
अन्तराग्निः स्मृतो यस्तु भुक्तं पचति देहिनाम्। स यज्ञे विश्वभुङ्वाम सर्वलोकेषु भारत
ब्रह्मचारी यतात्मा च सततं विपुलप्रभः। ब्राह्मणाः पूजयन्त्येनं पाकयज्ञेषु पावकम्
प्रथितो गोपतिर्नाम नदी यस्याभवत्प्रिया। तस्मिन्कर्माणि सर्वाणि क्रियन्ते धर्मकर्तृभिः
बडबाग्निः पिबत्यम्भो योसौ परमदारुणः। ऊर्द्वभागूर्ध्वभाङ्नाम कविः प्राणाश्रितस्तु यः
उदग्द्वारं हविर्यस्य गृहे नित्यं प्रदीयते। ततस्तुष्टो भवेद्ब्रह्मा स्विष्टकृत्परमः स्मृतः
यः प्रशान्तेषु भूतेषु आविर्भवति पावकः। क्रुद्धस्य तु रसो जज्ञे मन्युतीव्रा च पुत्रिका
स्वाहेति दारुणा क्रूरा सर्वभूतेषु तिष्ठति। त्रिदिवे यस्य सदृशो नास्ति रूपेण कश्चन। अतुलत्वात्कृतो देवैर्नाम्ना कामस्तु पावकः
संहर्षाद्धारयन्क्रोधं धन्वी स्रग्वी रथे स्थितः। समरे नाशयेच्छत्रूनमोघो नाम पावकः
उक्थ्यो नाम महाभाग त्रिभिरुक्थैरभिष्टुतः। महावर्षं त्वजनयत्सकामाश्वं हि यं विदुः
काश्यपो ह्यथ वासिष्ठः प्राणश्च प्राणपुत्रकः। अग्निराङ्गिरसश्चैव च्यवनस्तीव्रवर्चकः
अचरत्स तपस्तीव्रं पुत्रार्थे बहुवार्षिकम्। पुत्रं लभेयं धर्मिष्ठं यशसा ब्रह्मणा समम्
महाव्याहृतिभिर्ध्यातः पञ्चभिस्तैस्तदा त्वथ। जज्ञे तेजोमयार्चिष्मान्पञ्चवर्णः प्राकरः
समिद्धोऽग्निः शिरस्तस्य बाहू सूर्यनिभौ तथा। त्वङ्नेत्रे च सुवर्णाभे कृष्णे जङ्घे च भारत
पञ्चवर्षः स तपसा कृतस्तैः पञ्चभिर्जनैः। पाञ्चजन्यः श्रुतो देवः पञ्चवंशकरस्तु सः
दशवर्षसहस्राणि तपस्तप्त्वा महातपाः। जनयत्पावकं घोरं पितॄणां स प्रजाः सृजन्
बृहद्रथंतरौ मूर्ध्ना वक्राच्च तपसा हरिम्। शिवं नाभ्यां बलादिन्द्रं प्राणाद्वायुं च भारत
बाहुभ्यामनुदात्तौ च विश्वे भूतानि चैव ह। एतान्सृष्ट्वा ततः पञ्च पितॄणामसृजत्सुतान्
बृहद्रथस्य प्रणिधिः काश्यपश्य महत्तरः। भानुरङ्गिरसो धीरः पुत्रो वर्चस्य सौरभः
प्राणस्य चानुदात्तस्तु व्याख्याताः पञ्च वंशजाः। देवान्यज्ञमुषश्चान्यान्सृजन्पञ्चदशोत्तरान्
सुभीममतिभीमं च भीमं भीमबलाबलम्। एतान्यज्ञमुषः पञ्च देवानप्यसृजत्ततः
सुमित्रं मित्रवन्तं च मित्रज्ञं मित्रवर्धनम्। मित्रधर्माणमित्येतान्देवानभ्यसृजत्ततः
सुरप्रवीरं वीरं च सुरेशं च सुवर्चसम्। सुराणामपि भर्तारं पञ्चैतानसृजत्ततः
त्रिविधं संस्थिता ह्येते पञ्चपञ्च पृथक्पृथक्। मुष्णन्त्यत्र स्थिता ह्येते स्वर्गतान्यज्ञयाजिनः
तेषामिष्टं हरन्त्येते निघ्नन्ति च महद्धविः। स्पर्धयाहव्यवाहानां निघ्नन्त्येते हरन्ति च
बहिर्वेद्यां तदादानं कुशलैः संप्रवर्तितम्। तत्रैते नोपसर्पन्ति यत्र चाग्निः स्थितो भवेत्