पूरोर्वंशमहं धन्यं राज्ञाममिततेजसाम्। प्रवक्ष्यामि पितॄणां ते तेषां नामानि मे शृमु
अव्यक्तप्रभवो ब्रह्मा शाश्वतो नित्य अव्ययः। तस्मान्मरीचिः संजज्ञे दक्षश्चैव प्रजापतिः
अङ्गुष्ठाद्दक्षमसृजच्चक्षुर्भ्यां च मरीचिनम्। मरीचेः कश्यपः पुत्रो दक्षस्य दुहिताऽऽदितिः
अदित्यां कश्यपाद्विवस्थान्। विवस्वतो मनुर्मनोरिला
इलायाः पुरूरवाः। पुरूरवस आयुः। आयुषो नहुषः। नहुषस्य ययातिः
ययातेर्द्वे भार्ये बभूवतुः। उशनसो दुहिता देवयानी वृषपर्वणश्च दुहिता शर्मिष्ठा नाम
तत्रानुवंशो भवति। यदुं च तुर्वसुं चैव देवयानी व्यजायत। द्रुह्यं चानुं च पूरुं च शर्मिष्ठा वार्षपर्वणी
तत्र यदोर्यादवाः। पूरोः पौरवाः। पूरोर्भार्या कौसल्या बभूव। तस्यामस्य जज्ञे जनमेजयः
स त्रीन्हयमेधानाजहार। विश्वजिता चेष्ट्वा वनं प्रविवेश
जनमेजयस्तु सुनन्दां नामोपयेमे मागधीं। तस्यामस्य जज्ञे प्राचीन्वान्
यः प्राचीं दिशं जिगाय। यावत्सूर्यादयात् तत्तस्य प्राचीनत्वम्
प्राचीन्वांस्तु खल्वाश्मकीमुपयेमे यादवीम्। तस्यामस्य जज्ञे शस्यातिः
शय्यातिस्तु त्रिशङ्कोर्दुहितरं वराङ्गीं नामोपयेमे तस्यामस्य जज्ञेऽहंयातिः
अहंयातिस्तु खलु कृतवीर्यदुहितरं भानुमतीं नामोपयेमे। तस्यामस्य जज्ञे सार्वभौमः
सार्वभौमस्तु खलु जित्वाऽऽजहार कैकयीं सुन्दरां नाम तामुपयेमे। तस्यामस्य जज्ञे जयत्सेनः
जयत्सेनस्तु खलु वैदर्भीमुपयेमे सुश्रवां नाम। तस्यामस्य जज्ञेऽपराचीनः
अपराचीनस्तु खलु वैदर्भीमपरामुपयेमे मर्यादां नाम। तस्यामस्य जज्ञेऽरिहः
अरिहः खल्वाङ्गीमुपेयेमे। तस्यामस्य जज्ञे महाभौमः
महाभौमस्तु खलु प्रसेनजिद्दुहितरमुपयेमे सुयज्ञां नाम। तस्यामस्य जज्ञे अयुतानायी
यः पुरुषमेधे पुरुषाणामयुतमानयत्तत्तस्यायुतानायित्वम्
अयुतानायी तु खलु पृथुश्रवसो दुहितरमुपयेमे भासां नाम। तस्यामस्य जज्ञेऽक्रोधनः
अक्रोधनस्तु खलु कालिङ्गीं कण्डूं नामोपयेमे। तस्यामस्य जज्ञे देवातिथिः
देवातिथिस्तु खलु वैदर्भीमुपयेमे मर्यादां नाम तस्यामस्य जज्ञे ऋचः
ऋचस्तु खलु वामदेव्यामङ्गराजकन्यायामृक्षं पुत्रमजीजनत्
ऋक्षस्तु खलु तक्षकदुहितरं ज्वलन्तीं नामोपयेमे। तस्यामन्त्यनारमुत्पादयामास
अन्त्यनारस्तु खलु सरस्वत्यां द्वादशवार्षिकं सत्रमाजहार। तमुदवसाने सरस्वत्यभिगम्य भर्तारं वरयामास
तस्यां पुत्रं जनयामास त्रस्नुं नाम। अत्रानुवंशो भवति
त्रस्नुं सरस्वती पुत्रमन्त्यनारादजीजनत्। इलिलं जनयामास कालिन्द्यांत्रस्नुरात्मजम्
इलिलस्तु रथन्तर्यां दुष्यन्तादीन्पञ्च पुत्रानजीजनत्
दुष्यन्तस्तु लाक्षीं नाम भागीरथीमुपयेमे तस्यामस्य जज्ञे जनमेजयः