अग्नित्वं विप्रनष्टं हि तप्यमानस् मे तपः। कथमग्निः पुनरहं भवेयमिति चिन्त्य सः
अपश्यदग्निवल्लोकांस्तापयन्तं महामुनिम्। सोपासर्पच्छनैर्भीतस्तमुवाच तदाङ्गिराः
शीघ्रमेव भवस्वाग्निस्त्वं पुनर्लोकभावनः। विज्ञातश्चासि लोकेषु त्रिषु संस्थानचारिषु
त्वमग्ने प्रथमः सृष्टो ब्र्हमणा तिमिरापर्हः। स्वस्थानं प्रतिपद्यस्व शीघ्रमेव तमो नुद
नष्टकीर्तिरहं लोके भवाञ्जातो हुताशनः। भवन्तमेव ज्ञास्यन्ति पावकं न तु मां जनाः
निक्षिपम्यहमग्नित्वं त्वमग्निः प्रथमो भव। भविष्यामि द्वितीयोऽहं प्राजापत्यक एव च
कुरु पुण्यं प्रजास्वर्ग्यं भवाग्निस्तिमिरापहः। मां च देव कुरुष्वाग्ने प्रथमं पुत्रमञ्जसा
तच्छ्रुत्वाङ्गिरसो वाक्यं जातवेदास्तथाऽकरोत्। राजन्वृहस्पतिर्नाम तस्याप्यङ्गिरसः सुतः
ज्ञात्वा प्रथमजं तं तु वह्नेरङ्गिरसं सुतम्। उपेत्य देवाः पप्रच्छुः कारणं तत्र भारत
स तु पृष्टस्तदा देवैस्तत कारणमब्रवीत्। प्रत्यगृह्णन्त देवाश्च तद्वचोऽङ्गिरसस्तदा
तत्रनानाविधानग्नीन्प्रवक्ष्यामि महाप्रभान्। कर्मभिर्वहुभिः ख्याताननानार्थान्ब्राह्मणेष्विह
ब्रह्मणो यस्तृतीयस्तु पुत्रः कुरुकुलोद्वह। तस्यापि वसुदाभार्या प्रजास्तस्यां च मे शृणु
बृहत्कीर्तिर्बृहज्ज्योतिर्बृहद्ब्रह्मा बृहन्मनाः। बृहन्मन्त्रो बृहद्भासस्तथा राजन्बृहस्पतिः
प्रजासु तासु सर्वासु रूपेणाप्रतिमाऽभवत्। देवी भानुमती नाम प्रथमाऽङ्गिरसः सुता
भूतानामेव सर्वेषां यस्यां रागस्तदाऽभवत्। रागाद्रागेति यामाहुर्द्वितीयाऽङ्गिरसः सुता
यां कपर्दिसुतामाहुर्दृश्यादृश्येति देहिनः। तनुत्वात्सा सिनीवाली तुतीयाऽङ्गिरसः सुता
यां तु दृष्ट्वा भगवतीं जनः कुहकुहायते। एकानकेति यामाहुश्चतुर्थ्यङ्गिरसः सुता
पञ्चम्यर्चिष्मती नाम्ना हविर्भिश्च हविष्मती। षष्ठीम्गिरसः कन्यां पुण्यामाहुर्महिष्मतीम्
महामखेष्वाङ्गिरसी दीप्तिमत्सु महीयती। महामतीति विख्याता सप्तमी कथ्यते सुता
बृहस्पतेश्चान्द्रमसी भार्याऽऽसीद्या यशस्विनी। अग्नीन्साऽजनयत्पुण्यान्षडेकां चापि पुत्रिकाम्
आहुतिष्वेव यस्याग्नेर्हविराज्यं विधीयते। सोग्निर्बृहस्पतेः पुत्र शंयुर्नाम महाप्रभः
चातुर्मास्येषु यस्येष्टमश्वमेधाग्रभागभूत्। दीप्तिज्वालैरनेकाग्रैरग्निष्टोमोऽथ वीर्यवान्
शंयोरप्रतिमा भार्या सत्या सत्याऽथ धर्मजा। अग्नितस्य सुतो दीप्तस्तिस्रः कन्याश्च सुव्रताः
प्रथमेनाज्यभागेन पूज्यते योऽग्निरध्वरे। अग्निस्तस्य भरद्वाजः प्रथमः पुत्र उच्यते
पौर्णमासेषु सर्वेषु हविराज्यं ध्रुवोद्यतम्। भरतो नामतः सोग्निर्द्वितीयः शंयुतः सुतः
तिस्रः कन्या भवन्त्यन्या यासां स भरत पतिः। भारतस्तु सुतस्तस्य भारत्येका च पुत्रिका
भारतो भरतस्याग्नेः पावकस्तु प्रजायते। महानत्यर्थमहितस्तथा भरतसत्तम
भरद्वाजस्य भार्या तु वीरा वीरश्च पिण्डदः। प्राहुराज्येन तस्येज्यां सोमस्येव द्विजाः शनैः
हविषा यो द्वितीयेन सोमेन सह युज्यते। रथप्रभू रथध्वानः कुम्भरेताः स उच्यते
सरय्वां जनयत्सिद्धिं भानुं भाभिः समावृणोत्। आग्नेयमनयन्मिथ्यं मिथ्यो नामैव कथ्यते