भूतेष्वभावं संचिन्त्य ये तु बुद्धेः परं गताः। न शोचन्ति कृतप्रज्ञाः पश्यन्तः परमां गतिम्
न शोचामि रमे विद्वन्कालाकाङ्क्षी स्थितोस्म्यहम्। एतैर्निदर्शनैर्ब्रह्मन्नावसीदामि सत्तम
कृतप्रज्ञोसि मेधावी बुद्धिश्च विपुला तव। पापान्निवृत्तोसि सदा ज्ञानवृद्धोसि धर्मवित्
आपृच्छे त्वां स्वस्ति तेऽस्तु धर्मस्त्वां परिरक्षतु। अप्रमादस्तु कर्तव्यो धर्मे धर्मभृतांवर
बाढमित्येव तं व्याधः कृताञ्जलिरुवाच ह। प्रदक्षिणमथो कृत्वा प्रस्थितो द्विजसत्तमः
स तु गत्वाद्विजः सर्वां शुश्रूषां कृतवांस्तदा। मातापितृभ्यामन्धाभ्यां यथान्यायं सुसंशितः
एतत्ते सर्वमाख्यातं निखिलेन युधिष्ठिर। पृष्टवानसि यं तात धर्मं धर्मभृतांवर
पतिव्रताया माहात्म्यं ब्राह्मणस्य च सत्तम। मातापित्रोश्च शुश्रूषा धर्मव्याधेन कीर्तिता
अत्यद्भुतमिदं ब्रह्मन्धर्माख्यानमनुत्तमम्। सर्वधर्मविदांश्रेष्ठ कथितं मुनिसत्तम
सुखश्राव्यतया विद्वन्मुहूर्त इव मे गतः। न हि तृप्तोस्मि भगवञ्शृण्वानो धर्ममुत्तमम्
श्रुत्वेमां धर्मसंयुक्तां धर्मराजः कथां शुभाम्। पुनः पप्रच्छ तमृषिं मार्कण्डेयमिदं तदा
कथमग्निर्वनं यातः कथं चाप्यङ्गिराः पुरा। नष्टेऽग्नौ हव्यमहवदग्निर्भूत्वा महाद्युतिः
अग्निर्यदा चैक एव बहुत्वं चास्य कर्मसु। दृश्यते भगवन्सर्वमेतदिच्छामि वेदितुम्
कुमारश्च यथोत्पन्नो यथा चाग्नेः सुतोऽभवत्। यथा रुद्राच्च संभूतो गङ्गायां कृत्तिकासु च
एतदिच्छाम्यहं त्वत्तः श्रोतुं भार्गवसत्तम। कौतूहलसमाविष्टो याथातथ्यं महामुने
अत्राप्युदाहरन्तीममितिहासं पुरातनम्। यथा क्रुद्धो हुतवहस्तपस्तप्तुं वनं गतः
यथा च भगवानग्निः स्वयमेवाङ्गेराऽभवत्। संतापयंश्च प्रभया नाशयंस्तिमिरावलिम्
पुराङ्गिरा महाबाहो चचार तप उत्तमम्। आश्रमस्थो महाभागो हव्यवाहं विशेषयन्। यथाग्निर्भूत्वा तु तदा जगत्सर्वं व्यकाशयत्
तपश्चरंस्तु हुतभुक्संतप्तस्तस्य तेजसा। भृशं ग्लानश्चतेजस्वी न च किंचित्प्रजज्ञिवान्
अथ संचिन्तयामास भगवान्हव्यवाहनः। अन्योऽग्निरिव लोकानां ब्रह्मणा संप्रकल्पितः
अग्नित्वं विप्रनष्टं हि तप्यमानस् मे तपः। कथमग्निः पुनरहं भवेयमिति चिन्त्य सः
अपश्यदग्निवल्लोकांस्तापयन्तं महामुनिम्। सोपासर्पच्छनैर्भीतस्तमुवाच तदाङ्गिराः
शीघ्रमेव भवस्वाग्निस्त्वं पुनर्लोकभावनः। विज्ञातश्चासि लोकेषु त्रिषु संस्थानचारिषु
त्वमग्ने प्रथमः सृष्टो ब्र्हमणा तिमिरापर्हः। स्वस्थानं प्रतिपद्यस्व शीघ्रमेव तमो नुद
नष्टकीर्तिरहं लोके भवाञ्जातो हुताशनः। भवन्तमेव ज्ञास्यन्ति पावकं न तु मां जनाः
निक्षिपम्यहमग्नित्वं त्वमग्निः प्रथमो भव। भविष्यामि द्वितीयोऽहं प्राजापत्यक एव च
कुरु पुण्यं प्रजास्वर्ग्यं भवाग्निस्तिमिरापहः। मां च देव कुरुष्वाग्ने प्रथमं पुत्रमञ्जसा
तच्छ्रुत्वाङ्गिरसो वाक्यं जातवेदास्तथाऽकरोत्। राजन्वृहस्पतिर्नाम तस्याप्यङ्गिरसः सुतः
ज्ञात्वा प्रथमजं तं तु वह्नेरङ्गिरसं सुतम्। उपेत्य देवाः पप्रच्छुः कारणं तत्र भारत
स तु पृष्टस्तदा देवैस्तत कारणमब्रवीत्। प्रत्यगृह्णन्त देवाश्च तद्वचोऽङ्गिरसस्तदा