एतत्ते सर्वमाख्यातं यथा मम पुराऽभवत्। अभितश्चापि गन्तव्यो मया स्वर्गो द्विजोत्तम
एवमेतानि पुरुषा दुःखानि च सुखानि च। आप्नुवन्ति महाबुद्धे नोत्कण्ठां कर्तुमर्हसि
दुष्करं हि कृतंकर्म जानता जातिमात्मनः। [लोकवृत्तान्ततत्त्वज्ञ नित्यं धर्मपरायण ।।]
कर्मदोषाच्च वै विद्वन्नात्मजातिकृतेन वै। कंचित्कालं मृष्यतां वै ततोसि भविता द्विजः
सांप्रतं च मतो मेऽसि ब्राह्मणो नात्र संशयः
ब्राह्मणः पतनीयेषु वर्तमानो विकर्मसु। दाम्भिक्वो दुष्कृतप्रायः शूद्रेण सदृशो भवेत्
यस्तु शूद्रो दमे सत्ये धर्मे च सततोत्थितः। तं ब्राह्मणमहं मन्ये वृत्तेन हि भवेद्द्विजः
कर्मदोषेण विषमां गतिमाप्तोसि दारुणाम्। क्षीणदोषमहं मन्ये चाभितस्त्वां नरोत्तम
कर्तुमर्हसि नोत्कण्ठां त्वद्विधा ह्यविषादिनः। लोकवृत्तान्ततत्वज्ञा नित्यं धर्मपरायणाः
प्रज्ञया मानसं दुःखं हन्याच्छारीरमौषधैः। एतद्विज्ञानसामर्थ्यं न बालै समतामियात्
अनिष्टसंप्रयोगाच्च विप्रयोगात्प्रयिस्य च। मनुष्या मानसैर्दुःखैर्युज्यन्ते चाल्पबुद्धयः
गुणैर्भूतानि युज्यन्ते वियुज्यन्ते तथैव च। सर्वाणि नैतदेकस्य शोकस्थानं हि विद्यते
अनिष्टनान्वितं पश्यंस्तथा क्षिप्रं विरज्यते। ततश्च प्रतिकुर्वन्ति यदि पश्यन्त्युपक्रमम्
शोचतो न भवेत्किंचित्केवलं परितप्यते। परित्यजन्ति ये दुःखं सुखं वाऽप्युभयं नराः
त एव सुखमेधन्ते ज्ञानतृप्ता मनीषिणः। असंतोषपरा मूढाः संतोषं यानति पण्डिताः
असंतोषस्य नास्त्यन्तस्तुष्टिस्तु परमं सुखम्। न शोचन्ति गताध्वानः पश्यन्तः परमां गतिं
न विषादे मनः कार्यं विषादो विषमुत्तमम्। मारयत्यकृतप्रज्ञं बालं क्रुद्ध इवोरगः
यंविषादोऽभिभवति विषमे समुपस्थिते। तेजसा तस् हीनस्य पुरुषार्थो न विद्यते
अवश्यं क्रियमाणस् कर्मणो दृश्यते फलम्। न हि निर्वेदमागम्य किंचित्प्राप्नोति शोभनम्
अथाप्युपायं पश्येत दुःखस् परिमोक्षणे। अशोचन्नारभेतैव युक्तश्चाव्यसनी भवेत्
भूतेष्वभावं संचिन्त्य ये तु बुद्धेः परं गताः। न शोचन्ति कृतप्रज्ञाः पश्यन्तः परमां गतिम्
न शोचामि रमे विद्वन्कालाकाङ्क्षी स्थितोस्म्यहम्। एतैर्निदर्शनैर्ब्रह्मन्नावसीदामि सत्तम
कृतप्रज्ञोसि मेधावी बुद्धिश्च विपुला तव। पापान्निवृत्तोसि सदा ज्ञानवृद्धोसि धर्मवित्
आपृच्छे त्वां स्वस्ति तेऽस्तु धर्मस्त्वां परिरक्षतु। अप्रमादस्तु कर्तव्यो धर्मे धर्मभृतांवर
बाढमित्येव तं व्याधः कृताञ्जलिरुवाच ह। प्रदक्षिणमथो कृत्वा प्रस्थितो द्विजसत्तमः
स तु गत्वाद्विजः सर्वां शुश्रूषां कृतवांस्तदा। मातापितृभ्यामन्धाभ्यां यथान्यायं सुसंशितः
एतत्ते सर्वमाख्यातं निखिलेन युधिष्ठिर। पृष्टवानसि यं तात धर्मं धर्मभृतांवर
पतिव्रताया माहात्म्यं ब्राह्मणस्य च सत्तम। मातापित्रोश्च शुश्रूषा धर्मव्याधेन कीर्तिता
अत्यद्भुतमिदं ब्रह्मन्धर्माख्यानमनुत्तमम्। सर्वधर्मविदांश्रेष्ठ कथितं मुनिसत्तम
सुखश्राव्यतया विद्वन्मुहूर्त इव मे गतः। न हि तृप्तोस्मि भगवञ्शृण्वानो धर्ममुत्तमम्