दुर्ज्ञेयः शाश्वतो धर्मः शूद्रयोनौ हि वर्तता। न त्वां शूद्रमहं मन्ये भवितव्यं हि कारणम्
येन कर्मविशेषेण प्राप्तेयं शूद्रता त्वया। एतामिच्छामि विज्ञातुं तत्त्वेन तव शूद्रताम्। कामयानस् मे शंस सर्वं त्वं प्रयतात्मवान्
अनतिक्रमणीया वै ब्राह्मणा मे द्विजोत्तम। शृणु सर्वमिदं वृत्तं पूर्वदेहे ममानघ
अहं हि ब्राह्मणः पूर्वमासं द्विजवरात्मजः। वेदाध्यायी सुकुशलो वेदाङ्गानां च पारगः। आत्मदोषकृतैर्ब्रह्मन्नवस्थामाप्तवानिमाम्
कश्चिद्राजा मम सखा धनुर्वेदपरायणः। संसर्गाद्धनुषि श्रेष्ठस्ततोऽहमभवं द्विज
एतस्मिन्नेव काले तु मृगयां निर्गतो नृपः। सहितो योधमुख्यैश् मन्त्रिभिश्च सुसंवृतः। ततोऽभ्यहन्मृगांस्तत्र सुबहूनाश्रमं प्रति
अथ क्षिप्तः शरो घोरो मयापि द्विजसत्तम। ताडितश्च ऋषिस्तन शरेणानतपर्वणा
भूमौ निपतितो ब्रह्मन्नुवाच प्रतिनादयन्। नापराध्याम्यहं किंचित्केन पापमिदं कृतम्
मन्वानस्तं मृगं चाहं संप्राप्तः सहसा मुनिम्। अपश्यं तमृषिं विद्धं शरेणानतपर्वणा। तमुग्रतपसं विप्रं निष्टनन्तं महीतले
अकार्यकरणाच्चापि भृशं मे व्यथितं मनः। अजानता कृतमिदं मयेत्यहमथाब्रुवम्
क्षन्तुमर्हसि मे सर्वमिति चोक्तो मया मुनिः
ततः प्रत्यब्रवीद्वाक्यमृषिर्मां क्रोधमूर्च्छितः। व्याधस्त्वं भविता क्रूर शूद्रयोनाविति द्विज
एवं शप्तोऽहमृषिणा तदा द्विजबरोत्तम। अहं प्रासादयमृषिं गिरा वाक्यविशारदम्
अजानता मयाऽकार्यमिदमद्य कृतं मुने। क्षन्तुमर्हसि तत्सर्वं प्रसीद भगवन्निति
नान्यथा भविता शाप एवमेतदसंशयम्। आनृशंस्यात्त्वंहकिंचित्कर्ताऽनुग्रहमद्य ते
शूद्रयोन्यां वर्तमानो धर्मज्ञो हि भविष्यसि। मातापित्रोश् शुश्रूषां करिष्यसि न संशयः
तयोः शुश्रूषया सिद्धिं महतीं समवाप्स्यसि। जातिस्मरश् भविता स्वर्गं चैव गमिष्यसि
भूत्वाच धार्मिको व्याधः पित्रोः शुश्रूषणे रतः। शापक्षये तु निर्वृत्ते भविताऽसि पुनर्द्विजः
एवं शप्तः पुरा तेन ऋषिणाऽस्म्युग्रतेजसा। प्रसादश्च कृतस्तेन ममैव द्विपदांवर
शरं चोद्धृतवानस्मि तस्य वै द्विजसत्तम। आश्रमं च मया नीतो न च प्राणैर्व्ययुज्यत
एतत्ते सर्वमाख्यातं यथा मम पुराऽभवत्। अभितश्चापि गन्तव्यो मया स्वर्गो द्विजोत्तम
एवमेतानि पुरुषा दुःखानि च सुखानि च। आप्नुवन्ति महाबुद्धे नोत्कण्ठां कर्तुमर्हसि
दुष्करं हि कृतंकर्म जानता जातिमात्मनः। [लोकवृत्तान्ततत्त्वज्ञ नित्यं धर्मपरायण ।।]
कर्मदोषाच्च वै विद्वन्नात्मजातिकृतेन वै। कंचित्कालं मृष्यतां वै ततोसि भविता द्विजः
सांप्रतं च मतो मेऽसि ब्राह्मणो नात्र संशयः
ब्राह्मणः पतनीयेषु वर्तमानो विकर्मसु। दाम्भिक्वो दुष्कृतप्रायः शूद्रेण सदृशो भवेत्
यस्तु शूद्रो दमे सत्ये धर्मे च सततोत्थितः। तं ब्राह्मणमहं मन्ये वृत्तेन हि भवेद्द्विजः
कर्मदोषेण विषमां गतिमाप्तोसि दारुणाम्। क्षीणदोषमहं मन्ये चाभितस्त्वां नरोत्तम
कर्तुमर्हसि नोत्कण्ठां त्वद्विधा ह्यविषादिनः। लोकवृत्तान्ततत्वज्ञा नित्यं धर्मपरायणाः
प्रज्ञया मानसं दुःखं हन्याच्छारीरमौषधैः। एतद्विज्ञानसामर्थ्यं न बालै समतामियात्