पिता माता च भगवन्नेतौ मे दैवतं परम्। यद्दैवतेभ्यः कर्तव्यं तदेताभ्यां करोम्यहम्
त्रयस्त्रिंशद्यथा देवाः सर्वे शक्रपुरोगमाः। संपूज्याः सर्वलोकस्य तथा वृद्धाविमौ मम
उपाहारानाहरन्तो देवतानां यथा द्विजः। कुर्वन्ति तद्वदेताभ्यां करोम्यहमतन्द्रितः
एतौ मे परमं ब्रह्मन्पिता माता च दैवतम्। एतौ पुष्पैः फलैरन्नैस्तोषयामि सदा द्विज
एतावेवाग्नयो मह्यं यान्वदन्ति मनीषिणः। यज्ञा वेदाश्च चत्वारः सर्वमेतौ मम द्विज
एतदर्थं मम प्राणा भार्या पुत्रः सुहृज्जनः। सपुत्रदारः शुश्रूषां नित्यमेव करोम्यहम्
स्वयं च स्नापयाम्येतौ तथा पादौ प्रधावये। आहारं च प्रयच्छामि स्वयंच द्विजसत्तम
अनुकूलाः कथा वच्मि विप्रियं परिवर्जये। अधर्मेणापि संयुक्तं प्रियमाभ्यां करोम्यहम्
धर्ममेव गुरुं मत्वा साक्षादेतौ द्विजोत्तम। अतन्द्रितः सदा विप्र शुश्रूषां वै करोम्यहम्
पञ्चैव गुरवो ब्रह्मनपुरुषस्य बुभूषतः। पिता माताऽग्निरात्मा च गुरुश्च द्विजसत्तम
एतेषु यस्तु वर्तेत सम्यगेव द्विजोत्तम। भवेयुरप्रयस्तेन परिचीर्णास्तु नित्यशः। गार्हस्थ्ये वर्तमानस्य एष धर्मः सनातनः
गुरू निवेद्य विप्राय तौ मातापितरावुभौ। पुनरेव स धर्मात्मा व्याधो ब्राह्मणमब्रवीत्
प्रवृत्तचक्षुर्जातोस्मि संपश्य तपसो बलम्। यदर्थमुक्तोसि तया गच्छ त्वं मिथिलामिति
पतिशुश्रूषपरया दान्तया सत्यशीलया। मिथिलायां वसन्व्याधः स ते धर्मान्प्रवक्ष्यति
पतिव्रतायाः सत्यायाः शीलाढ्याया यतव्रत। संस्मृत्य वाक्यं धर्मज्ञ गुणवानसि मे मतः
यत्तया त्वं द्विजश्रेष्ठ नियुक्तो मां प्रति प्रभो। दृष्टमेव तया सम्यगेकपत्न्या न संशयः
त्वदनुग्रहबुद्ध्या तु विप्रैतद्दर्शितं मया। वाक्यं च शृणु मे तात यत्ते वक्ष्ये हितं द्विज
त्वया न पूजिता माता पिता च द्विजसत्तम। अनिसृष्टोसि निष्क्रान्तो गृहात्ताभ्यामनिनदित
वेदोच्चारणकार्यार्थमयुक्तं तत्त्वया कृतम्। तव शोकेन वृद्धौ तावन्धीभूतौ तपस्विनौ
तौ प्रसादयितुं गच्छ मा त्वां धर्मोऽत्यगादयम्। तपस्वी त्वं महात्मा च धर्मे च निरतः सदा
सर्वमेतदपार्थं ते क्षिप्रं तौ संप्रसादय। `तौ प्रसाद्य द्विजश्रेष्ठ यच्छ्रेयस्तदवाप्स्यसि
श्रद्दधस्व मम ब्रह्मन्नान्यथा कर्तुमर्हसि। यम्यतामद्यविप्रर्षे श्रेयस्ते कथयाम्यहम्
यदेतदुक्तं भवता सर्वं सत्यमसंशयम्। प्रीतोस्मि तव भद्रं ते धर्माचारगुणान्वित
दैवतप्रतिमो हि त्वं यस्त्वं धर्ममनुव्रतः। पुराणं शाश्वतं दिव्यं दुष्प्रापमकृतात्मभिः
मातापित्रोः सकाशं हि गत्वात्वं द्विजसत्तम। अतन्द्रितः कुरु क्षिप्रंमातापित्रोर्हि पूजनम्। अतः परमहं धर्मं नान्यं पश्यामि कंचन
इहाहमागतो दिष्ट्या दिष्ट्या मे संगतं त्वया। ईदृशा दुर्लभा लोके नरा धर्मप्रदर्शकाः
एकोनरसहस्रेषु धर्मवानविद्यते न वा। प्रीतोस्मि तवसत्येन भद्रं ते पुरुषर्षभ
पतमानोऽद्यनरके भवताऽस्मि समुद्धृतः। भवितव्यमथैवं च यद्दृष्टोसि मयाऽनघ
राजा ययातिर्दौहित्रैः पतितस्तारितो यथा। सद्भिः पुरुषशार्दूल तथाऽहं भवता त्विह
मातापितृभ्यां शुश्रूषां करिष्ये वचनात्तव। नाकृतात्मा वेदयति धर्माधर्मविनिश्चयम्