नित्यं क्रोधात्तपो रक्षेन्छ्रियं रक्षेच्च मत्सरात्। विद्यां मानापमानाभ्यामात्मानं तु प्रमादतः
आनृशंस्यं परो धर्मः क्षमा च परमं बलम्। आत्मज्ञानं परं ज्ञानं परं सत्यव्रतव्रतम्
सत्यस् वचनं श्रेयः सत्यं ज्ञानं हितं भवेत्। यद्बूतहितमत्यन्तं तद्वै सत्यं परं मतम्
यस् सर्वे समारम्भा निराशीर्बन्धनाः सदा। त्यागे यस् हुतं सर्वं स त्यागी स च बुद्धिमान्
यदा न गुरुतां चैनं च्यावयेदुपपादयन्। तं विद्याद्ब्राह्मणो योगमयोगं योगसंज्ञितम्
न हिंस्यात्सर्वभूतानि मैत्रायणगतश्चरेत्। नेदं जीवितमासाद्यवैरं कुर्वीत केनचित्
आकिंचन्यं सुसंतोषो निराशित्वमचापलम्। एतदेव परं ज्ञानं सदात्मज्ञानमुत्तमम्
परिग्रहं परित्यज्य भवेद्बुद्ध्या यतव्रतः। अशोकं स्थानमाश्रित् निश्चलं प्रेत्य चेह च
तपोनित्येन दान्तेन मुनिना संयतात्मना। अजितं जेतुकामेन भाव्यं सङ्गेष्वसङ्गिना
गुणागुणमनासङ्गमेककार्यमनन्तरम्। एतत्तद्ब्रह्मणो वृत्तमाहुरेकपदं सुखम्
परित्यजति यो दुःखं सुखं चाप्युभयं नरः। ब्रह्म प्राप्नोति सोत्यन्तमासङ्गं च न गच्छति
यथाश्रुतमिदं सर्वं समासेन द्विजोत्तम। एतत्ते सर्वमाख्यातं किं भूयः श्रोतुमिच्छसि
एवं संकथिते कृत्स्ने मोक्षधर्मे युधिष्ठिर। दृढप्रीतमना विप्रो धर्मव्याधमुवाच ह
न्याययुक्तमिदं सर्वं भवता परिकीर्तितम्। न तेऽस्त्यविदितं किंचिद्धर्मेष्वभिसमीक्ष्यते
प्रत्यक्षं मम यो धर्मस्तं च पश्य द्विजोत्तम। येन सिद्धिरियं प्राप्ता मया ब्राह्मणपुङ्गव
उत्तिष्ठ भगवन्क्षिप्रं प्रविश्याभ्यन्तरं गृहम्। द्रष्टुमर्हसि धर्मज्ञ मातरं पितरं च मे
इत्युक्तः स प्रविश्याथ ददर्श परमार्चितम्। सौधं हृद्यं चतुःशालमतीव च मनोरमम्
देवतागृहसंकाश दैवतैश्च सुपूजितम्। शयनासनसंबाधं गन्धैश्च परमैर्युतम्
तत्रशुक्लाम्बरधरौ पितरावस्य पूजितौ। कृताहारौ तु संतुष्टावुपविष्टौ वरासने
तस्य व्याधस्य पितरौ ब्राह्मणः संददर्श ह'। धर्मव्याधस्तु तौ दृष्ट्वा पादेषु शिरसाऽपतत्
उत्तिष्ठोत्तिष्ठ धर्मज्ञ धर्मस्त्वामभिरक्षतु। प्रीतौ स्वस्तव शौचेन दीर्घमायुरवाप्नुहि। [गतिमिष्टां तपो ज्ञानं मेधां च परमां गतः]
सत्पुत्रेण त्वया पुत्र नित्यं काले सुपूजितौ। `सुखमेव वसावोऽत्र देवलोकगताविव
न तेऽन्यद्दैवतं किंचिद्दैवतेष्वपि वर्तते। प्रयतसत्वाद्द्विजातीनांदमेनासि समनवितः
पितुः पितामहा ये च तथैव प्रपितामहाः। प्रीतास्ते सततं पुत्र दमेनावां च पूजया
मनसा कर्मणा वाचा शुश्रूषा नैव हीयते। न चान्या हि तथा बुद्धिर्दृश्यते सांप्रतं तव
जामदग्न्येन रामेण यथा वृद्धौ सुपूजितौ। तथा त्वया कृतंसर्वंतद्विशिष्टं च पुत्रक
ततस्तं ब्राह्मणं ताभ्यां धर्मव्याधो न्यवेदयत्। तौ स्वागतेन तं विप्रमर्चयामासतुस्तदा
प्रतिगृह्यच तां पूजां द्विजः पप्रच्छ तावुभौ। सपुत्राभ्यां सभृत्याभ्यां कच्चिद्वां कुशलं गृहे। अनामय च वां कच्चित्सुखं वेह शरीरयोः
कुशलं नौ गृहे विप्र भृत्यवर्गे च सर्वशः। कच्चित्त्वमप्यविघ्नेन संप्राप्तो भगवन्निति
हाढमित्येव तौ विप्रः प्रत्युवाच मुदान्वितः। धर्मव्याधस्तु तं विप्रमर्थवद्वाक्यमब्रवीत्