धातुष्वग्निस्तु विततः स तु वायुसमीरितः। रसान्धातूंश्च दोषांश्च वर्तयन्परिधावति
प्राणानां संनिपातात्तु सन्निपातः प्रजायते। सोष्मा सोग्निरितिज्ञेयो योऽन्नं पचतिदेहिनां
अपानोदानयोर्मध्ये प्राणन्यानौ समाहितौ। समन्वितस्त्वधिष्ठानं सम्यक्पचति पावकः
अस्यापि पायुपर्यन्तस्तथा स्याद्गुदसंज्ञितः। स्रोतांशि तस्माज्जायन्ते सर्वप्राणेषु देहिनाम्
अग्निवेगवहः प्राणो गुदान्ते प्रतिहन्यते। स ऊर्ध्वमागम्य पुनः समुत्क्षिपति पावकम्
पक्वाशयस्त्वधोनाभ्या ऊर्ध्वमामाशयः स्थितः। नाभिमध्ये शरीरस्य प्राणाः सर्वे प्रतिष्ठिताः
प्रवृत्ता हृदयात्सर्वे तिर्यगूर्ध्वमधस्तथा। वहन्त्यन्नरसान्नाड्यो दशप्राणप्रचोदिताः
योगिनामेष मार्गस्तु येन गच्छन्ति तत्परम्। जितक्लमासनो धीरो मूर्धन्यात्मानमादत्
एवं सर्वेषु विततौ प्राणापानौ हि देहिषु। `तौ तावदग्निसहितौ विद्धि वै प्राणमात्मनि
एकादशविकारात्मा कलासंभारसंभृतः। मूर्तिमन्तं हि तं विद्धि नित्यं योगजितात्मकम्। तस्मिन्यः संस्थितो ह्यग्निर्नित्यं स्थाल्यामिवाहितः
आत्मानं तं विजानीहि नित्यं त्यागजितात्मकं
देवो यः संस्थितस्तस्मिन्नब्बिन्दुरिव पुष्करे। क्षेत्रज्ञं तं विजानीहि नित्यं त्यागजितात्मकं
जीवात्मकं विजानीहि रजः सत्वं तमस्तथा। जीवमात्मगुणं विद्धि तथाऽऽत्मानं परात्मकं
अचेतनं जीवगुणं वदन्ति सचेष्टते चेष्टयते च सर्वम्। ततः परं क्षेत्रविदो वदन्ति प्राकल्पयद्यो भुवनानि सप्त
एष सर्वेषु भूतेषु भूतात्मा न प्रकाशते। दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया ज्ञानवेदिभिः
चित्तस्य हि प्रसादेन हनति कर्म शुभाशुभम्। प्रसन्नात्मात्मनि स्थित्वा सुखमनन्त्यमश्नुते
लक्षणं तु प्रसादस्य यथा तृप्तः सुखं स्वपेत्। `सुखदुःखे हि संत्यज्य निर्द्वन्द्वो निष्परिग्रहः'। निवाते वा यथा दीपो दीप्येत्कुशलदीपितः
पूर्वरात्रेऽपरे चैव युञ्जानः सततं मनः। लध्वाहारो विशुद्धात्मा पश्यत्यात्मानमात्मनि
प्रदीप्तेनेव दीपेन मनोदीपेन पश्यति। दृष्ट्वाऽऽत्मानं निरात्मानं स तदा विप्रमुच्यते
सर्वोपायैस्तु लोभस् क्रोधस्य च विनिग्रहः। एतत्पवित्रं यञ्ज्ञानं तपो वै संक्रमो मतः
नित्यं क्रोधात्तपो रक्षेन्छ्रियं रक्षेच्च मत्सरात्। विद्यां मानापमानाभ्यामात्मानं तु प्रमादतः
आनृशंस्यं परो धर्मः क्षमा च परमं बलम्। आत्मज्ञानं परं ज्ञानं परं सत्यव्रतव्रतम्
सत्यस् वचनं श्रेयः सत्यं ज्ञानं हितं भवेत्। यद्बूतहितमत्यन्तं तद्वै सत्यं परं मतम्
यस् सर्वे समारम्भा निराशीर्बन्धनाः सदा। त्यागे यस् हुतं सर्वं स त्यागी स च बुद्धिमान्
यदा न गुरुतां चैनं च्यावयेदुपपादयन्। तं विद्याद्ब्राह्मणो योगमयोगं योगसंज्ञितम्
न हिंस्यात्सर्वभूतानि मैत्रायणगतश्चरेत्। नेदं जीवितमासाद्यवैरं कुर्वीत केनचित्
आकिंचन्यं सुसंतोषो निराशित्वमचापलम्। एतदेव परं ज्ञानं सदात्मज्ञानमुत्तमम्
परिग्रहं परित्यज्य भवेद्बुद्ध्या यतव्रतः। अशोकं स्थानमाश्रित् निश्चलं प्रेत्य चेह च
तपोनित्येन दान्तेन मुनिना संयतात्मना। अजितं जेतुकामेन भाव्यं सङ्गेष्वसङ्गिना
गुणागुणमनासङ्गमेककार्यमनन्तरम्। एतत्तद्ब्रह्मणो वृत्तमाहुरेकपदं सुखम्