मूर्धानमाश्रितो वह्निः शरीरं परिपालयन्। प्राणो मूर्धनि चाग्नौ च वर्तमानो विचेष्टते
भूं भव्यं भविष्यं च सर्वं प्राणे प्रतिष्ठितम्। श्रेष्ठं तदेव भूतानां ब्रह्मज्योतिरुपास्महे
स जन्तुः सर्वभूतात्मा पुरुषः स सनातनः। मनोबुद्धिरहंकारो भूतानां विषयश्च सः
अव्यक्तं सस्वसंज्ञं च जीवः कालः स चैव हि। प्रकृतिः पुरुषश्चैव प्राण एव द्विजोत्तम
जागर्ति स्वप्नकाले च स्वप्ने स्वप्नायते च सः। जाग्रत्सु बलमाधत्ते चेष्टत्सु चेष्टयत्यपि
तस्मिन्निरुद्दे विप्रेन्द्र मृत इत्यभिधीयते। त्यक्त्वा शरीरं भूतात्मा पुनरन्यत्प्रपद्यते
एष त्वग्निरपानन प्राणेन परिपाल्यते। पृष्ठतस्तु समानन स्वांस्वां गतिमुपाश्रितः
वस्तुमूले गुदे चैव पावकं समुपाश्रितः। वहन्मूत्रं पुरीषंवाऽप्यपानः परिवर्तते
प्रयत्ने कर्मणि बले य एकस्त्रिषु वर्तते। उदान इति तं प्राहुरध्यात्मविदुषो जनाः
सन्धौसन्धौ संनिविष्टः सर्वेष्वपि तथाऽनिलः। शरीरेषु मनुष्याणां व्यान इत्युपदिश्ते
धातुष्वग्निस्तु विततः स तु वायुसमीरितः। रसान्धातूंश्च दोषांश्च वर्तयन्परिधावति
प्राणानां संनिपातात्तु सन्निपातः प्रजायते। सोष्मा सोग्निरितिज्ञेयो योऽन्नं पचतिदेहिनां
अपानोदानयोर्मध्ये प्राणन्यानौ समाहितौ। समन्वितस्त्वधिष्ठानं सम्यक्पचति पावकः
अस्यापि पायुपर्यन्तस्तथा स्याद्गुदसंज्ञितः। स्रोतांशि तस्माज्जायन्ते सर्वप्राणेषु देहिनाम्
अग्निवेगवहः प्राणो गुदान्ते प्रतिहन्यते। स ऊर्ध्वमागम्य पुनः समुत्क्षिपति पावकम्
पक्वाशयस्त्वधोनाभ्या ऊर्ध्वमामाशयः स्थितः। नाभिमध्ये शरीरस्य प्राणाः सर्वे प्रतिष्ठिताः
प्रवृत्ता हृदयात्सर्वे तिर्यगूर्ध्वमधस्तथा। वहन्त्यन्नरसान्नाड्यो दशप्राणप्रचोदिताः
योगिनामेष मार्गस्तु येन गच्छन्ति तत्परम्। जितक्लमासनो धीरो मूर्धन्यात्मानमादत्
एवं सर्वेषु विततौ प्राणापानौ हि देहिषु। `तौ तावदग्निसहितौ विद्धि वै प्राणमात्मनि
एकादशविकारात्मा कलासंभारसंभृतः। मूर्तिमन्तं हि तं विद्धि नित्यं योगजितात्मकम्। तस्मिन्यः संस्थितो ह्यग्निर्नित्यं स्थाल्यामिवाहितः
आत्मानं तं विजानीहि नित्यं त्यागजितात्मकं
देवो यः संस्थितस्तस्मिन्नब्बिन्दुरिव पुष्करे। क्षेत्रज्ञं तं विजानीहि नित्यं त्यागजितात्मकं
जीवात्मकं विजानीहि रजः सत्वं तमस्तथा। जीवमात्मगुणं विद्धि तथाऽऽत्मानं परात्मकं
अचेतनं जीवगुणं वदन्ति सचेष्टते चेष्टयते च सर्वम्। ततः परं क्षेत्रविदो वदन्ति प्राकल्पयद्यो भुवनानि सप्त
एष सर्वेषु भूतेषु भूतात्मा न प्रकाशते। दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया ज्ञानवेदिभिः
चित्तस्य हि प्रसादेन हनति कर्म शुभाशुभम्। प्रसन्नात्मात्मनि स्थित्वा सुखमनन्त्यमश्नुते
लक्षणं तु प्रसादस्य यथा तृप्तः सुखं स्वपेत्। `सुखदुःखे हि संत्यज्य निर्द्वन्द्वो निष्परिग्रहः'। निवाते वा यथा दीपो दीप्येत्कुशलदीपितः
पूर्वरात्रेऽपरे चैव युञ्जानः सततं मनः। लध्वाहारो विशुद्धात्मा पश्यत्यात्मानमात्मनि
प्रदीप्तेनेव दीपेन मनोदीपेन पश्यति। दृष्ट्वाऽऽत्मानं निरात्मानं स तदा विप्रमुच्यते
सर्वोपायैस्तु लोभस् क्रोधस्य च विनिग्रहः। एतत्पवित्रं यञ्ज्ञानं तपो वै संक्रमो मतः