षण्णामात्प्रनि योज्यानामैश्वर्यं योऽधितिष्ठति। न स पापैः कुतोऽनर्थैर्युज्यते विजितेन्द्रियः
रथः शरीरं पुरुषस्य दृष्ट- मात्मा नियन्तेन्द्रियाण्याहुरश्वान्। तैरप्रमत्तः कुशली सदश्वै- र्दान्त सुखं याति रथीव धीरः
षण्णामात्मनियुक्तानामिन्द्रियाणां प्रमाथिनाम्। यो धीरो धारयेद्रश्मीन्स स्यात्परमसारथिः
इन्द्रियाणां प्रसृष्टानां हयानामिव वर्त्मसु। धृतिं कुर्वीत सारथ्ये धृत्या तानि जयेद्ध्रुवम्
इन्द्रियाणां विचरतां यन्मनोऽनुविधीयते। तदस् हरते बुद्धिं नावं वायुरिवाम्भसि
येषु विप्रतिपद्यन्ते षट्स्वमोहात्फलागमम्। तेष्वध्यवसिताध्यायी विन्दते ध्यानजं फलम्
एवं तु सूक्ष्मे कथिते धर्मव्याधेन भारत। ब्राह्मणः स पुन सूक्ष्मं पप्रच्छ सुसमाहितः
वृत्त्वस्य रजसश्चैव तमसश्च यथातथम्। वृणांस्तत्त्वेन मे ब्रूहि यथावदिह पृच्छतः
दृन्त ते कथयिष्यामि यन्मां त्वं परिपृच्छसि। एतान्गुणान्पृथक्त्वेन निबोध गदतो मम
मोहात्मकं तमस्तेषां रज एषां प्रवर्तकम्। प्रकाशबहुलत्वाच्च सत्वं ज्याय इहोच्यते
अविद्याबहुलो मूढः स्वप्नशीलो विचेतनः। दृर्हृपीकस्तमोध्यस्तः सक्रोधस्तामसोऽलसः
सुवृत्तवाक्यो मन्त्री च यो नराग्र्योऽनमूयकः। विवित्समानो विप्रर्षे स्तब्धो मानी स राजसः
प्रकाशबहुलो धीरो निर्विवित्सोऽनसूयकः। अक्रोधनो नरो धीमान्दान्तश्चैवस सात्विकः
सात्विकस्त्वथ संबुद्धो लोकवृत्तैर्न लिप्यते। यदा बुध्यति बोध्धव्यं लोकवृत्तं जुगुप्सते
वैराग्यस् च रूपं तु पूर्वमेव प्रवर्तते। मृदुर्भवत्यहंकारः प्रसीदत्यार्जवं च यत्
ततोऽस् सर्वद्वन्द्वानि प्रशाम्यन्ति परस्परम्। न चास्यासंयमो नाम क्वचिद्भवति कश्चन
शूद्रयोनौ हि जातस्य सद्गुणानुपतिष्ठतः। वैश्यत्वं भवति ब्रह्मन्क्षत्रियत्वं तथैव च
आर्जवे वर्तमानस्य ब्राह्मण्यमभिजायते। गुणास्ते कीर्तिताः सर्वे किं भूयः श्रोतुमिच्छसि
पार्थिवं धातुमासाद्य शारीरोऽग्निः कथं भवेत्। अवकाशविशेषेण कथं वर्तयतेऽनिलः
प्रश्नमेतं समुद्दिष्टं ब्राह्मणेन युधिष्ठिर। व्याधस्तु कथयामास ब्राह्मणाय महात्मने
मूर्धानमाश्रितो वह्निः शरीरं परिपालयन्। प्राणो मूर्धनि चाग्नौ च वर्तमानो विचेष्टते
भूं भव्यं भविष्यं च सर्वं प्राणे प्रतिष्ठितम्। श्रेष्ठं तदेव भूतानां ब्रह्मज्योतिरुपास्महे
स जन्तुः सर्वभूतात्मा पुरुषः स सनातनः। मनोबुद्धिरहंकारो भूतानां विषयश्च सः
अव्यक्तं सस्वसंज्ञं च जीवः कालः स चैव हि। प्रकृतिः पुरुषश्चैव प्राण एव द्विजोत्तम
जागर्ति स्वप्नकाले च स्वप्ने स्वप्नायते च सः। जाग्रत्सु बलमाधत्ते चेष्टत्सु चेष्टयत्यपि
तस्मिन्निरुद्दे विप्रेन्द्र मृत इत्यभिधीयते। त्यक्त्वा शरीरं भूतात्मा पुनरन्यत्प्रपद्यते
एष त्वग्निरपानन प्राणेन परिपाल्यते। पृष्ठतस्तु समानन स्वांस्वां गतिमुपाश्रितः
वस्तुमूले गुदे चैव पावकं समुपाश्रितः। वहन्मूत्रं पुरीषंवाऽप्यपानः परिवर्तते
प्रयत्ने कर्मणि बले य एकस्त्रिषु वर्तते। उदान इति तं प्राहुरध्यात्मविदुषो जनाः
सन्धौसन्धौ संनिविष्टः सर्वेष्वपि तथाऽनिलः। शरीरेषु मनुष्याणां व्यान इत्युपदिश्ते