इन्द्रियैर्गृह्यते यद्यत्तत्तद्व्यक्तमिति स्मृतम्। तदव्यक्तमिति ज्ञेयं लिङ्गग्राह्यमतीन्द्रियम्
यथास्वं ग्राहकान्येषां शब्दादीनामिमानि तु। इन्द्रियाणि तथा देही धारयन्निह तप्यते
लोके विततमात्मानं लोकं चात्मनि पश्यति। परापरज्ञः सक्तः सन्स तु भूतानि पश्यति
पश्यतः सर्वभूतानि सर्वावस्थासु सर्वदा। ब्रह्मभूतस् संयोगो नाशुभेनोपपद्यते
ज्ञानमूलात्मकं क्लेशमतिवृत्तस्य मोहजम्। लोकबुद्धिप्रकाशेन ज्ञेयमार्गेण गम्यते
अनादिनिधनं जन्तुमात्मयोनिं सदाव्ययम्। अनौपम्यममूर्तं च भगवानाह बुद्धिमान्
तपोमूलमिदं सर्वं यन्मां विप्रानुपृच्छसि। `तपसा हि समाप्नोति यद्यदेवाभिवाञ्छति'। इन्द्रियाण्येव संयम्य तपो भवति नान्यथा
इन्द्रियाण्येव तत्सर्वंयत्स्वर्गनरकावुभौ। निगृहीतविसृष्टानि स्वर्गाय नरकाय च
एष योगविधिः कृत्स्नो यावदिन्द्रियधारणम्। एतन्मूलं हि तपसः स्वर्गस्य नरकस्य च
इन्द्रियाणां प्रसङ्गेन दोमार्च्छत्यसंशयम्। सन्नियम्य तु तान्येव ततः सिद्धिं समाप्नुयात्
षण्णामात्प्रनि योज्यानामैश्वर्यं योऽधितिष्ठति। न स पापैः कुतोऽनर्थैर्युज्यते विजितेन्द्रियः
रथः शरीरं पुरुषस्य दृष्ट- मात्मा नियन्तेन्द्रियाण्याहुरश्वान्। तैरप्रमत्तः कुशली सदश्वै- र्दान्त सुखं याति रथीव धीरः
षण्णामात्मनियुक्तानामिन्द्रियाणां प्रमाथिनाम्। यो धीरो धारयेद्रश्मीन्स स्यात्परमसारथिः
इन्द्रियाणां प्रसृष्टानां हयानामिव वर्त्मसु। धृतिं कुर्वीत सारथ्ये धृत्या तानि जयेद्ध्रुवम्
इन्द्रियाणां विचरतां यन्मनोऽनुविधीयते। तदस् हरते बुद्धिं नावं वायुरिवाम्भसि
येषु विप्रतिपद्यन्ते षट्स्वमोहात्फलागमम्। तेष्वध्यवसिताध्यायी विन्दते ध्यानजं फलम्
एवं तु सूक्ष्मे कथिते धर्मव्याधेन भारत। ब्राह्मणः स पुन सूक्ष्मं पप्रच्छ सुसमाहितः
वृत्त्वस्य रजसश्चैव तमसश्च यथातथम्। वृणांस्तत्त्वेन मे ब्रूहि यथावदिह पृच्छतः
दृन्त ते कथयिष्यामि यन्मां त्वं परिपृच्छसि। एतान्गुणान्पृथक्त्वेन निबोध गदतो मम
मोहात्मकं तमस्तेषां रज एषां प्रवर्तकम्। प्रकाशबहुलत्वाच्च सत्वं ज्याय इहोच्यते
अविद्याबहुलो मूढः स्वप्नशीलो विचेतनः। दृर्हृपीकस्तमोध्यस्तः सक्रोधस्तामसोऽलसः
सुवृत्तवाक्यो मन्त्री च यो नराग्र्योऽनमूयकः। विवित्समानो विप्रर्षे स्तब्धो मानी स राजसः
प्रकाशबहुलो धीरो निर्विवित्सोऽनसूयकः। अक्रोधनो नरो धीमान्दान्तश्चैवस सात्विकः
सात्विकस्त्वथ संबुद्धो लोकवृत्तैर्न लिप्यते। यदा बुध्यति बोध्धव्यं लोकवृत्तं जुगुप्सते
वैराग्यस् च रूपं तु पूर्वमेव प्रवर्तते। मृदुर्भवत्यहंकारः प्रसीदत्यार्जवं च यत्
ततोऽस् सर्वद्वन्द्वानि प्रशाम्यन्ति परस्परम्। न चास्यासंयमो नाम क्वचिद्भवति कश्चन
शूद्रयोनौ हि जातस्य सद्गुणानुपतिष्ठतः। वैश्यत्वं भवति ब्रह्मन्क्षत्रियत्वं तथैव च
आर्जवे वर्तमानस्य ब्राह्मण्यमभिजायते। गुणास्ते कीर्तिताः सर्वे किं भूयः श्रोतुमिच्छसि
पार्थिवं धातुमासाद्य शारीरोऽग्निः कथं भवेत्। अवकाशविशेषेण कथं वर्तयतेऽनिलः
प्रश्नमेतं समुद्दिष्टं ब्राह्मणेन युधिष्ठिर। व्याधस्तु कथयामास ब्राह्मणाय महात्मने