ततस्तदर्थं यतते कर्म चारभते महत्। इष्टानां रूपगन्धानामभ्यासं च निषेवते
ततो रागः प्रभवति द्वेषश्च तदनन्तरम्। ततो लोभः प्रभवति मोहश्च तदनन्तरम्
तस् लोभाभिभूतस्य रागद्वेषहतस्य च। न धर्मे जायते बुद्धिर्व्याजाद्धर्मं करोति च
व्याजेन चरते धर्ममर्थं व्याजेन रोचते। व्याजेन सिध्यमानेषु धनेषु द्विजसत्तम
तत्रैव रमते बुद्धिस्ततः पापं चिकीर्षति। सुहृद्भिर्वार्यमाणश्च पण्डितैश्च द्विजोत्तम
उत्तरं श्रुतिसंबद्धं ब्रवीत्यश्रुतियोजितम्। अधर्मस्त्रिविधस्तस्य वर्तते रागदोषजः
पापं चिन्तयते चैव ब्रवीति च करोति च। तस्याधर्मप्रवृत्तस्य गुणा नश्यन्ति साधवः
एकशीलाश्च मित्रत्वं भजन्ते पापकर्मिणः। स तेन दुःखमाप्नोति परत्र च विपद्यते
पापात्मा भवति ह्येवं धर्मलाभं तु मे शृणु। यस्त्वेतान्प्रज्ञाया दोषान्पूर्वमेवानुपश्यति
कुशलः सुखदुःखेषु सांधूंश्चाप्युपसेवते। तस्य साधुसमारम्भाद्बुद्ध्रिधर्मेषु राजते
ब्रवीषि सूनृतंधर्मं यस्य वक्ता न विद्यते। दिव्यप्रभावः सुमहानृषिरेव मतोसि मे
ब्राह्मणा वै महाभागाः पितरोऽग्रभुजः सदा। तेषां सर्वात्मना कार्यं प्रियं लोके मनीषिणा
यत्तेषां च प्रियं तत्ते वक्ष्यामि द्विजसत्तम। नमस्कृत्वा ब्राह्मणेभ्यो ब्राह्मीं विद्यां निबोध मे
इदं विश्वं जगत्सर्वमजगच्चापि सर्वशः। महाभूतात्मकं ब्रह्मन्नातः परतरं भवेत्
महाभूतानि खं वायुरग्निरापस्तथा च भूः। शब्दः स्पर्शश्च रूपं च रसो गन्धश् तद्गुणाः
तेषामपि गुणाः सर्वे गुणवृत्तिः परस्परम्। पूर्वपूर्वगुणाः सर्वे क्रमशो गुणिषु त्रिषु
षष्ठी तु चेतना नाम मन इत्यभिधीयते। सप्तमी तु भवेद्बुद्धिरहंकारस्ततः परम्
इन्द्रियाणि च पञ्चात्मा रजः सत्वं तमस्तथा। इत्येष सप्तदशको राशिरव्यक्तसंज्ञकः
सर्वैरिहेन्द्रियार्थैस्तु व्यक्ताव्यक्तैः सुसंवृतैः। चतुर्विंसक इत्येष व्यकत्वाव्यक्तमयो गुणः। एतत्ते सर्वमाख्यातं किं भूयः श्रोतुमिच्छसि
एवमुक्तः स विप्रस्तु धर्मव्याधेन भारत। कथामकथयद्भूयो मनसः प्रीतिवर्धनीम्
महाभूतानि यान्याहुः पञ्च धर्मविदांवर। एकैकस्य गुणान्सम्यक्पञ्चानामपि मे वद
भूमिरापस्तथा ज्योतिर्वायुराकाशमेव च। गुणोत्तराणइ सर्वाणि तेषां वक्ष्यामि ते गुणान्
भूमिः पञ्चगुणा ब्रह्मननुदकं च चतुर्गुणम्। गुणास्त्रयस्तेजसि च त्रयश्चाकाशवातयोः
शब्दः स्पर्शश्च रूपं च रसो गन्धश्च पञ्चमः। एतेगुणाः पञ्च भूमेः सर्वेभ्यो गुणवत्तराः
शब्दः स्पर्शश्च रूपं च सरश्चापि द्विजोत्तम। अपामेते गुणा ब्रह्मन्कीर्तितास्तव सुव्रत
शब्दः स्पर्शश्च रूपं च तेजसोऽथ गुणास्त्रयः। शब्दः स्पर्शश्च वायौ तु शब्दश्चाकाश एव तु
एते पञ्चदश ब्रह्मन्गुणा भूतेषु पञ्चसु। वर्तन्ते सर्वभूतेषु येषु लोकाः प्रतिष्ठिताः
अन्योन्यं नातिवर्तन्ते सम्यक्व भवति द्विज। यदा तु विषमं भावमाचरन्ति चराचराः
तदा देही देहमन्यं व्यतिरोहति कालतः। प्रातिलोम्याद्विनश्यन्ति जायन्ते चानुपूर्वशः
तत्र तत्रहि दृश्यन्ते धातवः पाञ्चभौतिकाः। यैरावृतमिदं सर्वं जगत्स्थावरजङ्गमम्