कथं संभवते योनौ कथं वा पुण्यपापयोः। जातीः पुण्या ह्यपुण्याश् कथं गच्छति सत्तम
गर्भाधानसमायुक्तं कर्मेदं संप्रदृश्यते। समासेन तु ते क्षिप्रं प्रवक्ष्यामि द्विजोत्तम
यथा संभृतसंभारः पुनरेव प्रजायते। शुभकृच्छुभयोनीषु पापकृत्पापयोनिषु
शुभैः प्रयोगैर्देवत्वंव्यामिश्रैर्मानुषो भवेत्। मोहनीयैर्वियोनीषु त्वधोगामी च किल्बिषैः
जातिमृत्युजरादुःखैः सततं समभिद्रुतः। संसारे पच्यमानश्च दोषैरात्मकृतैर्नरः
तिर्यग्योनिसहस्राणि गत्वा नरकमेव च। जीवाः संपरिवर्तन्ते कर्मबन्धनिबन्धनाः
जन्तुस्तु कर्मभिस्तैस्तैः स्वकृतैः प्रेत्य दुःखितः। तद्दुःखप्रतिघातार्थमपुण्यां योनिमाप्नुते
ततः कर्म समादत्ते पुनरन्यन्नवं बहु। पच्यते तु पुनस्तेन भुक्त्वाऽपथ्यमिवातुरः
अजस्रमेव दुःखार्तोऽदुःखितः सुखिसंज्ञितः। ततो निवृत्तबन्धत्वात्कर्मणामुदयादपि
परिक्रामति संसारे चक्रवद्बहुवेदनः। स चेन्निवृत्तबन्धस्तु विशुद्धश्चापि कर्मभिः
तपोयोगसमारम्भं कुरुते द्विजसत्तम। कर्मभिर्बहुभिश्चापि लोकानश्नाति कर्मभिः
[स चेन्निवृत्तबन्धस्तु विशुद्धश्चापि कर्मभिः।] प्राप्नोति सुकृताँल्लोकान्यत्रगत्वा न शोचति
पापं कुर्वनपुण्यवृत्तः पुण्यस्यान्तं न गच्छति। `पुण्यं कुर्वन्पुण्यवृत्तः पुण्यस्यान्तं न गच्छति'। तस्मात्पुण्यं यतेत्कर्तुं वर्जयीत च पापकम्
अनसूयुः कृतज्ञश्च कल्याणान्येव सेवते। सुखानि धर्ममर्थं च स्वर्गं च लभते नरः
संस्कृतस्य च दान्तस् नियतस्य यतात्मनः। प्राज्ञास्यानन्तरा वृत्तिरिहि लोके परत्र च
सतां धऱ्मेण वर्तेत क्रियां शिष्टवदाचरेत्। असंक्लेशेन लोकस्य वृत्तिं लिप्सेत वै द्विजः
सन्ति ह्यागमविज्ञानाः शिष्टाः शास्त्रे विचक्षणाः। स्वधर्मेण क्रिया लोके कुर्वाणास्ते ह्यसंकराः
प्राज्ञो धर्मेण रमते धर्मं चैवोपजीवति। तस्माद्धर्मादवाप्तेन धनन द्विजसत्तम
तस्यैव सिंचते मूलं गुणान्पश्यति यत्र वै। धर्मात्मा भवति ह्येवं चित्तं चास्य प्रसीदति। स मित्रजनसंतुष्ट इह प्रेत्य च नन्दति
शब्दं स्पर्शं तथा रूपं गन्धानिष्टांस्च सत्तम। प्रभुत्वं लभते चापि धर्मस्यैतत्फलं विदुः
धरमस्य च पलं लब्ध्वा न तुष्यति महाद्विज। अतुष्यमाणो निर्वेदमादत्ते ज्ञानचक्षुषा
प्रज्ञाचक्षुर्नर इह दोषं नैवानुरुध्यते। विरज्ये यथाकामं न च धर्मं विमुञ्चति
फलत्यागे च यतते दृष्ट्वा लोकं क्रियात्मकम्। ततो मोक्षे प्रयतते नानुपायादुपायतः
एवं निर्वेदमादत्ते पापं कर्म जहाति च। धार्मिकश्चापि भवति मोक्षं च लभते परम्
तपो निःश्रेयसं जन्तोस्तस्य मूलं शमो दमः। तेन सर्वानवाप्नोति कामान्यान्मनसेच्छति
इन्द्रियाणां निरोधेन सत्येन च दमेन च। ब्रह्मणः पदमाप्नोति यत्परं द्विजसत्तम
इन्द्रियाणीति यान्याहुः कानि तानि यतव्रत। निग्रहश्च कथं कार्यो निग्रहस्य च किं फलम्
कथं च फलमाप्नोति तेषां धर्मभृतांवर। एतदिच्छामि तत्त्वेन धर्मं ज्ञातुं सुधार्मिक
एवमुक्तस्तु विप्रेण धर्मव्याधो युधिष्ठिर। प्रत्युवाच यथा विप्रं तच्छृणुष्व नराधिप
विज्ञानार्थं मनुष्याणां मनः पूर्वं प्रवर्तते। तत्प्राप्य कामं भजतेक्रोधं च द्विजसत्तम