न म्रियेयुर्न जीर्यैयुः सर्वे स्युः सर्वकामिकाः। नाप्रियं प्रतिपश्येयुर्विधिश्च यदि नो भवेत्
उपर्युपरि लोकस्य सर्वो गन्तुं समीहते। यतते च यथाथक्ति न च तद्वर्तते तथा
बहवः संप्रदृश्यन्ते तुल्यनक्षत्रमङ्गलाः। महत्तु फलवैषम्यं दृश्यते कर्मसिद्धिषु
न केचिदीशते ब्रह्मन्स्वयंग्राह्यस्य सत्तम। कर्मणां प्राकृतानां वै इह सिद्धिः प्रदृश्यते
तथा श्रुतिरियंब्रह्मञ्जीवः किल सनातनः। शरीरमध्रुवं लोके सर्वेषां प्राणिनामिह
वध्यमाने शरीरे तु देहनाशो भवत्युत। जीवः संक्रमतेऽन्यत्रकर्मबनधनिबन्धनः
कथं धर्मविदांश्रेष्ठ जीवो भवति शाश्वतः। एतदिच्छाम्यहं ज्ञातुं तत्त्वेन वदतांवर
न जीवनाशोस्ति हि देहभेदे मिथ्यैतदाहुर्म्रियतीति मूढाः। जीवस्तु देहान्तरितः प्रयाति दशार्धतैवास् शरीरभेदः
अन्यो हि नाश्नाति कृतं हि कर्म मनुष्यलोके मनुजस् कश्चित्। यत्तेन किंचिद्धि कृतंहि कर्म तदश्नुते नास्ति कृतस्य नाशः
सुपुण्यशीला हि भवन्ति पुण्या नराधमाः पापकृतो भवन्ति। नरोऽनुयातस्त्विह कर्मभिः स्वै- स्ततः समुत्पद्यति भावितस्तैः
कथं संभवते योनौ कथं वा पुण्यपापयोः। जातीः पुण्या ह्यपुण्याश् कथं गच्छति सत्तम
गर्भाधानसमायुक्तं कर्मेदं संप्रदृश्यते। समासेन तु ते क्षिप्रं प्रवक्ष्यामि द्विजोत्तम
यथा संभृतसंभारः पुनरेव प्रजायते। शुभकृच्छुभयोनीषु पापकृत्पापयोनिषु
शुभैः प्रयोगैर्देवत्वंव्यामिश्रैर्मानुषो भवेत्। मोहनीयैर्वियोनीषु त्वधोगामी च किल्बिषैः
जातिमृत्युजरादुःखैः सततं समभिद्रुतः। संसारे पच्यमानश्च दोषैरात्मकृतैर्नरः
तिर्यग्योनिसहस्राणि गत्वा नरकमेव च। जीवाः संपरिवर्तन्ते कर्मबन्धनिबन्धनाः
जन्तुस्तु कर्मभिस्तैस्तैः स्वकृतैः प्रेत्य दुःखितः। तद्दुःखप्रतिघातार्थमपुण्यां योनिमाप्नुते
ततः कर्म समादत्ते पुनरन्यन्नवं बहु। पच्यते तु पुनस्तेन भुक्त्वाऽपथ्यमिवातुरः
अजस्रमेव दुःखार्तोऽदुःखितः सुखिसंज्ञितः। ततो निवृत्तबन्धत्वात्कर्मणामुदयादपि
परिक्रामति संसारे चक्रवद्बहुवेदनः। स चेन्निवृत्तबन्धस्तु विशुद्धश्चापि कर्मभिः
तपोयोगसमारम्भं कुरुते द्विजसत्तम। कर्मभिर्बहुभिश्चापि लोकानश्नाति कर्मभिः
[स चेन्निवृत्तबन्धस्तु विशुद्धश्चापि कर्मभिः।] प्राप्नोति सुकृताँल्लोकान्यत्रगत्वा न शोचति
पापं कुर्वनपुण्यवृत्तः पुण्यस्यान्तं न गच्छति। `पुण्यं कुर्वन्पुण्यवृत्तः पुण्यस्यान्तं न गच्छति'। तस्मात्पुण्यं यतेत्कर्तुं वर्जयीत च पापकम्
अनसूयुः कृतज्ञश्च कल्याणान्येव सेवते। सुखानि धर्ममर्थं च स्वर्गं च लभते नरः
संस्कृतस्य च दान्तस् नियतस्य यतात्मनः। प्राज्ञास्यानन्तरा वृत्तिरिहि लोके परत्र च
सतां धऱ्मेण वर्तेत क्रियां शिष्टवदाचरेत्। असंक्लेशेन लोकस्य वृत्तिं लिप्सेत वै द्विजः
सन्ति ह्यागमविज्ञानाः शिष्टाः शास्त्रे विचक्षणाः। स्वधर्मेण क्रिया लोके कुर्वाणास्ते ह्यसंकराः
प्राज्ञो धर्मेण रमते धर्मं चैवोपजीवति। तस्माद्धर्मादवाप्तेन धनन द्विजसत्तम
तस्यैव सिंचते मूलं गुणान्पश्यति यत्र वै। धर्मात्मा भवति ह्येवं चित्तं चास्य प्रसीदति। स मित्रजनसंतुष्ट इह प्रेत्य च नन्दति
शब्दं स्पर्शं तथा रूपं गन्धानिष्टांस्च सत्तम। प्रभुत्वं लभते चापि धर्मस्यैतत्फलं विदुः