चङ्क्रम्यमाणा जीवांश्च धरणीसंश्रितान्बहून्। पद्भ्यां घ्नन्ति नरा विप्र तत्र किं प्रतिभाति ते
उपविष्टाः शयानाश्च घ्नन्ति जीवाननेकशः। अज्ञानादथवा ज्ञानात्तत्रकिं प्रतिभाति ते
जीवैर्ग्रस्तमिदं सर्वमाकाशं पृथिवी तथा। अविज्ञानाच्च हिंसन्ति तत्र किं प्रतिभाति ते
अहिंसेति यदुक्तं हि पुरुषैर्विस्मितैः पुरा। के न हिंसन्ति जीवान्वै लोकेऽस्मिन्द्विजसत्तम्
बहु संचिन्त्य इह वै नास्ति कश्चिदहिंसकः
अहिंयासां तु निरता यतयो द्विजसत्तम। कुर्वन्त्येव हि हिंसां ते यत्नादल्पतरा भवेत्
आलक्ष्याश्चैव पुरुषाः कुले जाता महागुणाः। महाघोराणि कर्माणि कृत्वा लज्जन्ति वै न च
सुहृदः सुहृदोऽन्यांस्च दुर्हृदश्चापि दुर्हृदः। सम्यक्प्रवृत्तान्पुरुषानन सम्यगनुपश्यति
समृद्धैश्चन नन्दन्ति बान्धवा बान्धवैरपि। गुरूंश्चैव विनिदन्ति मूढा निश्चितमानिनः
बहु लोके विपर्यस्तं दृश्यते द्विजसत्तम। धर्मयुक्तमधर्मं च तत्र किं प्रतिभाति ते
वक्तुं बहुविधं शक्यं धर्माधर्मेषु कर्मसु। स्वकर्मनिरतो यो हि स यशः प्राप्नुयान्महत्
धर्मव्याधस्तु निपुणं पुनरेव युधिष्ठिर। विप्रर्षभमुवाचेदं सर्वधर्मभृतांवर
श्रुतिप्रमाणो धर्मोऽयमिति वृद्धानुशासनम्। सूक्ष्मा गतिर्हि धर्मस् बहुशाखा ह्यनन्तिका
प्राणान्तिके विवाहे च वक्तव्यमनृतं भवेत्। अनृतेन भवेत्सत्यं सत्येनैवानृतं भवेत्
यद्भूतहितमत्यन्तं तत्सत्यमिति धारणा। विपर्ययकृतोऽधर्मः पश्य धर्मस्य सूक्ष्मताम्
यत्करोत्यशुभं कर्म शुभं वा यदि सत्तम। अवश्यं तत्समाप्नोति पुरुषो नात्र संशयः
विषमां च दशां प्राप्तो देवान्गर्हति वै भृशम्। आत्मृनः कर्मदोषेण न विजानात्यपण्डितः
मूढो नैकृतिकश्चापि चपलश्च द्विजोत्तम। `न शुभं कर्म बध्नाति पुरुषं पाषनिश्चयम्
सुखदुःखविपर्यासो यदा समुपपद्यते। नैनं प्रज्ञा सुनीतं वा त्रायते नैव पौरुषम्
यो यमिच्छेद्यथा कामं तं तं कामं स आप्नुयात्। यदि स्यादपराधीनं पौरुषस् क्रियाफलम्
संयताश्चापि दक्षाश्च मतिमन्तश्च मानवाः। दृश्यन्ते निष्फलाः सन्तः प्रहीणाः सर्वकर्मभिः
भूतानामपरः कश्चिद्धिंसायां सततोत्थितः। वञ्चनायां च लोकस्य स सुखेनैव युज्यते
अचेष्टमपि चासीनं श्रीः कंचिदुपतिष्ठति। कश्चित्कर्माणि कुर्वन्हि न प्राप्यमधिगच्छति
देवानिष्ट्वा तपस्तप्त्वा कृपणैः पुत्रगृध्नुभिः। दशमासधृता गर्भा जायन्ते कुलपांसनाः
अपरे धनधान्यैश्च भोगैश्च पितृसंचितैः। विपुलैरभिजायन्ते लब्धास्तैरेव मङ्गलैः
न देहजा मनुष्याणां व्याधयो द्विजसत्तम'। कर्मजा हि मनुष्याणां रोगा नास्त्यत्र संशयः
आधिभिश्चैव बाध्यन्ते व्यालैः क्षुद्रमृगा इव। व्याधयो विनिवार्यन्ते मृगा व्याधैरिव द्विज
येषामस्ति च भोक्तव्यं ग्रहणीरोगपीडिताः। न शक्नुवन्ति ते भोक्तुं चेष्टितं पूर्वकर्मया
अपरे बाहुबलिनः क्लिश्यन्ति बहवो जनाः। दुःखेन चाधिगच्छनति भोजनं द्विजसत्तम
इति लोकमनाक्रन्दं देहशङ्कापरिप्लुतम्। स्रोतसाऽसकृदाक्षिप्तं ह्रियमाणं बलीयसा