संप्रत्याचक्षते चेदं तथा श्रोष्यन्ति चापरे। पुत्राः शुश्रूषवः सन्ति प्रेष्याश्च प्रियकारिणः
भरतानां महज्जन्म शृण्वतामनसूयताम्। नास्ति व्याधिभयं तेषां परलोकभयं कुतः
शरीरेण कृतं पापं वाचा च मनसैव च। सर्वं संत्यजति क्षिप्रं य इदं शृणुयान्नरः
धन्यं यशस्यमायुष्यं पुण्यं स्वर्ग्यं तथैव च। कृष्णद्वैपायनेनेदं कृतं पुण्यचिकीर्षुणा
कीर्तिं प्रथयता लोके पाण्डवानां महात्मनाम्। अन्येषां क्षत्रियाणां च भूरिद्रविणतेजसाम्
सर्वविद्यावदातानां लोके प्रथितकर्मणाम्। य इदं मानवो लोके पुण्यार्थे ब्राह्मणाञ्छुचीन्
श्रावयेत महापुण्यं तस्य धर्मः सनातनः। कुरूणां प्रथितं वंशं कीर्तयन्सततं शुचिः
वंशमाप्नोति विपुलं लोके पूज्यतमो भवेत्। योऽधीते भारतं पुम्यं ब्राह्मणो नियतव्रतः
चतुरो वार्षिकान्मासान्सर्वपापैः प्रमुच्यते। विज्ञेयः स च वेदानां पारगो भारतं पठन्
देवा राजर्षयो ह्यत्र पुण्या ब्रह्मर्षयस्तथा। कीर्त्यन्ते धूतपाप्मानः कीर्त्यते केशवस्तथा
भगवांश्चापि देवेशो यत्र देवी च कीर्त्यते। अनेकजननो यत्र कार्तिकेयस्य संभवः
ब्राह्मणानां गवां चैव माहात्म्यं यत्र कीर्त्यते। सर्वश्रुतिसमूहोऽयं श्रोतव्यो धर्मबुद्धिभिः
य इदं श्रावयेद्विद्वान्ब्राह्मणानिह पर्वसु। धूतपाप्मा जितस्वर्गो ब्रह्म गच्छति शाश्वतम्
श्रावयेद्ब्राह्मणाञ्श्राद्धे यश्चेमं पादमन्ततः। अक्षय्यं तस्य तच्छ्राद्धमुपावर्तेत्पितॄनिह
अह्ना यदेनः क्रियते इन्द्रियैर्मनसाऽपि वा। ज्ञानादज्ञानतो वापि प्रकरोति नरश्च यत्
तन्महाभारताख्यानं श्रुत्वैव प्रविलीयते। भरतानां महज्जन्म महाभारतमुच्यते
निरुक्तमस्य यो वेद सर्वपापैः प्रमुच्यते। भरतानां महज्जन्म महाभारतमुच्यते
महतो ह्येनसो मर्त्यान्मोचयेदनुकीर्तितः। त्रिभिर्वर्षैर्महाभागः कृष्णद्वैपायनोऽब्रवीत्
नित्योत्थितः शुचिः शक्तो महाभारतमादितः। तपोनियममास्थाय कृतमेतन्महर्षिणा
तस्मान्नियमसंयुक्तैः श्रोतव्यं ब्राह्मणैरिदम्। कृष्णप्रोक्तामिमां पुण्यां भारतीमुत्तमां कथाम्
श्रावयिष्यन्ति ये विप्रा ये च श्रोष्यन्ति मानवाः। सर्वथा वर्तमाना वै न ते शोच्याः कृताकृतैः
नरेण धर्मकामेन सर्वः श्रोतव्य इत्यपि। निखिलेनेतिहासोऽयं ततः सिद्धिमवाप्नुयात्
न तां स्वर्गगतिं प्राप्य तुष्टिं प्राप्नोति मानवः। यां श्रुत्वैवं महापुण्यमितिहासमुपाश्नुते
शृण्वञ्श्राद्धः पुण्यशीलः श्रावयंश्चेदमद्भुतम्। नरः फलमवाप्नोति राजसूयाश्वमेधयोः
यथा समुद्रो भगवान्यथा मेरुर्महागिरिः। उभौ ख्यातौ रत्ननिधी तथा भारतमुच्यते
इदं हि वेदैः समितं पवित्रमषि चोत्तमम्। श्राव्यं श्रुतिसुखं चैव पावनं शीलवर्धनम्
य इदं भारतं राजन्वाचकाय प्रयच्छति। तेन सर्वा मही दत्ता भवेत्सागरमेखला
पारिक्षित कथां दिव्यां पुण्याय विजयाय च। कथ्यमानां मया कृत्स्नां शृणु हर्षकरीमिमाम्
त्रिभिर्वर्षैः सदोत्थायी कृष्णद्वैपायनो मुनिः। महाभारतमाख्यानं कृतवानिदमद्भुतम्
शृणु कीर्तयतस्तन्म इतिहासं पुरातनम्