कुले हि विहितं कर्म देही तं न विमुञ्चति। धात्रा विधिरयं दृष्टो बहुधा कर्मनिर्मये
द्रष्टव्यस्तु भवेद्ब्रह्मन्धर्मो धर्मविनिश्चये। कथं कर्म शुभं कुर्यां कथं मुच्ये पराभवात्
कर्मणस्तस्य घोरस् वसुधा निर्णयो भवेत्। दाने च सत्यवाक्ये च गुरुशुश्रूणे तथा। द्विजातिपूजने चाहं धर्मे च निरतः सदा
अतिमानातिवादाभ्यां निवृत्तोस्मि द्विजोत्तम। कृषिं साध्वीति मन्यन्ते तत्र हिंसा परा स्मृता
कर्षन्तो लाङ्गलैरुर्वीं घ्नन्ति भूमिशयान्बहून्। जीवानन्यांश्च बहुशस्तत्रकिं प्रतिभाति ते
धान्यबीजानि यान्याहुर्व्रीह्यादीनि द्विजोत्तम। सर्वाण्येतानि जीवा हि तत्र किं प्रतिभाति ते
अध्याक्रम् पशूंश्चापि घ्नन्ति वै भक्षयन्ति च। वृक्षांस्तथौषधीश्चापि छिन्दन्ति पुरुषा द्विज
जीवा हि बहवो ब्रह्मन्वृक्षेषु च फलेषु च। उदके बहवश्चापि तत्रकिं प्रतिभाति ते
सर्वं व्याप्तमिदं ब्रह्मन्प्राणिभिः प्राणिजीवनैः। मत्स्यान्ग्रसन्ते मत्स्याश्च तत्रकिं प्रतिभाति ते
सत्वैः सत्वानि जीवन्ति बहुधा द्विजसत्तम। प्राणिनोऽन्योन्यभक्षाश्च तत्रकिं प्रतिभाति ते
चङ्क्रम्यमाणा जीवांश्च धरणीसंश्रितान्बहून्। पद्भ्यां घ्नन्ति नरा विप्र तत्र किं प्रतिभाति ते
उपविष्टाः शयानाश्च घ्नन्ति जीवाननेकशः। अज्ञानादथवा ज्ञानात्तत्रकिं प्रतिभाति ते
जीवैर्ग्रस्तमिदं सर्वमाकाशं पृथिवी तथा। अविज्ञानाच्च हिंसन्ति तत्र किं प्रतिभाति ते
अहिंसेति यदुक्तं हि पुरुषैर्विस्मितैः पुरा। के न हिंसन्ति जीवान्वै लोकेऽस्मिन्द्विजसत्तम्
बहु संचिन्त्य इह वै नास्ति कश्चिदहिंसकः
अहिंयासां तु निरता यतयो द्विजसत्तम। कुर्वन्त्येव हि हिंसां ते यत्नादल्पतरा भवेत्
आलक्ष्याश्चैव पुरुषाः कुले जाता महागुणाः। महाघोराणि कर्माणि कृत्वा लज्जन्ति वै न च
सुहृदः सुहृदोऽन्यांस्च दुर्हृदश्चापि दुर्हृदः। सम्यक्प्रवृत्तान्पुरुषानन सम्यगनुपश्यति
समृद्धैश्चन नन्दन्ति बान्धवा बान्धवैरपि। गुरूंश्चैव विनिदन्ति मूढा निश्चितमानिनः
बहु लोके विपर्यस्तं दृश्यते द्विजसत्तम। धर्मयुक्तमधर्मं च तत्र किं प्रतिभाति ते
वक्तुं बहुविधं शक्यं धर्माधर्मेषु कर्मसु। स्वकर्मनिरतो यो हि स यशः प्राप्नुयान्महत्
धर्मव्याधस्तु निपुणं पुनरेव युधिष्ठिर। विप्रर्षभमुवाचेदं सर्वधर्मभृतांवर
श्रुतिप्रमाणो धर्मोऽयमिति वृद्धानुशासनम्। सूक्ष्मा गतिर्हि धर्मस् बहुशाखा ह्यनन्तिका
प्राणान्तिके विवाहे च वक्तव्यमनृतं भवेत्। अनृतेन भवेत्सत्यं सत्येनैवानृतं भवेत्
यद्भूतहितमत्यन्तं तत्सत्यमिति धारणा। विपर्ययकृतोऽधर्मः पश्य धर्मस्य सूक्ष्मताम्
यत्करोत्यशुभं कर्म शुभं वा यदि सत्तम। अवश्यं तत्समाप्नोति पुरुषो नात्र संशयः
विषमां च दशां प्राप्तो देवान्गर्हति वै भृशम्। आत्मृनः कर्मदोषेण न विजानात्यपण्डितः
मूढो नैकृतिकश्चापि चपलश्च द्विजोत्तम। `न शुभं कर्म बध्नाति पुरुषं पाषनिश्चयम्
सुखदुःखविपर्यासो यदा समुपपद्यते। नैनं प्रज्ञा सुनीतं वा त्रायते नैव पौरुषम्
यो यमिच्छेद्यथा कामं तं तं कामं स आप्नुयात्। यदि स्यादपराधीनं पौरुषस् क्रियाफलम्