सर्वपूज्याः श्रुतधनास्तथैव च तपस्विनः। सर्वभूतदयावन्तस्ते शिष्टाः शिष्टसंमताः
दाननित्याः सुखान्याशु प्राप्नुवन्त्यपि च श्रियम्। पीडया च कलत्रस्य भृत्यानां च समाहिताः
अतिशक्त्या प्रयच्छन्ति सन्तः सद्भिः समागताः। लोकयात्रां च पशय्न्तो धर्ममात्महितानि च। एवं सन्तोवर्तमानास्त्वेधन्ते शाश्वतीः समाः
अहिंसा सत्यवचनमानृशंस्यवथार्जवम्। अद्रोहो नातिमानश्च ह्रीस्तितिक्षा दमः शमः
धीमन्तो धृतिमन्तश्च भूतानामनुकम्पकाः। अकामद्वेषसंयुक्तास्ते सन्तो लोकसत्कृताः
त्रीण्येव तु पदान्याहुः सतां वृत्तमनुस्मरन्। न चैव द्रुह्येद्दद्याच्च सत्यं चैव सदा वदेत्
सर्वत्र च दयावन्तः सन्तः करुणवेदिनः। गच्छन्तीह सुसंतुष्टा धर्म्यं पन्थानमुत्तमम्
शिष्टाचारा महात्मानो येषां धर्मः सुनिश्चितः। अनसूया क्षमा शान्तिः संतोषः प्रियवादिता
कामक्रोधपरित्यागः शिष्टाचारनिषेवणम्। कर्म च श्रुतसंपन्नं सतां मार्गमनुत्तमम्
शिष्टाचारं निषेवन्ते नित्यं ध्रममनुव्रताः। प्रज्ञाप्रासादमारूह्य मुह्यतो महतो जनान्
प्रेक्षन्ते लोकवृत्तानि विविधानि द्विजोत्तमाः। अतिषुण्यानि दानानि तानि द्विजवरोत्तम
एतत्ते सर्वमाख्यातं यथाप्रज्ञं यथाश्रुतम्। शिष्टाचारगुणान्ब्रह्मन्पुरस्कृत्य द्विजर्षभ
स तु विप्रमथोवाच धर्मव्याधो युधिष्ठिर। यदहं ह्याचरे कर्म घोरमेतदसंशयम्
विधिस्तु बलवान्ब्रह्मन्दुस्तरं हि पुरा कृतम्। पुरा कृतस् पापस्य कर्मदोषो भवत्ययम्
दोपस्यैतस्य वै ब्रह्मन्विघाते यत्नवानहम्। विधिना हि हते पूर्वं निमित्तं घातको भवेत्
निमित्तभूता हि वयं कर्मणोऽस्य द्विजोत्तम
येषां हतानां मांसानि विक्रीणीमो वयं द्विज। तेषामपि भवेद्धर्म उपयोगेन भक्षणात्। देवतातिथिभृत्यानां पितृणां चापि पूजनात्
ओषध्यो वीरुधश्चैव पशवो मृगपक्षिणः। अन्नाद्यभूता लोकस्य इत्यपि श्रूयते श्रुतिः
आत्ममांसप्रसादेन शिबिरौशीनरो नृपः। स्वर्गं सुदुर्लभं प्राप्तः क्षमावान्द्विजसत्तम
राज्ञो महानसे पूर्वं रन्तिदेवस्य वै द्विज। [द्वे सहस्रे तु पच्छेते पशूनामन्वहं तदा।] अहन्यहनि पच्येते द्वे सहस्रे गवां तथा
स मासं ददतो ह्यन्नं रन्तिदेवस्य नित्यशः। अतुला कीर्तिरभवन्नृपस्य द्विजसत्तम
चातुर्मास्ये च पशवो वध्यन्त इति नित्यशः। अग्नयो मांसकामाश्चइत्यपि श्रूयते श्रुतिः
यज्ञेषु पशवो ब्रह्मन्वध्यन्ते सततं द्विजैः। संस्कृताः किल मन्त्रैश्च तेऽपि स्वर्गमवाप्नुवन्
यदि नैवाग्नयो ब्रह्मन्मांसकामाऽभवन्पुरा। भक्ष्यं नैवाभवन्मांसं कस्यचिद्द्विजसत्तम
अत्रापि विधिरुक्तश् मुनिभिर्मांसभक्षणे
देवतानां पितृणां च शुङ्क्ते दत्त्वाऽपियः सदा। यथाविधि यथाश्रद्धं न स दुष्येत भक्षणात्
अमांसाशी भवत्येवमित्यपि श्रूयते श्रुतिः। भार्यां गच्छन्ब्रह्मचारी ऋतौ भवति ब्राह्मणः
सत्यानृते विनिश्चित्य अत्रापि विधिरुच्यते। सौदासेन तदा राज्ञा मानुषा भक्षिता द्विज। शापाभिभूतेन भृशमत्र किं प्रतिभाति ते
स्वधर्म इतिकृत्वा तु न त्यजामि द्विजोत्तम। पुरा कृतमिति ज्ञात्वा रजीवाम्येतेन कर्मणा
स्वधर्मं त्यजतो ब्रह्मन्नधर्म इह दृश्यते। स्वकर्मनिरतो यस्तु धर्मः स इति निश्चयः