अक्रुध्यन्तोऽनसूयन्तो निरहंकारमत्सराः। ऋजवः शमसंपन्नाः शिष्टाचारा भवन्ति ते
त्रैविद्यवृद्धाः शुचयो वृत्तवन्तो मनस्विनः। गुरुशुश्रूषवो दान्ताः शिष्टाचारा भवन्त्युत
तेषामहीनसत्वानां दुष्कराचारकर्मणाम्। स्वैः कर्मभिः सत्कृतानां घोरत्वं संप्रणश्यति
तं तदाचारमाश्चर्यं पुराणं शाश्वतं ध्रुवम्। धर्म्यं धर्मेण पश्यन्तः स्वर्गं यान्ति मनीषिणः
आस्तिका मानहीनाश्च द्विजातिजनपूजकाः। श्रुतवृत्तोपसंपन्नास्ते सन्तः स्वर्गगामिनः
वेदोक्तः प्रथमो धर्मो धर्मशास्त्रेषु चापरः। शिष्टाचीर्णश् शिष्टानां त्रिविधं धर्मलक्षणम्
धारणं चापि वेदानां तीर्थानामवगाहनम्। क्षमा सत्यार्जवं शौचं शिष्टाचारनिदर्शनम्
सर्वभूतदयावन्तो ह्यहिंसानिरताः सदा। परुषं च न भाषन्ते सदा सन्तो द्विजप्रियाः
शुभानामशुभानां च कर्मणां सबलाश्रयम्। विपाकमभिजानन्ति ते शिष्टाः शिष्टसंमताः
न्यायोपेता गुणोपेताः सर्वलोकहितैषिणः। सन्तः स्वर्गजितः शक्त्या सन्निविष्टाश्च सत्पथे। दातारः संविभक्तारो दीनानुग्रहकारिणः
सर्वपूज्याः श्रुतधनास्तथैव च तपस्विनः। सर्वभूतदयावन्तस्ते शिष्टाः शिष्टसंमताः
दाननित्याः सुखान्याशु प्राप्नुवन्त्यपि च श्रियम्। पीडया च कलत्रस्य भृत्यानां च समाहिताः
अतिशक्त्या प्रयच्छन्ति सन्तः सद्भिः समागताः। लोकयात्रां च पशय्न्तो धर्ममात्महितानि च। एवं सन्तोवर्तमानास्त्वेधन्ते शाश्वतीः समाः
अहिंसा सत्यवचनमानृशंस्यवथार्जवम्। अद्रोहो नातिमानश्च ह्रीस्तितिक्षा दमः शमः
धीमन्तो धृतिमन्तश्च भूतानामनुकम्पकाः। अकामद्वेषसंयुक्तास्ते सन्तो लोकसत्कृताः
त्रीण्येव तु पदान्याहुः सतां वृत्तमनुस्मरन्। न चैव द्रुह्येद्दद्याच्च सत्यं चैव सदा वदेत्
सर्वत्र च दयावन्तः सन्तः करुणवेदिनः। गच्छन्तीह सुसंतुष्टा धर्म्यं पन्थानमुत्तमम्
शिष्टाचारा महात्मानो येषां धर्मः सुनिश्चितः। अनसूया क्षमा शान्तिः संतोषः प्रियवादिता
कामक्रोधपरित्यागः शिष्टाचारनिषेवणम्। कर्म च श्रुतसंपन्नं सतां मार्गमनुत्तमम्
शिष्टाचारं निषेवन्ते नित्यं ध्रममनुव्रताः। प्रज्ञाप्रासादमारूह्य मुह्यतो महतो जनान्
प्रेक्षन्ते लोकवृत्तानि विविधानि द्विजोत्तमाः। अतिषुण्यानि दानानि तानि द्विजवरोत्तम
एतत्ते सर्वमाख्यातं यथाप्रज्ञं यथाश्रुतम्। शिष्टाचारगुणान्ब्रह्मन्पुरस्कृत्य द्विजर्षभ
स तु विप्रमथोवाच धर्मव्याधो युधिष्ठिर। यदहं ह्याचरे कर्म घोरमेतदसंशयम्
विधिस्तु बलवान्ब्रह्मन्दुस्तरं हि पुरा कृतम्। पुरा कृतस् पापस्य कर्मदोषो भवत्ययम्
दोपस्यैतस्य वै ब्रह्मन्विघाते यत्नवानहम्। विधिना हि हते पूर्वं निमित्तं घातको भवेत्
निमित्तभूता हि वयं कर्मणोऽस्य द्विजोत्तम
येषां हतानां मांसानि विक्रीणीमो वयं द्विज। तेषामपि भवेद्धर्म उपयोगेन भक्षणात्। देवतातिथिभृत्यानां पितृणां चापि पूजनात्
ओषध्यो वीरुधश्चैव पशवो मृगपक्षिणः। अन्नाद्यभूता लोकस्य इत्यपि श्रूयते श्रुतिः
आत्ममांसप्रसादेन शिबिरौशीनरो नृपः। स्वर्गं सुदुर्लभं प्राप्तः क्षमावान्द्विजसत्तम
राज्ञो महानसे पूर्वं रन्तिदेवस्य वै द्विज। [द्वे सहस्रे तु पच्छेते पशूनामन्वहं तदा।] अहन्यहनि पच्येते द्वे सहस्रे गवां तथा