अब्रुवन्कस्यचिन्निन्दामात्मपूजामवर्णयन्। न कश्चिद्गुणसंपन्नः प्रकाशो भुवि दृश्यते
विकर्मणा तप्यमानः पापाद्विपरिमुच्यते। न तत्कुर्यां पुनरिति द्वितीयात्परिमुच्यते
कर्मणा येन केनापि पापात्मा द्विजसत्तम। एवं श्रुतिरियं ब्रह्मन्धर्मेषु प्रतिदृश्यते
पापनि बुद्ध्वेह पुरा कृतानि स्वधर्मशीलो विनिहन्ति पश्चात्। धर्मो ब्रह्मन्नुदते ब्राह्मणानां यत्कुर्वते पापमिह प्रमादात्
पापं कृत्वा हि मन्येत नाहमस्मीति पूरुषः। [तं तु देवाः प्रपश्यन्ति स्वस्यैवान्तरपूरुषः]
चिकीर्षेदेव कल्यायणं श्रद्दधानोऽनसूयकः
वसनस्येव च्छिद्राणइ साधूनां विवृणोति यः। `अपश्यन्नात्मनो दोषान्स पापः प्रेत्य नश्यति
पापं चेत्पुरुषः कृत्वा कल्याणमभिपद्यते। मुच्यते सर्वपापेभ्यो महाभ्रेणेव चन्द्रमाः
यथाऽऽदित्यः समुद्यन्वै तमः सर्वं व्यपोहति। एवं कल्याणमातिष्ठन्सर्वपापैः प्रमुच्यते
पापानां विद्ध्यधिष्ठानं लोभमोहौ द्विजोत्तम। `तस्मात्तौ विदुषा विप्र वर्जनीयौ विशेषतः
लुबधाः पापं व्यवस्यन्ति नरा नातिबहुश्रुताः। अधर्म्या धर्मरूपेण तृणैः कूपा इवावृताः
येषां पञ् पवित्राणि प्रलापा धर्मसंश्रितः। सर्वं हि विद्यते तेषु शिष्टाचारः सुदुर्लभः
स तु विप्रो महाप्राज्ञ धर्मव्याधमपृच्छत। शिष्टाचारं कथमहं विद्यामिति नरोत्तम
पञ्च कानि पवित्राणि शिष्टाचारेषु नित्यदा'। एतदिच्छामि भद्रं ते श्रोतुं धर्मभृतांवर। त्वत्तो महामते व्याध तद्ब्रवीहि यथातथम्
यज्ञो दानं तपो वेदाः सत्यं च द्विजसत्तम। पञ्चैतानि पवित्राणि शिष्टाचारेषु नित्यदा
कामक्रोधौ वशे कृत्वा दम्भं लोभमनार्जवम्। धर्ममित्येवं संतुष्टास्ते शिष्टाः शिष्टसंमताः
न तेषां भिद्यते वृत्तं यज्ञस्वाध्यायशीलिनाम्। आचारपालनं चैव द्वितीयं शिष्टलक्षणम्
गुरुशुश्रूषणं सत्यमक्रोधो दानमेव च। एतच्चतुष्टयं ब्रह्मञ्शिष्टाचारेषु नित्यदा
शिष्टाचारे मनः कृत्वा प्रतिष्ठाप्य च सर्वशः। यामयं लभते तुष्टिं सा न शक्या ह्यतोऽन्यथा
वेदस्योपनिषत्सत्यं सत्यस्योपनिषद्दमः। दमस्योपनिषत्त्यागः शिष्टाचारेषु नित्यदा
ये तु धर्मानसूयन्ते बुद्धिमोहान्विता नराः। अपथा गच्छतां तेषामनुयाता च पीड्यते
ये तु शिष्टाः सुनियताः श्रुतित्यागपरायणाः। धर्मपन्थानमारूढाः सत्यधर्मपरायणाः
नियच्छन्ति परां बुद्धिं शिष्टाचारान्विता जनाः। उपाध्यायमते युक्ताः स्थित्या धर्मार्थदर्शिनः
नास्तिकान्भिन्नमर्यादान्क्रूरान्पापमतौ स्थितान्। त्यज ताञ्ज्ञानमाश्रित्य धार्मिकानुपसेव्य च
कामलोभग्रहाकीर्णं पञ्चेन्द्रियजलां नदीम्। नावं धृतिमयीं कृत्वा जन्मदुर्गाणि संतर
क्रमेण संचितो धर्मो बुद्धियोगमयो महान्। शिष्टाचारे भवेत्साधू रागः शुक्ले व वाससि
अहिंसा सत्यवचनं सर्वभूतहितं परम्। अहिंसा परमो धर्मः स च सत्ये प्रतिष्ठितः। सत्यं कृत्वा प्रतिष्ठां तु प्रवर्तन्ते प्रवृत्तयः
सत्यमेव गरीयस्तु शिष्टाचारनिषेवितम्। आचारश्च सतां धर्मः सन्तो ह्याचारलक्षणाः
यो यथा प्रकृतिर्जन्तुः स स्वां प्रकृतिमश्नुते। पापात्मा क्रोधकामादीन्दोषानाप्नोत्यनात्मवान्
आरम्भो न्याययुक्तो यः स हि धऱ्म इति स्मृतः। अनाचारस्त्वध्रमेति एतच्छिष्टानुशासनम्