शक्त्याऽन्नदानं सततं तितिक्षा धर्मनित्यता। यथार्हं प्रतिपूजा च सर्वभूतेषु वै दया
त्यागान्नान्यत्र मर्त्यानां गुणास्तिष्ठान्ति पूरुषे। मृषावादं परिहरेत्कुर्यात्प्रियमयाचितः
न च कामान्न संरम्भान्न द्वेषाद्धर्ममुत्सृजेत्। प्रिये नातिभृशं हृष्येदप्रिये न च संज्वरेत्
न मुह्येदर्थकृच्छ्रेषु न च धऱ्मं परित्यजेत्। कर्म चेत्किंचिदन्यत्स्यादितरन्न तदाचरेत्
यत्कल्याणमभिध्यायेत्तत्रात्मानं नियोजयेत्। न पापं प्रति पापः स्यात्साधुरेव सदा भवेत्
आत्मनैव हतः पापो यः पापं कर्तुमिच्छति। कर्म चैतदसाधूनां वृजिनानामसाधुकम्
न धर्मोस्तीति मन्वानाः शुचीनवहसन्ति ये। अश्रद्दधाना धर्मस् ते नश्यन्ति न संशयः
महादृतिरिवाध्मातः पापो भवति नित्यदा। `साधुः सन्नतिमानेव सर्वत्रद्विजसत्तम
मूढानामवलिप्तानामसारं भाषितं भवेत्। दर्शयन्त्यन्तरात्मानं दिवा रूपमिवांशुमान्
न लोके राजते मूर्खः केवलात्मप्रशंसया। अपिचेह मृजाहीनः कृतविद्यः प्रकाशते
अब्रुवन्कस्यचिन्निन्दामात्मपूजामवर्णयन्। न कश्चिद्गुणसंपन्नः प्रकाशो भुवि दृश्यते
विकर्मणा तप्यमानः पापाद्विपरिमुच्यते। न तत्कुर्यां पुनरिति द्वितीयात्परिमुच्यते
कर्मणा येन केनापि पापात्मा द्विजसत्तम। एवं श्रुतिरियं ब्रह्मन्धर्मेषु प्रतिदृश्यते
पापनि बुद्ध्वेह पुरा कृतानि स्वधर्मशीलो विनिहन्ति पश्चात्। धर्मो ब्रह्मन्नुदते ब्राह्मणानां यत्कुर्वते पापमिह प्रमादात्
पापं कृत्वा हि मन्येत नाहमस्मीति पूरुषः। [तं तु देवाः प्रपश्यन्ति स्वस्यैवान्तरपूरुषः]
चिकीर्षेदेव कल्यायणं श्रद्दधानोऽनसूयकः
वसनस्येव च्छिद्राणइ साधूनां विवृणोति यः। `अपश्यन्नात्मनो दोषान्स पापः प्रेत्य नश्यति
पापं चेत्पुरुषः कृत्वा कल्याणमभिपद्यते। मुच्यते सर्वपापेभ्यो महाभ्रेणेव चन्द्रमाः
यथाऽऽदित्यः समुद्यन्वै तमः सर्वं व्यपोहति। एवं कल्याणमातिष्ठन्सर्वपापैः प्रमुच्यते
पापानां विद्ध्यधिष्ठानं लोभमोहौ द्विजोत्तम। `तस्मात्तौ विदुषा विप्र वर्जनीयौ विशेषतः
लुबधाः पापं व्यवस्यन्ति नरा नातिबहुश्रुताः। अधर्म्या धर्मरूपेण तृणैः कूपा इवावृताः
येषां पञ् पवित्राणि प्रलापा धर्मसंश्रितः। सर्वं हि विद्यते तेषु शिष्टाचारः सुदुर्लभः
स तु विप्रो महाप्राज्ञ धर्मव्याधमपृच्छत। शिष्टाचारं कथमहं विद्यामिति नरोत्तम
पञ्च कानि पवित्राणि शिष्टाचारेषु नित्यदा'। एतदिच्छामि भद्रं ते श्रोतुं धर्मभृतांवर। त्वत्तो महामते व्याध तद्ब्रवीहि यथातथम्
यज्ञो दानं तपो वेदाः सत्यं च द्विजसत्तम। पञ्चैतानि पवित्राणि शिष्टाचारेषु नित्यदा
कामक्रोधौ वशे कृत्वा दम्भं लोभमनार्जवम्। धर्ममित्येवं संतुष्टास्ते शिष्टाः शिष्टसंमताः
न तेषां भिद्यते वृत्तं यज्ञस्वाध्यायशीलिनाम्। आचारपालनं चैव द्वितीयं शिष्टलक्षणम्
गुरुशुश्रूषणं सत्यमक्रोधो दानमेव च। एतच्चतुष्टयं ब्रह्मञ्शिष्टाचारेषु नित्यदा
शिष्टाचारे मनः कृत्वा प्रतिष्ठाप्य च सर्वशः। यामयं लभते तुष्टिं सा न शक्या ह्यतोऽन्यथा
वेदस्योपनिषत्सत्यं सत्यस्योपनिषद्दमः। दमस्योपनिषत्त्यागः शिष्टाचारेषु नित्यदा