राजानो हि स्वधर्मेण श्रियमिच्छन्ति भूयसीम्। सर्वेषामेव वर्णानां त्राता राजा भवत्युत
परेण हि हतान्ब्रह्मन्वराहमहिषानहम्। न स्वयं हन्मि विप्रर्षे विक्रीणामि सदा त्वहम्
न भक्षयामि मांसानि ऋतुगामी तथाह्यहम्। सदोपवासी च तथा नक्तभोजी सदा द्विज
अशीलश्चापि पुरुषो भूत्वा भवति शीलवान्। प्राणिहिंसारतिश्चापि भवते धार्मिकः पुनः
व्यभिचाराननरेन्द्राणां धर्मः संकीर्यते महान्। अधर्मो वर्तते चापि संकीर्यन्ते ततः प्रजाः
भेरुण्डा वामनाः कुब्जाः स्थूलशीर्षास्तथैव च। क्लीबाश्चान्धाश्च बधिरा जायन्तेऽत्युच्चलोचनाः
पार्थिवानामधर्मत्वात्प्रजानामभवः सदा। स एष राजा जनकः प्रजा धर्मेण पश्यति
अनुगृह्णन्प्रजाः सर्वाः स्वधर्मनिरताः सदा। `पात्येष राजा जनकः पितृवद्द्विजसत्तम
येचैव मां प्रशंसन्ति येच निन्दन्ति मानवाः। सर्वान्सुपरिणीतेन कर्माणा तोषयाम्यहम्
ये जीवन्ति स्वधर्मेण संयुञ्जन्ति च पार्थिवाः। न किंचिदुपजीवनति दान्ता उत्थानसीलिनः
शक्त्याऽन्नदानं सततं तितिक्षा धर्मनित्यता। यथार्हं प्रतिपूजा च सर्वभूतेषु वै दया
त्यागान्नान्यत्र मर्त्यानां गुणास्तिष्ठान्ति पूरुषे। मृषावादं परिहरेत्कुर्यात्प्रियमयाचितः
न च कामान्न संरम्भान्न द्वेषाद्धर्ममुत्सृजेत्। प्रिये नातिभृशं हृष्येदप्रिये न च संज्वरेत्
न मुह्येदर्थकृच्छ्रेषु न च धऱ्मं परित्यजेत्। कर्म चेत्किंचिदन्यत्स्यादितरन्न तदाचरेत्
यत्कल्याणमभिध्यायेत्तत्रात्मानं नियोजयेत्। न पापं प्रति पापः स्यात्साधुरेव सदा भवेत्
आत्मनैव हतः पापो यः पापं कर्तुमिच्छति। कर्म चैतदसाधूनां वृजिनानामसाधुकम्
न धर्मोस्तीति मन्वानाः शुचीनवहसन्ति ये। अश्रद्दधाना धर्मस् ते नश्यन्ति न संशयः
महादृतिरिवाध्मातः पापो भवति नित्यदा। `साधुः सन्नतिमानेव सर्वत्रद्विजसत्तम
मूढानामवलिप्तानामसारं भाषितं भवेत्। दर्शयन्त्यन्तरात्मानं दिवा रूपमिवांशुमान्
न लोके राजते मूर्खः केवलात्मप्रशंसया। अपिचेह मृजाहीनः कृतविद्यः प्रकाशते
अब्रुवन्कस्यचिन्निन्दामात्मपूजामवर्णयन्। न कश्चिद्गुणसंपन्नः प्रकाशो भुवि दृश्यते
विकर्मणा तप्यमानः पापाद्विपरिमुच्यते। न तत्कुर्यां पुनरिति द्वितीयात्परिमुच्यते
कर्मणा येन केनापि पापात्मा द्विजसत्तम। एवं श्रुतिरियं ब्रह्मन्धर्मेषु प्रतिदृश्यते
पापनि बुद्ध्वेह पुरा कृतानि स्वधर्मशीलो विनिहन्ति पश्चात्। धर्मो ब्रह्मन्नुदते ब्राह्मणानां यत्कुर्वते पापमिह प्रमादात्
पापं कृत्वा हि मन्येत नाहमस्मीति पूरुषः। [तं तु देवाः प्रपश्यन्ति स्वस्यैवान्तरपूरुषः]
चिकीर्षेदेव कल्यायणं श्रद्दधानोऽनसूयकः
वसनस्येव च्छिद्राणइ साधूनां विवृणोति यः। `अपश्यन्नात्मनो दोषान्स पापः प्रेत्य नश्यति
पापं चेत्पुरुषः कृत्वा कल्याणमभिपद्यते। मुच्यते सर्वपापेभ्यो महाभ्रेणेव चन्द्रमाः
यथाऽऽदित्यः समुद्यन्वै तमः सर्वं व्यपोहति। एवं कल्याणमातिष्ठन्सर्वपापैः प्रमुच्यते
पापानां विद्ध्यधिष्ठानं लोभमोहौ द्विजोत्तम। `तस्मात्तौ विदुषा विप्र वर्जनीयौ विशेषतः