य इदं श्रावयेद्विद्वान्ये चेदं शृणुयुर्नराः। ते ब्रह्मणः स्थानमेत्य प्राप्नुयुर्देवतुल्यताम्
इदं हि वेदैः समितं पवित्रमपि चोत्तमम्। श्राव्याणामुत्तमं चेदं पुराणमृषिसंस्तुतम्
अस्मिन्नर्थश्च कामश्च निखिलेनोपदेक्ष्यते। इतिहासे महापुण्ये बुद्धिश्च परिनैष्ठिकी
अक्षुद्रान्दानशीलांश्च सत्यशीलाननास्तिकान्। कार्ष्णं वेदमिमं विद्वाञ्छ्रावयित्वाऽर्थमश्नुते
भ्रूणहत्याकृतं चापि पापं जह्यादसंशयम्। इतिहासमिमं श्रुत्वा पुरुषोऽपि सुदारुणः
मुच्यते सर्वपापेभ्यो राहुणा चन्द्रमा यथा। जयो नामेतिहासोऽयं श्रोतव्यो विजिगीषुणा
महीं विजयते राजा शत्रूंश्चापि पराजयेत्। इदं पुंसवनं श्रेष्ठमिदं स्वस्त्ययनं महत्
महिषीयुवराजाभ्यां श्रोतव्यं बहुशस्तथा। वीरं जनयते पुत्रं कन्यां वा राज्यभागिनीम्
धर्मशास्त्रमिदं पुण्यमर्थशास्त्रमिदं परम्। मोक्षशास्त्रमिदं प्रोक्तं व्यासेनामितबुद्धिना
धर्मे चार्थे च कामे च मोक्षे च भरतर्षभ। यदिहास्ति तदन्यत्र यन्नेहास्ति न कुत्रचित्। इदं हि ब्राह्मणैर्लोके आख्यातं ब्राह्मणेष्विह
संप्रत्याचक्षते चेदं तथा श्रोष्यन्ति चापरे। पुत्राः शुश्रूषवः सन्ति प्रेष्याश्च प्रियकारिणः
भरतानां महज्जन्म शृण्वतामनसूयताम्। नास्ति व्याधिभयं तेषां परलोकभयं कुतः
शरीरेण कृतं पापं वाचा च मनसैव च। सर्वं संत्यजति क्षिप्रं य इदं शृणुयान्नरः
धन्यं यशस्यमायुष्यं पुण्यं स्वर्ग्यं तथैव च। कृष्णद्वैपायनेनेदं कृतं पुण्यचिकीर्षुणा
कीर्तिं प्रथयता लोके पाण्डवानां महात्मनाम्। अन्येषां क्षत्रियाणां च भूरिद्रविणतेजसाम्
सर्वविद्यावदातानां लोके प्रथितकर्मणाम्। य इदं मानवो लोके पुण्यार्थे ब्राह्मणाञ्छुचीन्
श्रावयेत महापुण्यं तस्य धर्मः सनातनः। कुरूणां प्रथितं वंशं कीर्तयन्सततं शुचिः
वंशमाप्नोति विपुलं लोके पूज्यतमो भवेत्। योऽधीते भारतं पुम्यं ब्राह्मणो नियतव्रतः
चतुरो वार्षिकान्मासान्सर्वपापैः प्रमुच्यते। विज्ञेयः स च वेदानां पारगो भारतं पठन्
देवा राजर्षयो ह्यत्र पुण्या ब्रह्मर्षयस्तथा। कीर्त्यन्ते धूतपाप्मानः कीर्त्यते केशवस्तथा
भगवांश्चापि देवेशो यत्र देवी च कीर्त्यते। अनेकजननो यत्र कार्तिकेयस्य संभवः
ब्राह्मणानां गवां चैव माहात्म्यं यत्र कीर्त्यते। सर्वश्रुतिसमूहोऽयं श्रोतव्यो धर्मबुद्धिभिः
य इदं श्रावयेद्विद्वान्ब्राह्मणानिह पर्वसु। धूतपाप्मा जितस्वर्गो ब्रह्म गच्छति शाश्वतम्
श्रावयेद्ब्राह्मणाञ्श्राद्धे यश्चेमं पादमन्ततः। अक्षय्यं तस्य तच्छ्राद्धमुपावर्तेत्पितॄनिह
अह्ना यदेनः क्रियते इन्द्रियैर्मनसाऽपि वा। ज्ञानादज्ञानतो वापि प्रकरोति नरश्च यत्
तन्महाभारताख्यानं श्रुत्वैव प्रविलीयते। भरतानां महज्जन्म महाभारतमुच्यते
निरुक्तमस्य यो वेद सर्वपापैः प्रमुच्यते। भरतानां महज्जन्म महाभारतमुच्यते
महतो ह्येनसो मर्त्यान्मोचयेदनुकीर्तितः। त्रिभिर्वर्षैर्महाभागः कृष्णद्वैपायनोऽब्रवीत्
नित्योत्थितः शुचिः शक्तो महाभारतमादितः। तपोनियममास्थाय कृतमेतन्महर्षिणा
तस्मान्नियमसंयुक्तैः श्रोतव्यं ब्राह्मणैरिदम्। कृष्णप्रोक्तामिमां पुण्यां भारतीमुत्तमां कथाम्