स तु ज्ञाता द्विजं प्राप्तं सहसा संभ्रमोत्थितः। आजगाम यतो विप्रः स्थित एकान्तआसने
अभिवादये त्वां भगवन्स्वागतं ते द्विजोत्तम। अहं व्याधो हि भद्रं ते किं करोमि प्रशाधि माम्
एकपत्न्या यदुक्तोसि गच्छ त्वं मिथिलामिति। जानाम्येतदहं सर्वं यदर्थं त्वमिहागतः
श्रुत्वा च तस्य तद्वाक्यं स विप्रो भृशविस्मितः। द्वितीयमिदमाश्चर्यमित्यचिन्तयत द्विजः
अदेशस्थं हि ते स्तानमिति व्याघोऽब्रवीद्द्विजम्। गृहं गच्छाव भगवन्यदि ते रोचतेऽनघ
बाढमित्येव तं विप्रो हृष्टो वचनमब्रवीत्। अग्रतस्तु द्विजं कृत्वा स जगाम गृहं प्रति
प्रविश्य च गृहंरम्यमासनेनाभिपूजितः। `अर्ध्येण च स वै तेन व्याधेन द्विजसत्तमः
पाद्यमाचमनीयं च प्रतिगृह्य द्विजोत्तमः। ततः सुखोपविष्स्तं व्याधं वचनमब्रवीत्
कर्मैतद्वै न सदृशं भवतः प्रतिभाति मे। अनुतप्ये भृशं तात तव घोरेण कर्मणा
कुलोचितमिदं कर्म पितृपैतामहं परम्। वर्तमानस्य मे धर्मे स्वे मन्युं मा कृथा द्विज
विधात्रा विहितं पूर्वं कर्म स्वमनुपालयन्। प्रयत्नाच्च गुरू वृद्धौ शुश्रूषेऽहं द्विजोत्तम
सत्यं वदे नाभ्यसूये यथाशक्ति ददामि च। देवतातिथिभृत्यानामवशिष्टेन वर्तये
न कुत्सयाम्यहं किंचिन्न गर्हे बलवत्तरम्। कृतमन्वेति कर्तारं पुरा कर्म द्विजेत्तम
कृषिगोरक्ष्यवाणिज्यमिह लोकस्य जीवनम्। दण्डनीतिस्त्रयो विद्या तेन लोको भवत्युत
कर्म शूद्रे कृषिर्वैश्ये संग्रामः क्षत्रिये स्मृतः। ब्रह्मचर्यतपोमन्त्राः सत्यं च ब्राह्मणे सदा
राजा प्रशास्ति धर्मेण स्वकर्मनिरताः प्रजाः। विकर्माणश्च ये केचित्तान्युनक्ति स्वकर्मसु
भेतव्यं हि सदा राज्ञां प्रजानामधिपा हिते। मारयन्ति विकर्मस्थं लुब्धा मृगमिवेषुभिः
जनकस्येह विप्रर्षे विकर्मस्थो न विद्यते। स्वकर्मनिरता वर्णाश्चत्वारोपि द्विजोत्तम
स एष जनको राजा दुर्वृत्तमपि चेत्सुतम्। दण्ड्यं दण्डे निक्षिपति यथा न ग्लाति धार्मिकम्
सुयुक्तचारो नृपतिः सर्वं धर्मेण पश्यति। श्रीश्च राज्यं च दण्डश्च क्षत्रियाणां द्विजोत्तम
राजानो हि स्वधर्मेण श्रियमिच्छन्ति भूयसीम्। सर्वेषामेव वर्णानां त्राता राजा भवत्युत
परेण हि हतान्ब्रह्मन्वराहमहिषानहम्। न स्वयं हन्मि विप्रर्षे विक्रीणामि सदा त्वहम्
न भक्षयामि मांसानि ऋतुगामी तथाह्यहम्। सदोपवासी च तथा नक्तभोजी सदा द्विज
अशीलश्चापि पुरुषो भूत्वा भवति शीलवान्। प्राणिहिंसारतिश्चापि भवते धार्मिकः पुनः
व्यभिचाराननरेन्द्राणां धर्मः संकीर्यते महान्। अधर्मो वर्तते चापि संकीर्यन्ते ततः प्रजाः
भेरुण्डा वामनाः कुब्जाः स्थूलशीर्षास्तथैव च। क्लीबाश्चान्धाश्च बधिरा जायन्तेऽत्युच्चलोचनाः
पार्थिवानामधर्मत्वात्प्रजानामभवः सदा। स एष राजा जनकः प्रजा धर्मेण पश्यति
अनुगृह्णन्प्रजाः सर्वाः स्वधर्मनिरताः सदा। `पात्येष राजा जनकः पितृवद्द्विजसत्तम
येचैव मां प्रशंसन्ति येच निन्दन्ति मानवाः। सर्वान्सुपरिणीतेन कर्माणा तोषयाम्यहम्
ये जीवन्ति स्वधर्मेण संयुञ्जन्ति च पार्थिवाः। न किंचिदुपजीवनति दान्ता उत्थानसीलिनः