श्रुतिप्रमाणो धर्मः स्यादिति वृद्धानुशासनम्। बहुधा दृश्यते धर्मः सूक्ष्म एव द्विजोत्तम
भगवानपि धर्मज्ञः स्वाद्यायनिरतः शुचिः। न तु तत्त्वेन भगवन्दर्मं वेत्सीति मे मतिः
यदि विप्र न जानीषे धर्मं परमकं द्विज। धर्मव्याधं तत पृच्छ गत्वा तु मिथिलां पुरीम्
मातापितृभ्यां शुश्रूपुः सत्यवादी जितेन्द्रियः। मिथिलायां वसेद्व्याधः स ते धर्मान्प्रवक्ष्यति
तत्र गच्छस्व भद्रं ते यथाकामं द्विजोत्तम। `व्याधः परमधर्मात्मा स ते छेत्स्यति संशयम्
अत्युक्तमपि मे सर्वं क्षन्तुमर्हस्यनिन्दित। स्त्रियो ह्यवध्याः सर्वेषां ये धर्ममभिविन्दते
प्रीतोस्मि तव भद्रं ते गतः क्रोधश्च शोभने। उपालम्भस्त्वया प्रोक्तो मम निश्रेयसं परम्
स्वस्ति तेऽस्तु गमिष्यामि साधयिष्यामि शोभने। `धन्या त्वमसि कल्याणि यस्याः स्याद्वृत्तमीदृशम्
तया विसृष्टो निर्गत्य स्वमेव भवनं ययौ। विनिन्दन्स स्वमात्मानं कौशिको द्विजसत्तमः ।। वस्त्रिणो वस्त्रदा यान्ति अवस्त्रा यान्त्यवस्त्रदाः
चिन्तयित्वा तदाश्चर्यं स्त्रिया प्रोक्तमशेपतः। विनिन्दन्स द्विजोऽऽत्मानमागस्कृत इवाबभौ
चिन्तयानः स धर्मस्य सूक्ष्मां गतिमथाब्रवीत्। श्रद्दधानेन वै भाव्ये गच्छामि मिथिलामहम्
कृतात्मा धर्मवित्तस्यां व्याधो निवसते किल। तं गच्चाम्यहमद्यैव धर्मं प्रष्टुं तपोधनम्
इतिसंचिन्त्य मनसा श्रद्दधानः स्त्रिया वचः। बलाकाप्रत्ययेनासौ धर्म्यैश्च वचनैः शुभैः
संप्रतस्थे स मिथिलां कौतूहलसमन्वितः। अतिक्रामन्नरण्यानि ग्रामांश्च नगराणि च
ततो जगाम मिथिलां जनकेन सुरक्षिताम्। धर्मसेतुसमाकीर्णां यज्ञोत्सववतीं शुभाम्
गोपुराट्टालकवतीं हर्म्यप्राकारशोभनाम्। प्रविश्य नगरीं रम्यां विमानैर्बहुभिर्युताम्
पण्यैश्च बहुभिर्युक्तां सुविभक्तमहापथाम्। अश्वै रथैस्तथा नागैर्योधैश्च बहुभिर्युताम्
हृष्टपुष्टजनाकीर्णां नित्योत्सवसमाकुलाम्। सोऽपस्यद्बहुवृत्तान्तां ब्राह्मणः समतिक्रमन्
धर्मव्याधमपृच्छच्च स चास्य कथितो द्विजैः। अपश्यत्तत्रगत्वा तं सूनामध्ये व्यवस्थितम्
मार्गमाहिपमांसानि विक्रीणन्तं तपस्विनम्। आकुलत्वाच्च क्रेतृणामेकान्ते संस्थितो द्विजः
स तु ज्ञाता द्विजं प्राप्तं सहसा संभ्रमोत्थितः। आजगाम यतो विप्रः स्थित एकान्तआसने
अभिवादये त्वां भगवन्स्वागतं ते द्विजोत्तम। अहं व्याधो हि भद्रं ते किं करोमि प्रशाधि माम्
एकपत्न्या यदुक्तोसि गच्छ त्वं मिथिलामिति। जानाम्येतदहं सर्वं यदर्थं त्वमिहागतः
श्रुत्वा च तस्य तद्वाक्यं स विप्रो भृशविस्मितः। द्वितीयमिदमाश्चर्यमित्यचिन्तयत द्विजः
अदेशस्थं हि ते स्तानमिति व्याघोऽब्रवीद्द्विजम्। गृहं गच्छाव भगवन्यदि ते रोचतेऽनघ
बाढमित्येव तं विप्रो हृष्टो वचनमब्रवीत्। अग्रतस्तु द्विजं कृत्वा स जगाम गृहं प्रति
प्रविश्य च गृहंरम्यमासनेनाभिपूजितः। `अर्ध्येण च स वै तेन व्याधेन द्विजसत्तमः
पाद्यमाचमनीयं च प्रतिगृह्य द्विजोत्तमः। ततः सुखोपविष्स्तं व्याधं वचनमब्रवीत्
कर्मैतद्वै न सदृशं भवतः प्रतिभाति मे। अनुतप्ये भृशं तात तव घोरेण कर्मणा
कुलोचितमिदं कर्म पितृपैतामहं परम्। वर्तमानस्य मे धर्मे स्वे मन्युं मा कृथा द्विज