कर्मणा मनसा वाचा नात्यश्नान्नापि चापिवत्। तं सर्वभावोपगता पतिशुश्रूषणे रता
साध्वाचारा शुचिर्दक्षा कुटुम्बस्य हितैषिणी। भर्तुश्चापि हितं यत्तत्सततं साऽनुवर्तते
देवतातिथिभृत्यानां श्वश्रूश्वशुरयोस्तथा। शुश्रूषणपरा नित्यं सततं संयतेन्द्रिया
सा ब्राह्मणं तदा दृष्ट्वा संस्थितं भैक्षकाङ्क्षिणम्। कुर्वती पतिशुश्रूषां सस्माराथ शुभेक्षणा
व्रीडिता साऽभवत्साध्वी तदा भरतसत्तम। भिक्षामादाय विप्राय निर्जगाम यशस्विनी
किमिदं भवति त्वं मां तिष्ठेत्युक्त्वा वराङ्गने। उपरोधं कृतवती न विसर्जितवत्यसि
ब्राह्मणं क्रोधसंतप्तं ज्वलन्तमिव तेजसा। दृष्ट्वा साध्वी मनुष्येन्द्रसान्त्वपूर्वं वचोऽब्रवीत्
क्षमस्वविप्रप्रवर क्षमस्व स्त्रीजडात्मताम्। प्रसीद भगवन्मह्यं कृपां कुरु मयि द्विज
क्षन्तुमर्हसि मे विद्वन्भर्ता मे दैवतं महत्। स चापि क्षुधितः श्रान्तः प्राप्तः शुश्रूषितोमया
ब्राह्मणआ न गरीयांसो गरीयांस्ते पतिः कृतः। गृहस्थधर्मे वर्तन्ती ब्राह्मणानवमन्यसे
इन्द्रोऽप्येषां प्रणमते किं पुनर्मानवो भुवि। अवलिप्ते न जानीषे वृद्धानां न श्रुतं त्वया
ब्राह्मणा ह्यग्निसदृशा दहेयुः पृथिवीमपि। `सपर्वतवनद्वीपां क्षिप्रमेवावमानिताः
[नाहं बलाका विप्रर्षे त्यज क्रोधं तपोधन। अनया क्रुद्धया दृष्ट्या क्रुद्धः किं मां करिष्यसि]
नावजानाम्यहं विप्रान्देवैस्तुल्यान्मनस्विनः। अपराधमिमं विप्र क्षन्तुमर्हसि मेऽनघ
जानामि तेजो विप्राणआं महाभाग्यं च धीमताम्। अपेयः सागरः क्रोधात्कृतो हि लवणोदकः
तथैव दीप्ततपसां मुनीनां भावितात्मनाम्। येषां क्रोधाग्निरद्यापि समुद्रे नोपशाम्यति। `कस्तान्परिभवेन्मूढो ब्राह्मणानमितौजसः
ब्राह्मणानां परिभवाद्वातापिः सुदुरात्मवान्। अगस्त्यमृषिमासाद्य जीर्णः क्रूरो महासुरः
बहुप्रभावाः श्रूयन्ते ब्राह्मणानां महात्मनाम्। क्रोधः सुविपुलो ब्रह्मन्प्रसादश्च महात्मनाम्। अस्मिंस्त्वतिक्रमे ब्रह्मन्क्षन्तुमर्हसि मेऽनघ
पतिशुश्रूषया धर्मो य स मे रोचते द्विज। दैवतेष्वपि सर्वेषु भर्ता मे दैवतं परम्
अविशेषेण तस्याहं कुर्यां धर्मं द्विजोत्तम। शुश्रूषायाः फलं पश्य पत्युर्ब्राह्मण यादृशम्
बलाका हि त्वया दग्धा रोषात्तद्विदितं मया। क्रोधः शत्रुः शरीरस्थो मनुष्याणां द्विजोत्तम
मास्म क्रुध्यो बलाकेव न वध्याऽस्मि पतिव्रता'। यः क्रोधमोहौ त्यजति तं देवा ब्राह्मणं विदुः
यो वदेदिह सत्यानि गुरुं संतोषयेत च। हिंसितश्च त हिंसेत तं देवा ब्राह्मणं विदुः
जितेन्द्रियो धर्मपरः स्वाध्यायनिरतः शुचिः। कामक्रोधौ वशौ यस्य तं देवा ब्राह्मणं विदुः
यस्य चात्मसमो लोको धर्मज्ञस्य मनस्विनः। सर्वधर्मेषु चरतस्तं देवा ब्राह्मणं विदुः
योऽध्यापयेदधीयीत यजेद्वा याजयीत वा। दद्याद्वाऽपि यथाशक्ति तं देवा ब्राह्मणं विदुः
ब्राह्मचारी वदान्यो योप्यधीयाद्द्विजपुङ्गवः। स्वाध्यायवानमत्तो वै तं देवा ब्राह्मणं विदुः
यद्ब्राह्मणानां कुशलं तदेषां परिकीर्तयेत्। सत्यं तथा व्याहरतां नानृते रमते मनः
धनं तु ब्राह्मणस्याहुः स्वाध्यायं दममार्जवम्। इन्द्रियाणां निग्रहं च शाश्वतं द्विजसत्तम
सत्यार्जवे धर्ममाहुः परं धर्मविदो जनाः। दुर्ज्ञेयः शाश्वतो धर्मः स च सत्ये प्रतिष्ठितः