भगवन्दुष्करं त्वेतत्प्रतिभाति मम प्रभो। मातापित्रोश्च शुश्रूषा स्त्रीणां भर्तरि च द्विज
स्त्रीणां धर्मात्सुघोराद्धि नान्यं पश्यामि दुष्करम्। साध्वाचाराः स्त्रियो ब्र्हमन्कुर्वन्तीह सदादृताः
दुष्करं खलु कुर्वन्ति पितरो मातरश्च वै। एकपत्न्यश्च या नार्यो याश् सत्यं वदन्त्युत
कुक्षिणा दशमासांश्च गर्भं संधारयन्ति याः। नार्यः कालेन संबूय किमद्भुततरं ततः
संशयं परमं प्राप्य वेदनामतुलामपि। प्रजायन्ते सुतान्नार्यो दुःखेन महता विभो
पुष्णन्ति चापि महता स्नेहेन द्विजपुङ्गव। `चिन्तयन्ति ततश्चापि किंशीलोऽयंभविष्यति
याश्च क्रूरेषु सर्वेषु वर्तमाना जुगुप्सिताः। स्वकर्म कुर्वन्ति सदा दुष्करं तच्च मे मतम्
क्षत्रधर्मसमाचारतत्त्वं व्याख्याहि मे द्विज। धर्मः सुदुर्लभो विप्र नृशंसेन महात्मना
एतदिच्छामि भगवन्प्रश्नं प्रश्नविदांवर। श्रोतुं भृगुकुलश्रेष्ठ शुश्रूषे तव सुव्रत
हन्त तेऽहं समाख्यास्ये प्रश्नमेतं सुदुर्वचम्। तत्त्वेन भरतश्रेष्ठ गदतस्तन्निबोध मे
मातरंश्रेयसीं तात पितृनन्ये तु मेनिरे। दुष्करं कुरुते माता विवर्धयति या प्रजाः
तपसा देवतेज्याभिर्वन्दनेन तितिक्षया। सुप्रशस्तैरुपायैश्चापीहन्ते पितरः सुतान्
एवं कृच्छ्रेण महता पुत्रं प्राप्य सुदुर्लभम्। चिन्तयन्ति सदा वीर कीदृशोऽयं भविष्यति
आशंसते हि पुत्रेषु पिता माता च भारत। यशः कीर्तिमथैश्वर्यं तेजो धर्मं तथैव च
मातुः पितुश्च राजेन्द्र सततं हितकारिंणोः'। तयोराशां तु सफलां यः करोति स धर्मवित्
पिता माता च राजेन्द्र तुष्यतो यस् नित्यशः। इह प्रेत्य च तस्याथ कीर्तिर्धर्मश्र शाश्वतः
नैव यज्ञक्रियाः काश्चिन्न श्राद्धं नोपवासकम्। या तु भर्तरि शुश्रूषा तया स्वर्गं जयत्युत
एतत्प्रकरणं राजन्नधिकृत्य युधिष्ठिर। पतिव्रतानां नियतं धर्मं चावाहितः शृणु
कश्चिद्द्विजातिप्रवरो वेदाध्यायी तपोधनः। तपस्वी धर्मशीलश्च कौशिको नाम भारत
साङ्गोपनिषदान्वेदानधीते द्विजसत्तमः। सवृक्षमूले कस्मिंश्चिद्वेदानुच्चारयन्स्थितः
उपरिष्टाच्च वृक्षस्य बलाका संन्यलीयत। तया पुरीषमुत्सृष्टं ब्राह्मणस्य तदोपरि
समवेक्ष्यततः क्रुद्धः सममध्यायत द्विजः। `तां बलकां महाराज निलीनां नगमूर्धनि
भृशं क्रोधाभिभूतेन बलाका सा निरीक्षिता। अपध्याता च विप्रेण न्यपतद्धरणीतले
बलाकां पतितां दृष्ट्वा गतसत्वामचेतनाम्। कारुण्यादभिसंतप्तः पर्यशोचत तां द्विजः। अकार्यं कृतवानस्मि द्वेषरागबलात्कृतः
इत्युक्ताव बहुशो विद्वान्ग्रामं भैक्षाय संश्रितः। ग्रामे शुचीनि प्रचरन्कुलानि भरतर्षभ
देहीति याचमानोऽसौ तिष्ठेत्युक्तः स्त्रिया ततः। शौचं तु यावत्कुरुते भाजनस्य कुटुम्बिवी
एतस्मिन्नन्तरे राजन्क्षुधासंपीडितो भृशम्। भर्ता प्रविष्टः सहसा तस्या भरतसत्तम
सा तु दृष्ट्वा पतिं साध्वी ब्राह्मणं व्यपहाय तम्। पाद्यमाचमनीयं वै ददौ भर्तुस्तथाऽऽसनम्
प्रह्वा पर्यचरच्चापि भर्तारमसितेक्षणा। आहारेणाथ भक्ष्यैश्च वाक्यैः सुमधुरैस्तथा
उच्छिष्टं भाविता भर्तुर्भुङ्क्ते नित्यं युधिष्ठिर। दैवतं च पतिं मेने भर्तुश्चित्तानुसारिणी